{अथैकादशाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नानादानानि
अग्निर् उवाच
एकाङ्गां दशगुर्दद्याद्दश दद्याच्च गोशती ।
शतं सहस्रगुर्दद्यात् सर्वे तुल्यफला हि ते ॥००१॥
मूलम्

प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा ।
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥००२॥

गवां शतप्रदानेन मुच्यते नरकार्णवात् ।
दत्त्वा वत्सतरीं चैव स्वर्हलोके महीयते ॥००३॥

गोदानादायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् ।
इन्द्रादिलोकपालानां या राजमहिषी शुभा ॥००४॥

महिषीदानमाहात्म्यादस्तु मे सर्वकामदा1 ।
धर्मराजस्य साहाय्ये2 यस्याः पुत्रः प्रतिष्ठितः ॥००५॥
विश्वास-प्रस्तुतिः
महिषासुरस्य जननी या सास्तु वरदा मम ।
महिषीदानाच्च सौभाग्यं वृषदानाद्दिवं व्रजेत् ॥००६॥

संयुक्तहलपङ्क्त्याख्यं दानं सर्वफलप्रदं ।
पङ्क्तिर्दशहला प्रोक्ता दारुजा वृषसंयुता ॥००७॥

:न्
[[२६५]]
विश्वास-प्रस्तुतिः
दशानां कपिलानां तु दत्तानां ज्येष्ठपुष्करे ॥००८॥

तत् फलञ्चाक्षयं प्रोक्तं1 वृषभस्य तु मोक्षणे2 ।
धर्मो ऽसित्वञ्चतुष्पादश् चतस्रस्ते प्रिया इमाः ॥००९॥

नमो ब्रह्मण्यदेवेश पितृभूतर्षिपोषक ।
त्वयि मुक्ते ऽक्षया लोका मम सन्तु निरामयाः ॥०१०॥

मा मे ऋणो ऽस्तु दैवत्यो3 भौतः पैत्रो ऽथ मानुषः ।
धर्मस्त्वं त्वत्प्रपन्नस्य या गतिः सास्तु मे ध्रुवा ॥०११॥

अङ्गयेच्चक्रशूलाभ्यां मन्त्रेणानेन चोत्सृजेत् ।
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ॥०१२॥

मुच्यते प्रेतलोकात्तु षण्मासे चाव्दिकादिषु ।
दशहस्तेन कुण्डेन त्रिंशत्कुण्डान्निवर्तनं ॥०१३॥

तान्येव दशविस्ताराद्गोचर्मे तत्प्रदो ऽघभित्4 ।
गोभूहिरण्यसंयुक्तं कृष्णाजिनन्तु यो ऽर्पयेत्5 ॥०१४॥

सर्वदुष्कृतकर्मापि सायुज्यं ब्रह्मणो व्रजेत् ।
भाजनन्तिलसम्पूर्णं मधुना पूर्णमेव च ॥०१५॥

दद्यात् कृष्णतिलानाञ्च प्रस्थमेकञ्च मागधं ।
शय्यां दत्त्वा तु सगुणां6 भुक्तिमुक्तिमवाप्नुयात् ॥०१६॥

हैमीं प्रतिकृतिं कृत्वा दत्त्वा स्वर्गस् तथात्मनः ।
विपुलन्तु गृहं कृत्वा दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥०१७॥

[[२६६]]
विश्वास-प्रस्तुतिः
गृहं मठं सभां स्वर्गी दत्त्वा स्याच्च प्रतिश्रियं ।
दत्त्वा कृत्वा गोगृहञ्च निष्पापः स्वर्गमाप्नुयात् ॥०१८॥

यममाहिषदानात्तु निष्पापः स्वर्गमाप्नुयात् ।
ब्रह्मा हरो हरिर्देवैर् मध्ये च यमदूतकः ॥०१९॥

पाशी1 तस्य शिरश्छित्त्वा तं दद्यात् स्वर्गभाग्भवेत् ।
त्रिमुखाख्यमिदं दानं गृहीत्वा तु द्विजो ऽघभाक् ॥०२०॥

चक्रं रूप्यमयं कृत्वा के धृत्वा तत् प्रदापयेत् ।
हेमयुक्तं द्विजायैतत् कालचक्रमिदम्महत् ॥०२१॥

आत्मतुल्यन्तु यो लौहं ददेन्न नरकं व्रजेत् ।
पञ्चाशत्पलसंयुक्तं लौहदण्डं तु यो ऽर्पयेत् ॥०२२॥

वस्त्रेणाच्छाद्य विप्राय यमदण्डो न विद्यते ।
मूलं फलादि वा द्रव्यं संहतं वाथ चैकशः ॥०२३॥

