{अथ त्रयोदशाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
पृथ्वीदानानि
अग्निर् उवाच
पृथ्वीदानं प्रवक्ष्यामि पृथिवी त्रिविधा मता ।
शतकोटिर्योजनानां सप्तद्वीपा ससागरा ॥००१॥
मूलम्

जम्बुद्वीपावधिः सा च उत्तमा मेदिनीरिता ।
उत्तमां पञ्चभिर्भारैः काञ्चनैश् च प्रकल्पयेत् ॥००२॥

तदर्धान्तरजं कूर्मं तथा पद्मं समादिशेत् ।
उत्तमा कथिता पृथ्वी द्व्यंशेनैव तु मध्यमा ॥००३॥

कन्यसा च त्रिभागेन1 त्रिहान्या कूर्मपङ्कजे ।
पलानान्तु सहस्रेण कल्पयेत् कल्पपादपं ॥००४॥

:न्
[[२७६]]
विश्वास-प्रस्तुतिः
पञ्चस्कन्धन्तु सङ्कल्प्य पञ्चानान्दापयेत् सुधीः ॥००५॥

एतद्दाता ब्रह्मलोके पितृभिर्मोदते चिरं ।
विष्ण्वग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः ॥००६॥

ब्रह्मविष्णुमहेशाद्या देवा धेनौ व्यवस्थिताः ।
धेनुदानं सर्वदानं सर्वद ब्रह्मलोकदं ॥००७॥

विष्ण्वग्रे कपिलां दत्त्वा तारयेत् सकलं कुलं ।
अलङ्कृत्य स्त्रियं दद्यादश्वमेधफलं लभेत्1 ॥००८॥

भूमिं दत्त्वा सर्वभाक् स्यात् सर्वशस्यप्ररोहिणीम् ।
ग्रामं वाथ पुरं वापि[^२] खेटकञ्च दद्त् सुखी ॥००९॥

कार्त्तिक्यादौ[^३] वृषोत्सर्गं कुर्वंस्तारयते कुलं[^४] ॥१०॥

{इत्य् आग्नेये महापुराणे पृथ्वीदानानि नाम त्रयोदशाधिकद्विशततमो ऽध्यायः ॥ }