{अथ चतुर्दशाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
मन्त्रमाहत्म्यकथनं
अग्निर् उवाच
नाडीचक्रं प्रवक्ष्यामि यज्ज्ञानाज् ज्ञायते हरिः ।
नाभेरधस्ताद्यत् कन्दमङ्कुरास्तत्र निर्गताः ॥००१॥
मूलम्

[[२७७]]
विश्वास-प्रस्तुतिः
द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः ।
तिर्यगूर्ध्वमधश् चैव व्याप्तन्ताभिः समन्ततः ॥००२॥

चक्रवत्संस्थिता ह्य् एताः प्रधाना दशनाडयः ।
इडा च पिङ्गला चैव सुसुम्णा च तथैव च ॥००३॥

गान्धारी हस्तिजिह्वा च पृथा चैव यथा तथा ।
अलम्बुषा हुहुश् चैव शङ्खिनी दशमी स्मृता ॥००४॥

दश प्राणवहा ह्य् एता नाडयः परिकीर्तिताः ।
प्राणो ऽपानः समानश् च उदानो व्यान एव च ॥००५॥

नागः कूर्मो ऽथ कृकरो देवदत्तो धनञ्जयः ।
प्राणस्तु प्रथमो वायुर्दशानामपि स प्रभुः ॥००६॥

प्राणः प्राणयते प्राणं विसर्गात् पूरणं प्रति ।
नित्यमापूरयत्येष प्राणिनामुरसि स्थितः ॥००७॥

निःश्वासोच्छ्वासकासैस्तु प्राणो जीवसमाश्रितः ।
प्रयाणं कुरुते यस्मात्तस्मात् प्राणः प्रकीर्तितः ॥००८॥

अधो नयत्यपानस्तु आहारञ्च नृणामधः ।
मूत्रशुक्रवहो वायुरपानस्तेन कीर्तितः ॥००९॥

पीतभक्षितमाघ्रातं रक्तपित्तकफानिलं ।
समन्नयति गात्रेषु समानो नाम मारुतः ॥०१०॥

स्पन्दयत्यधरं वक्त्रं नेत्ररागप्रकोपनं ।
उद्वेजयति मर्माणि उदानो नाम मारुतः ॥०११॥

व्यानो विनामयत्यङ्गं व्यानो व्याधिप्रकोपनः ।
प्रतिदानं तथा कण्ठाद्व्यापानाद्व्यान उच्यते ॥०१२॥

[[२७८]]
विश्वास-प्रस्तुतिः
कृकरो भक्षणे चैव देवदत्तो विजृम्भिते ॥०१३॥

धनञ्जयः स्थितो घोषे मृतस्यापि न मुञ्चति ।
जीवः प्रयाति दशधा नाडीचक्रं हि तेन तत् ॥०१४॥

सङ्क्रान्तिर्विषुवञ्चैव अहोरात्रायनानि च ।
अधिमास ऋणञ्चैव ऊनरात्र धनन्तथा1 ॥०१५॥

ऊनरात्रं भवेद्धिक्का अधिमासो विजृम्भिका ।
ऋणञ्चात्र भवेत् कासो निश्वासो धनमुच्यते2 ॥०१६॥

उत्तरं दक्षिणं ज्ञेयं वामं दक्षिणसञ्ज्ञितं ।
मध्ये तु विषुवं प्रोक्तं पुटद्वयविनिःस्मृतं ॥०१७॥

सङ्क्रान्तिः पुनरस्यैव स्वस्थानात् स्थानयोगतः ।
सुसुम्णा मध्यमे ह्य् अङ्गे इडा वामे प्रतिष्ठिता ॥०१८॥

पिङ्गला दक्षिणे विप्र ऊर्ध्वं प्राणो ह्य् अहः स्मृतं ।
अपानो रात्रिरेवं स्यादेको वायुर्दशात्मकः ॥०१९॥

आयामो देहमध्यस्थः सोमग्रहणमिष्यते ।
देहातितत्त्वमायामं आदित्यग्रहणं विदुः ॥०२०॥

उदरं पूरयेत्तावद्वायुना यावदीप्सितं ।
प्राणायामी भवेदेष पूरका देहपूरकः ॥०२१॥
मूलम्
उदरं पूरयेत्तावद्वायुना यावदीप्सितं ।
प्राणायामी भवेदेष पूरका देहपूरकः ॥०२१॥
विश्वास-प्रस्तुतिः
पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः ।
सम्पूरणकुम्भवत्तिष्ठेत् प्राणायामः स कुम्भकः ॥०२२॥

