{अथ पञ्चदशाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
सन्ध्याविधिः
अग्निर् उवाच
ओङ्कारं यो विजानाति स योगी स हरिः पुमान् ।
ओङ्कारमभ्यसेत्तस्मान्मृन्मन्त्रसारन्तु सर्वदं ॥००१॥
मूलम्

सर्वमन्त्रप्रयोगेषु प्रणवः प्रथमः स्मृतः ।
तेन सम्परिपूर्णं यत्तत् पूर्णं कर्म नेतरत् ॥००२॥

ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयो ऽव्ययाः ।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणी मुखं ॥००३॥

यो ऽधीते ऽहन्यहन्येतास्त्रीणि वर्षाण्यतन्त्रितः ।
स ब्रह्मपरमभ्येति वायुभूतः खमूर्तिमान् ॥००४॥

एकाक्षरं परं ब्रह्म प्राणायामपरन्तपः ।
सावित्र्यास्तु परन्नास्ति मौनात् सत्यं विशिष्यते ॥००५॥

सप्तावर्ता पापहरा दशभिः प्रापयेद्दिवं ।
विंशावर्ता तु सा देवी नयते हीश्वरालयं ॥००६॥

अष्टोत्तरशतं जप्त्वा तीर्णः संसारसागरात् ।
रुद्रकुष्माण्डजप्येभ्यो गायत्री तु विशिष्यते ॥००७॥

न गायत्र्याः परञ्जप्यं न व्याहृतिसमं हुतं ।
गायत्र्याः पादमप्यर्धमृगर्धमृचमेव वा ॥००८॥

ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च ।
गुरुदारागमश् चैव जप्येनैव पुनाति सा ॥००९॥

[[२८२]]
विश्वास-प्रस्तुतिः
पापे कृते तिलैर् होमो गायत्रीजप ईरितः ।
जप्त्वा सहस्रं गायत्र्या उपवासी स पापहा1 ॥०१०॥

गोघ्नः पितृघ्नो मातृघ्नो ब्रह्महा गुरुतल्पगः ।
ब्रह्मघ्नः स्वर्णहारी च सुरापो लक्षजप्यतः ॥०११॥

शुध्यते वाथ वा स्नात्वा शतमन्तर्जले जपेत् ।
अपः शतेन पीत्वा तु गायत्र्याः पापहा भवेत् ॥०१२॥

शतं जप्ता तु गायत्री पापोपशमनी स्मृता ।
सहस्रं शप्ता सा देवी उपपातकनाशिनी ॥०१३॥
मूलम्
शतं जप्ता तु गायत्री पापोपशमनी स्मृता ।
सहस्रं शप्ता सा देवी उपपातकनाशिनी ॥०१३॥
विश्वास-प्रस्तुतिः
अभीष्टदा कोटिजप्या देवत्वं राजतामियात् ।
ओङ्कारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च ॥०१४॥

गायत्री प्रणवश्चान्ते जपे चैवमुदाहृतं ।
विश्वामित्र ऋषिच्छन्दो गायत्रं सविता तथा ॥०१५॥

देवतोपनये जप्ये विनियोगो हुते तथा ।
अग्निर्वायू रविर्विद्युत् यमो जलपतिर्गुरुः ॥०१६॥

पर्जन्य इन्द्रो गन्धर्वः पूषा च तदनन्तरं ।
मित्रो ऽथ वरुणस्त्वष्टा वसवो मरुतः शशी ॥०१७॥

अङ्गिरा विश्वनासत्यौ कस् तथा सर्वदेवताः ।
रुद्रो ब्रह्मा च विष्णुश् च क्रमशो ऽक्षरदेवताः ॥०१८॥

गयत्र्या जपकाले तु कथिताः पापनाशनाः ।
पादाङ्गुष्ठौ च गुल्फौ च नलकौ जानुनी तथा ॥०१९॥

:न्
[[२८३]]
विश्वास-प्रस्तुतिः
स्तनौ च हृदयं ग्रीवा मुखन्तालु च नासिके ॥०२०॥

चक्षुषी च भ्रुवोर्मध्यं ललाटं पूर्वमाननं ।
दक्षिणोत्तरपार्श्वे द्वे शिर आस्यमनुक्रमात् ॥०२१॥

पीतः श्यामश् च कपिलो मरकतो ऽग्निसन्निभः ।
रुक्मविद्युद्धूम्रकृष्णरक्तगौरेन्द्रनीलभाः ॥०२२॥

स्फाटिकस्वर्णपाण्ड्वाभाः पद्मरागो ऽखिलद्युतिः1 ।
हेमधूम्ररक्तनीलरक्तकृष्णसुवर्णभाः ॥०२३॥

शुक्लकृष्णपालाशाभा2 गायत्र्या वर्णकाः क्रमात् ।
ध्यानकाले पापहरा हुतैषा सर्वकामदा ॥०२४॥

गायत्र्या तु तिलैर् होमः सर्वपापप्रणाशनः ।
शान्तिकामो यवैः कुर्यादायुष्कामो घृतेन च ॥०२५॥

सिद्धार्थकैः कर्मसिद्ध्यै पयसा ब्रह्मवर्चसे ।
पुत्रकामस् तथा दध्ना धान्यकामस्तु शालिभिः ॥०२६॥

