{अथ द्वादशाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
मेरुदानानि
अग्निर् उवाच
काम्यदानानि वक्ष्यामि सर्वकाम प्रदानि ते ।
नित्यपूजां मासि मासि कृत्वाथो काम्यपूजनं ॥००१॥
मूलम्

व्रतार्हणं गुरोः पूजा वत्सरान्ते महार्चनं ।
अश्वं वै मार्गशैर्षे तु कमलं पिष्टसम्भवं ॥००२॥

:न्
[[२७२]]
विश्वास-प्रस्तुतिः
गजं पौषे पिष्टमयं त्रिसप्तकुलमुद्धरेत् ॥००३॥

माघे चाश्वरथं पैष्ठं दत्त्वा नरकं व्रजेत् ।
फाल्गुने तु वृषं पैष्टं स्वर्गभुक् स्यान्महीपतिः ॥००४॥

चैत्रे चेक्षुमयीं गावन्दासदासीसमन्वितां ।
दत्त्वा स्वर्गे चिरं स्थित्वा तदन्ते स्यान्महीपतिः ॥००५॥

सप्तव्रीहींश् च वैशाखे दत्त्वा शिवमयो भवेत् ।
बलिमण्डलकञ्चान्नैः कृत्वाषाढे शिवो भवेत् ॥००६॥

विमानं श्रावणे पौष्पं दत्त्वा स्वर्गी ततो नृपः ।
शतद्वयं फलानान्तु दत्त्वोद्धृत्य कुलं नृपः ॥००७॥

गुग्गुलादि दहेद्भाद्रे स्वर्गी स स्यात्ततो नृपः ।
क्षीरसर्पिर्भृतं पात्रमाश्विने स्वर्गदम्भवेत् ॥००८॥

कार्त्तिके गुडखण्डाज्यं दत्त्वा स्वर्गी ततो नृपः ।
मेरुदानं द्वादशकं वक्ष्ये ऽहं भुक्तिमुक्तिदं ॥००९॥

मेरुव्रते तु कार्त्तिक्यां रत्नमेरुन्ददेद् द्विजे ।
सर्वेषाञ्चैव मेरूणां प्रमाणं क्रमशः शृणु ॥०१०॥

वज्रपद्ममहानीलनीलस्फटिकसञ्ज्ञितः ।
पुष्पं मरकतं मुक्ता प्रस्थमात्रेण चोत्तमः ॥०११॥

मध्यो ऽर्धः स्यात्तदर्धो ऽधो वित्तशाठ्यं विवर्जयेत् ।
कार्णिकायां न्यसेन्मेरुं ब्रह्मविष्ण्वीशदैवतं ॥०१२॥

माल्यवान् पूर्वतः पूज्यस्तत्पूर्वे भदरसञ्ज्ञितः ।
अश्वरक्षस्ततः प्रोक्तो निषधो मेरुदक्षिणे ॥०१३॥

हेमकूटो ऽथ हिमवान् त्रयं सौम्ये तथा त्रयं ।
नीलः श्वेतश् च शृङ्गी च पश्चिमे गन्धमादनः ॥०१४॥

[[२७३]]
विश्वास-प्रस्तुतिः
वैकङ्कः केतुमालः स्यान्मेरुर्द्वादशसंयुतः ।
सोपवासो ऽर्चयेद्विष्णुं शिवं वा स्नानपूर्वकं ॥०१५॥

देवाग्रे चार्च्य मेरुञ्च मन्त्रैर् विप्राय वै ददेत् ।
विप्रायामुकगोत्राय मेरुन्द्रव्यमयम्परं ॥०१६॥

भुक्त्यै मुक्त्यै निर्मलत्वे विष्णुदैवं ददामि ते ।
इन्द्रलोके ब्रह्मलोके शिवलोके हरेः पुरे ॥०१७॥