मुञ्चेद्वायुं ततस्तूर्ध्वं श्वासेनैकेन मन्त्रवित् ।
उच्छ्वासयोगयुक्तश् च वायुमूर्द्वं विरेचयेत् ॥०२३॥

:न्
[[२७९]]
विश्वास-प्रस्तुतिः
उच्चरति स्वयं यस्मात् स्वदेहावस्थितः शिवः ।
तस्मात् तत्त्वविदाञ्चैव स एव जप उच्च्यते ॥०२४॥

अयुते द्वे सहस्रैकं षट्शतानि तथैव च ।
अहोरात्रेण योगीन्द्रो जपसङ्ख्यां करोति सः ॥०२५॥

अजपा नाम गायत्री ब्रह्मविष्णुमहेश्वरी ।
अजपां जपते यस्तां पुनर्जन्म न विद्यते ॥०२६॥

चन्द्राग्निरविसंयुक्ता आद्या कुण्डलिनी मता ।
हृत्प्रदेशे तु सा ज्ञेया अङ्कुराकारसंस्थिता ॥०२७॥

सृष्टिन्यासो भवेत्तत्र स वै सर्गावलम्बनात् ।
स्रवन्तं चिन्तयेत्तस्मिन्नमृतं सात्त्विकोत्तमः ॥०२८॥

देहस्थः सकलो ज्ञेयो निष्फलो देहवर्जितः1 ।
हंसहंसेति यो ब्रूयाद्धंसो देवः सदाशिवः ॥०२९॥

तिलेषु च यथा तैलं पुष्पे गन्धः समश्रितः ।
पुरुषस्य तथा देहे स वाह्याभ्यन्तरां स्थितः ॥०३०॥

ब्रह्मणो हृदये स्थानं कण्ठे विष्णुः समाश्रितः ।
तालुमध्ये2 स्थितो रुद्रो ललाटे तु महेश्वरः ॥०३१॥

प्राणाग्रन्तु शिवं विद्यात्तस्यान्ते तु परापरं ।
पञ्चधा सकलः प्रोक्तो विपरीतस्तु निष्फलः ॥०३२॥

प्रासादं नादमुत्थाप्य शततन्तु जपेद्यदि ।
षण्मासात्सिद्धिमाप्नोति योगयुक्तो न संशयः ॥०३३॥

[[२८०]]
विश्वास-प्रस्तुतिः
अणिमादिगुणैश्वर्यं षड्भिर्मासैर् अवाप्नुयात् ॥०३४॥

स्थूलः सूक्ष्मः परश्चेति प्रासादः कथितो मया ।
ह्रस्वो दीर्घः प्लुतश्चेति प्रासादं लक्षयेत्त्रिधा ॥०३५॥

ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् ।
आप्यायने प्लुतश्चेति मूर्ध्नि विन्दुविभूषितः ॥०३६॥

आदावन्ते च ह्रस्वस्य फट्कारो मारणे हितः ।
आदावन्ते च हृदयमाकृष्टौ सम्प्रकीर्तितम् ॥०३७॥

देवस्य दक्षिणां मूर्तिं पञ्चलक्षं स्थितो जपेत् ।
जपान्ते घृतहोमस्तु दशसाहस्रिको भवेत् ॥०३८॥

एवमाप्यायितो मन्त्रो वश्योच्चाटादि कारयेत् ।
ऊर्ध्वे शून्यमधः शून्यं मध्ये शून्यं निरामयं ॥०३९॥

त्रिशून्यं यो विजानाति मुच्यते ऽसौ ध्रुवं द्विजः ।
प्रासादं यो न जानाति पञ्चमन्त्रमहातनुं ॥०४०॥

अष्टत्रिंशत्कलायुक्तं न स आचार्य उच्यते ।
तथोङ्कारञ्च गायत्रीं रुद्रादीन् वेत्त्य।असौ गुरुः ॥०४१॥

{इत्य् आग्नेये महापुराणे मन्त्रमाहात्म्यं नाम चतुर्दशाधिकद्विशततमो ऽध्यायः ॥ }
[[२८१]]