२१६ गायत्रीनिर्वाणं

{अथ षोडशाधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

गायत्रीनिर्वाणं

अग्निर् उवाच
एवं सन्ध्याविधिं कृत्वा गायत्रीञ्च जपेत् स्मरेत् ।
गायञ्च्छिष्यान् यतस्त्रायेत् भार्यां प्राणांस्तथैव च1 ॥००१॥

मूलम्

ततः स्मृतेयं गायत्री सावित्रीय ततो यतः ।
प्रकाशनात्सा सवितुर्वाग्रूपत्वात् सरस्वती ॥००२॥

तज् ज्योतिः परमं ब्रह्म भर्गस्तेजो यतः स्मृतं ।
भा दीप्ताविति रूपं हि भ्रस्जः पाके ऽथ तत् स्मृतं ॥००३॥

ओषध्यादिकं पचति भ्राजृ दीप्तौ तथा भवेत् ।
भर्गः स्याद् भ्राजत इति बहुलं छन्द ईरितं ॥००४॥

वरेण्यं सर्वतेजोभ्यः श्रेष्ठं वै परमं पदं ।
स्वर्गापवर्गकामैर् वा वरणीयं सदैव हि ॥००५॥

वृणोतेर्वरणार्थत्वाज्जाग्रत्स्वप्नादिवर्जितं ।
नित्यशुद्धबुद्धमेकं सत्यन्तद्धीमहीश्वरं ॥००६॥

अहं ब्रह्म परं ज्योतिर्ध्ययेमहि विमुक्तये ।
तज् ज्योतिर्भगवान् विष्णुर्जगज्जन्मादिकारणं ॥००७॥

शिवं केचित् पठन्ति स्म शक्तिरूपं पठन्ति च ।
केचित् सूर्यङ्केचिदग्निं वेदगा अग्निहोत्रिणः ॥००८॥

:न्

[[२८७]]

विश्वास-प्रस्तुतिः

अग्न्यादिरूपो विष्णुर्हि वेदादौ ब्रह्म गीयते ।
तत् पदं परमं विष्णोर्देवस्य सवितुः स्मृतं ॥००९॥

महदाज्यं सूयते हि स्वयं ज्योतिर्हरिः प्रभुः ।
पर्जन्यो वायुरादित्यः शीतोष्णाद्यैश् च पाचयेत् ॥०१०॥

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नन्ततः प्रजाः ॥०११॥

दधातेर्वा धीमहीति मनसा धारयेमहि ।
नो ऽस्माकं यश् च भर्गश् च सर्वेषां प्राणिनां धियः ॥०१२॥

चोदयात् प्रेरयेद् बुद्धीर्भोक्तॄणां सर्वकर्मसु ।
दृष्टादृष्टविपाकेषु विष्णुसूर्याग्निरूपवान् ॥०१३॥

ईश्वरप्रेरितो गच्छेत् स्वर्गं वाश्वभ्रमेव वा ।
ईशावास्यमिदं सर्वं महदादिजगद्धरिः ॥०१४॥

स्वर्गाद्यैः क्रीडते देवो यो ऽहं स पुरुषः प्रभुः ।
आदित्यान्तर्गतं यच्च भर्गाख्यं वै मुमुक्षुभिः ॥०१५॥

जन्ममृत्युविनाशाय दुःखस्य त्रिविधस्य च ।
ध्यानेन पुरुषो ऽयञ्च द्रष्टव्यः सूर्यमण्डले ॥०१६॥

तत्त्वं सदसि चिद्ब्रह्म विष्णोर्यत् परमं पदं ।
देवस्य सवितुर्भर्गो वरेण्यं हि तुरीयकं ॥०१७॥

देहादिजाग्रदाब्रह्म अहं ब्रह्मेति धीमहि ।
यो ऽसावादित्यपुरुषः सो ऽसावहमनन्त ॐ ॥०१८॥

ज्ञानानि शुभकर्मादीन् प्रवर्तयति यः सदा ॥१९॥

{इत्य् आग्नेये महापुराणे गायत्रीनिर्वाणं नाम षोडशाधिकद्विशततमो ऽध्यायः ॥ }

[[२८८]]

  1. कायान् प्राणांस्तथैव चेति ञ॥ ↩︎ ↩︎