मृत्युज्जयं समुद्दिश्य दद्यादायुर्विवर्धये ।
पुमान् कृष्णतिलैः कार्यो रौप्यदन्तः सुवर्णदृक् ॥०२४॥

खड्गोद्यतकरो दीर्घो जवाकुसुममण्डलः ।
रक्ताम्वरधरः स्रग्वी शङ्कमालाविभूषितः ॥०२५॥

उपानद्युगयुक्ताङ्घ्रिः कृष्णकम्बलपार्श्वकः ।
गृहीतमांसपिण्डश् च वामे वै कालपूरुषः ॥०२६॥

सम्पूज्य तञ्च गन्धाद्यैः2 ब्राह्मणायोपपादयेत् ।
मरणव्याधिहीनः स्याद्राजराजेश्वरो भवेत् ॥०२७॥

[[२६७]]
विश्वास-प्रस्तुतिः
रेवन्ताधिष्ठितञ्चाश्वं हैमं दत्त्वा न मृत्य्भाक् ॥०२८॥

घण्टादिपूर्णमप्येकं दत्त्वा स्याद्भुक्तिमुक्तिभाक् ।
सर्वान् कामानवाप्नोति यः प्रयच्छति काञ्चनं ॥०२९॥

सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते ।
अन्येषामपि दानानां सुवर्णं1 दक्षिणा स्मृता ॥०३०॥

सुवर्णं रजतं ताम्रं तण्डुलं धान्यमेव च ।
नित्यश्राद्धं देवपूजा सर्वमेतददक्षिणं ॥०३१॥

रजतं दक्षिणा पित्रे धर्मकामार्थसाधनं ।
सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च ॥०३२॥

सर्वमेतन्महाप्राज्ञो ददाति वसुधान्ददत् ।
पितॄंश् च पितृलोकस्थान् देवस्थाने च देवताः ॥०३३॥

सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ।
खर्वटं खेटकं वापि ग्रामं वा शस्यशालिनं ॥०३४॥

निवर्तनशतं वापि तदर्धं वा गृहादिकं ।
अपि गोचर्ममात्राम्बा दत्त्वोर्वीं सर्वभाग् भवेत् ॥०३५॥

तैलविन्दुर्यथा चाप्सु प्रसर्पेद् भूगतं तथा ।
सर्वेषामेवदानानमेकजन्मानुगं फलं ॥०३६॥

हाटकक्षितिगौरीणां सप्तजन्मानुगं फलं ।
त्रिसप्तकुलमुद्धृत्य कन्यादो ब्रह्मलोकभाक् ॥०३७॥

गजं सदक्षिणं दत्त्वा निर्मलः स्वर्गभाग् भवेत् ।
अश्वं दत्त्वायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् ॥०३८॥

[[२६८]]
विश्वास-प्रस्तुतिः
दासीं दत्त्वा द्विजेन्द्राय अप्सरोलोकमाप्नुयात् ।
दत्त्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः ॥०३९॥

अर्धैस्तदर्धैर् अर्धैर् वा भुक्तिमुक्तिमवाप्नुयात्1 ।
शकटं वृषसंयुक्तं दत्त्वा यानेन नाकभाक् ॥०४०॥

वस्त्रदानाल्लभेदायुरारोग्यं स्वर्गमक्षयं ।
धान्यगोधूमकलमयवादीन् स्वर्गभाग् ददत् ॥०४१॥

आसनं तैजसं पात्रं लवणं गन्धचन्दनं ।
धूपं दीपञ्च ताम्वूलं लोहं रूप्यञ्च रत्नकं2 ॥०४२॥

दिव्यानि नानाद्रव्याणि दत्त्वा स्याद् भुक्तिमुक्तिभाक् ।
तिलांश् च तिलपात्रञ्च दत्त्वा स्वर्गमवाप्नुयात् ॥०४३॥

अन्नदानात् परं नास्ति न भूतं न भविष्यति ।
हस्त्यश्वरथदानानि दासीदासगृहाणि च ॥०४४॥

अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीं ।
कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् ॥०४५॥

सर्वपापविनिर्मुक्तो लोकानाप्नोति चाक्षयान् ।
पानीयञ्च प्रपान्दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ॥०४६॥

अग्निं काष्ठञ्च मार्गादौ दत्त्वा दीप्त्यादिमाप्नुयात्3 ।
देवगन्धर्वनारीभिर्विमाने सेव्यते दिवि ॥०४७॥

[[२६९]]
विश्वास-प्रस्तुतिः
छत्रोपानहकाष्ठादि दत्त्वा स्वर्गे सुखी वसेत्1 ॥०४८॥

प्रतिपत्तिथिमुख्येषु विष्कुम्भादिकयोगके ।
चैत्रादौ वत्सरादौ च अश्विन्यादौ हरिं हरं ॥०४९॥