कुलमुद्धृत्य क्रीडेत विमाने देवपूजितः ।
अन्येष्वपि च कालेषु सङ्क्रान्त्यादौ प्रदापयेत् ॥०१८॥

पलानान्तु सहस्रेण हेममेरुम्प्रकल्पयेत् ।
शृङ्गत्रयसमायुक्तं ब्रह्मविष्णुहरान्वितं ॥०१९॥

एकैकं पर्वतन्तस्य शतैकैकेन कारयेत् ।
मेरुणा सह शैलास्तु ख्यातास्तत्र त्रयोदश ॥०२०॥

अयने ग्रहणादौ च विष्ण्वग्रे हरिमर्च्य च ।
स्वर्णमेरुं द्विजायार्प्य विष्णुलोके चिरं वसेत् ॥०२१॥

परमाणवो यावन्त इह राजा भवेच्चिरं ।
रौप्यमेरुं द्वादशाद्रियुतं सङ्कल्पतो ददेत्1 ॥०२२॥

प्रागुक्तं च फलं तस्य विष्णुं विप्रम्प्रपूज्य च ।
भूमिमेरुञ्च विषयं मण्डलं ग्राममेव च2 ॥०२३॥

परिकल्प्याष्टमांशेन शेषांशाः3 पूर्ववत् फलं ।
द्वादशाद्रिसमायुक्तं हस्तिमेरुस्वरूपिणं ॥०२४॥

[[२७४]]
विश्वास-प्रस्तुतिः
ददेत्त्रिपुरुषैर् युक्तं दत्त्वानन्तं फलं लभेत् ।
त्रिपञ्चाश्वैर् अश्वमेरुं हययद्वादशसंयुतं ॥०२५॥

विष्ण्वादीन् पूज्य तं दत्त्वा भुक्तभोगो नृपो भवेत् ।
अश्वसङ्ख्याप्रमाणेन गोमेरुं पूर्ववद्ददेत् ॥०२६॥

पट्टवस्त्रैर् भारमात्रैर् वस्त्रमेरुश् च मध्यतः ।
शैलैर् द्वादशवस्त्रैश् च दत्त्वा तञ्चाक्षयं फलं ॥०२७॥

घृतपञ्चसहस्रैश् च पलानामाज्यपर्वतः ।
शतैः पञ्चभिरेकैकः पार्वते ऽस्मिन् हरिं यजेत् ॥०२८॥

विष्ण्वग्रे ब्राह्मणायार्प्य सर्वं प्राप्य हरिं व्रजेत् ।
एवं च खण्डमेरुञ्च कृत्वा दत्त्वाप्नुयात् फलं ॥०२९॥

धान्यमेरुः पञ्चखारो ऽपर एकैकखारकाः ।
स्वर्णत्रिशृङ्गकाः सर्वे ब्रह्मविष्णुमहेश्वरान् ॥०३०॥

सर्वेषु पूज्य विष्णुं वा विशेषादक्षयं फलं ।
एवं दशांशमानेन तिलमेरुं प्रकल्पयेत् ॥०३१॥

शृङ्गाणि पूर्ववत्तस्य तथैवान्यनगेषु च ।
तिलमेरुं प्रदायाथ बन्धुभिर्विष्णुलोकभाक्1 ॥०३२॥

नमो विष्णुस्वरूपाय धराधराय वै नमः ।
ब्रह्मविष्ण्वीशशृङ्गाय धरानाभिस्थिताय च ॥०३३॥

नगद्वादशनाथाय सर्वपापापहारिणे ।
विष्णुभक्ताय शान्ताय त्राणं मे कुरु सर्वथा ॥०३४॥

[[२७५]]
विश्वास-प्रस्तुतिः
त्वं हरिस्तु हरेरग्रे अहं विष्णुश् च विष्णवे ॥०३५॥

{इत्य् आग्नेये महापुराणे मेरुदानानि नाम द्वादशाधिकद्विशततमो ऽध्यायः ॥ }