क्षीरवृक्षसमिद्धिस्तु ग्रहपीडोपशान्तये ।
धनकामस् तथा बिल्वैः श्रीकामः कमलैस् तथा ॥०२७॥

आरोग्यकामो दूर्वाभिर्गुरूत्पाते स एव हि ।
सौभाग्येच्छुर्गुग्गुलुना विद्यार्थी पायसेन च ॥०२८॥

अयुतेनोक्तसिद्धिः स्याल्लक्षेण मनसेप्सितं ।
कोट्या ब्रह्मबधान् मुक्तः कुलोद्धारी हरिर्भवेत् ॥०२९॥

[[२८४]]
विश्वास-प्रस्तुतिः
आवाहनञ्च गायत्र्यास्तत ओङ्कारमभ्यसेत् ॥०३०॥

स्मृत्वौङ्कारन्तु गायत्र्या निबध्नीयाच्छिखान्ततः ।
पुनराचम्य हृडयं नाभिं स्कन्धौ च संस्पृशेत् ॥०३१॥

प्रणवस्य ऋषिर्ब्रह्मा गायत्रीच्छन्द एव च ।
देवो ऽग्निः परमात्मा स्याद्योगो वै सर्वकर्मसु ॥०३२॥

शुक्ला चाग्निमुखी देव्या कात्यायनसगोत्रजा ।
त्रैलोक्यवरणा दिव्या पृथिव्याधारसंयुता ॥०३३॥

अक्षरसूत्रधरा देवी पद्मासनगता शुभा ।
ॐ तेजो ऽसि महो ऽसि बलमसि भ्राजो ऽसि देवानान्धामनामासि । विश्वमसि
विश्वायुः सर्वमसि सर्वायुः ॐ अभि भूः
आगच्छ वरदे देवि जप्ये मे सन्निधौ भव ॥०३४॥

व्याहृतीनान्तु सर्वासामृषिरेव प्रजापतिः ।
व्यस्ताश् चैव समस्ताश् च ब्राह्ममक्षरमोमिति ॥०३५॥

विश्वामित्रो यमदग्निर्भरद्वाजो ऽथ गोतमः ।
ऋषिरत्रिर्वशिष्ठश् च काश्यपश् च यथाक्रमं ॥०३६॥

अग्निर्वायू रविश् चैव वाक्पतिर्वरुणस् तथा ।
इन्द्रो विष्णुर्व्याहृतीनां दैवतानि यथाक्रमं ॥०३७॥

गायत्र्यष्टिगनुष्टुप् च वृहती पङ्क्तिरेव च ।
त्रिष्टुप् च जगती चेति छन्दांस्याहुरनुक्तामात् ॥०३८॥

विनियोगे व्याहृतीनां प्राणायामे च होमके ।
आपोहिष्ठेत्यृचा चापान्द्रुपदादीति वा स्मृता1 ॥०३९॥

[[२८५]]
विश्वास-प्रस्तुतिः
तथा हिरण्यवर्णाभिः पावमानीभिरन्ततः ।
विप्रुषो ऽष्टौ क्षिपेदूर्ध्वमाजन्मकृतपापजित् ॥०४०॥

अन्तर्जले ऋतञ्चेति उपेत्त्रिरघमर्षणं ।
आपोहिष्ठेत्यृचो ऽस्याश् च सिन्धुद्वीप ऋषिः स्मृतः ॥०४१॥

ब्रह्मस्नानाय छन्दो ऽस्य गायत्री देवता जलं ।
मार्जने विनियोगस्य हयावभृथके क्रतोः ॥०४२॥

अघमर्षणसूक्तस्य ऋषिरेवाघमर्षणं ।
अनुष्टुप् च भवेच्छन्दो भाववृत्तस्तु दैवतं ॥०४३॥

आपीज्योरीरस इति गायत्र्यास्तु शिरः स्मृतं ।
ऋषिः प्रजापतिस्तस्य छन्दोहीनं यजुर्यतः ॥०४४॥

ब्रह्माग्निवायुसूर्याश् च देवताः परिकीर्तिताः ।
प्राणरोधात्तु वायुः स्याद्वायोरग्निश् च जायते ॥०४५॥

अग्नेरापस्ततः शुद्धिस्ततश्चाचमनञ्चरेत् ।
अन्तश् चरति भूतेषु गुहायां विश्वमूर्तिषु ॥०४६॥

तपोयज्ञवषट्कार आपो ज्योती रसो ऽमृतं ।
उदुत्यं जातवेदसमृषिः प्रष्कन्न उच्यते ॥०४७॥

गायत्रीच्छन्द आख्यातं सूर्यश् चैव तु दैवतम् ।
अतिरात्रे नियोगः स्यादग्नीषोमो नियोगकः ॥०४८॥

चित्रं देवेति ऋचके ऋषिः कौत्स उदाहृतः ।
त्रिष्टुप् छन्दो दैवतञ्च सूर्यो ऽस्याः परिकीर्तितं ॥०४९॥

{इत्य् आग्नेये महापुराणे सन्ध्याविधिर्नाम पञ्चदशाधिकद्विशततमो ऽध्यायः ॥ }
[[२८६]]