ब्रह्माणं लोकपालादीन् प्रार्च्य दानं महाफलं ।
वृक्षारामान् भोजनादीन् मार्गसंवाहनादिकान् ॥०५०॥

पादाभ्यङ्गादिकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।
त्रीणि तुल्यफलानीह गावः पृथ्वी सरस्वती ॥०५१॥

व्राह्मीं सरस्वतीन्दत्त्वा निर्मलो ब्रह्मलोकभाक् ।
सप्तद्वीपमहीदः स ब्रह्मज्ञानं ददाति यः ॥०५२॥

अभयं सर्वभूतेभ्यो यो दद्यात् सर्वभाङ् नरः ।
पुराणं भारतं वापि रामायणमथापि वा ॥०५३॥

लिखित्वा पुस्तकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।
वेदशास्त्रं नृत्यगीतं यो ऽध्यापयति नाकभाक् ॥०५४॥

वित्तं दद्यादुपाध्याये छात्राणां भोजनादिकं ।
किमदत्तं भवेत्तेन धर्मकामादिदर्शिना ॥०५५॥

वाजपेयसहस्रस्य सम्यग्दत्तस्य यत् फलं ।
तत्फलं सर्वमाप्नोति विद्यादानन्न संशयः ॥०५६॥

शिवालये विष्णुगृहे सूर्यस्य भवने तथा ।
सर्वदानप्रदः स स्यात् पुस्तकं वाचयेत्तु यः ॥०५७॥

त्रैलोक्ये चतुरो वर्णाश् चत्वारश्चाश्रमाः पृथक् ।
ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठताः ॥०५८॥

[[२७०]]
विश्वास-प्रस्तुतिः
विद्या कामदुघा धेनुर्विद्या चक्षुरनुत्तमं ।
उपवेदप्रदानेन गन्धर्वैः सह मोदते ॥०५९॥

वेदाङ्गानाञ्च दानेन स्वर्गलोकमवाप्नुयात् ।
धर्मशास्त्रप्रदानेन धर्मेण सह मोदते ॥०६०॥

सिद्धान्तानां प्रदानेन मोक्षमाप्नोत्यसंशयं ।
विद्यादानमवाप्नोति प्रदानात् पुस्तकस्य तु ॥०६१॥

शास्त्राणि च पुराणानि दत्त्वा सर्वमवाप्नुयात् ।
शिष्यांश् च शिक्षयेद्यस्तु पुण्डलीकफलं लभेत् ॥०६२॥

येन जीवति तद्दत्त्वा फलस्यान्तो न विद्यते ।
लोके स्रेष्ठतमं सर्वमात्मनश्चापि यत् प्रियं ॥०६३॥

सर्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ।
विष्णुं रुद्रं पद्मयोनिं देवीविघ्नेश्वरादिकान् ॥०६४॥

पूजयित्वा प्रदद्याद्यः पूजाद्रव्यं स सर्वभाक् ।
देवालयं च प्रतिमां कारयत् सर्वमाप्नुयात् ॥०६५॥

सम्मार्जनं चोपलेपं कुर्वन् स्यान्निर्मलः पुमान् ।
नानामण्डलकार्यग्रे मण्डलाधिपतिर्भवेत्1 ॥०६६॥

गन्धं पुष्पं धूपदीपं नैवेद्यञ्च प्रदक्षिणं ।
घण्टाध्वजवितानञ्च प्रेक्षणं वाद्यगौतकं ॥०६७॥

वस्त्रादिदत्त्वादेवाय भुक्तिमुक्तिमवाप्नुयात् ।
कस्तूरिकां शिह्लकञ्च श्रीखण्डमगुरून्तथा ॥०६८॥

[[२७१]]
विश्वास-प्रस्तुतिः
घृतप्रस्थेन संस्थाप्य सङ्क्रान्त्यादौ स सर्वभाक् ॥०६९॥

स्नानं पलशतं ज्ञेयमभ्यङ्गं पञ्चविंशतिः ।
पलानान्तु सहस्रेण महास्नानं प्रकीर्तितं ॥०७०॥

दशापराधास्तोयेन क्षीरेण स्नापनाच्छतं ।
सहस्रं पयसा दध्ना घृतेनायुतमिष्यते ॥०७१॥

दासीदासमलङ्कारं गोभूम्यश्वगजादिकं ।
देवाय दत्त्वा सौभाग्यं धनायुष्मान् व्रजेद्दिवं ॥०७२॥

{इत्य् आग्नेये महापुराणे नानादानानि नामैकादशाधिकद्विशततमो ऽध्यायः ॥ }