{अथ दशाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
महादानानि
अग्निर् उवाच
सर्वदानानि वक्ष्यामि महादानानि षोडश ।
तुलापुरुष आद्यन्तु हिरण्यगर्भदानकं ॥००१॥
मूलम्

ब्रह्माण्डं कल्पवृक्षश् च गोसहस्रञ्च पञ्चमं ।
हिरण्यकामधेनुश् च हिरण्याश्वश् च सप्तमं ॥००२॥

हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस् तथा ।
पञ्चलाङ्गलकन्तद्वद्धरादानं तथैव च ॥००३॥
मूलम्
हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस् तथा ।
पञ्चलाङ्गलकन्तद्वद्धरादानं तथैव च ॥००३॥
:न्
[[२६१]]
विश्वास-प्रस्तुतिः
विश्वचक्रं कल्पलता सप्तसागरकं परं ।
रत्नधेनुर्महाभूतघटः शुभदिने ऽर्पयेत् ॥००४॥

मण्डपे मण्डले दानं देवान् प्रार्च्यार्पयेद्द्विजे ।
मेरुदानानि पुण्यानि मेरवो दश तान् शृणु ॥००५॥

धान्यद्रोणसहस्रेण उत्तमो ऽर्धार्धतः परौ ।
उत्तमः षोडशद्रोणः कर्तव्यो लवणाचलः ॥००६॥

दशभारैर् गुडाद्रिः स्यादुत्तमो ऽर्धार्धतः परौ ।
उत्तमः पलसाहस्रैः स्वर्णमेरुस् तथा परौ ॥००७॥

दशद्रोणैस्तिलाद्रिः स्यात् पञ्चभिश् च त्रिभिः क्रमात् ।
कार्पासपर्वतो विंशभारैश् च दशपञ्चभिः ॥००८॥

विंशत्या घृहकुम्भानामुत्तमः स्याद् घृताचलः1 ।
दशभिः पलसाहस्रैर् उत्तमो रजताचलः ॥००९॥

अष्टभारैः शर्कराद्रिर्मध्योमन्दो ऽर्धतो ऽर्धतः ।
दश धेनूः प्रवक्ष्यामि या दत्त्वा भुक्तिमुक्तिभाक् ॥०१०॥

प्रथमा गुडधेनुः स्याद् घृतधेनुस् तथापरा ।
तिलधेनुस्तृतोया च चतुर्थी जलधेनुका ॥०११॥

क्षीरधेनुर्मधुधेनुः शर्करादधिधेनुके ।
रसधेनुः स्वरूपेण दशमी विधिरुच्यते ॥०१२॥
मूलम्
क्षीरधेनुर्मधुधेनुः शर्करादधिधेनुके ।
रसधेनुः स्वरूपेण दशमी विधिरुच्यते ॥०१२॥
विश्वास-प्रस्तुतिः
कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः ।
कृष्णाजिनञ्चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि ॥०१३॥

[[२६२]]
विश्वास-प्रस्तुतिः
लघ्वैणकाजिनं तद्वद्वत्सस्य परिकल्पयेत् ॥०१४॥

प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकां ।
उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयात् ॥०१५॥

वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता ।
अर्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु ॥०१६॥

चतुर्थांशेन वत्सः स्याद् गुडवित्तानुसारतः ।
पञ्च कृष्णलका माषस्ते सुवर्नस्तु षोडश ॥०१७॥

पलं सुवर्णाश् चत्वारस्तुला पलशतं स्मृतं ।
स्याद्भारो विंशतितुला द्रोणस्तु चतुराढकः ॥०१८॥

धेनुवत्सौ गुडस्योभौ सितसूक्ष्माम्बरावृतौ ।
शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ ॥०१९॥

सितसूत्रशिरालौ च सितकम्बलकम्वलौ ।
ताम्रगड्डुकपृष्ठौ तौ सितचामररोमकौ ॥०२०॥
मूलम्
सितसूत्रशिरालौ च सितकम्बलकम्वलौ ।
ताम्रगड्डुकपृष्ठौ तौ सितचामररोमकौ ॥०२०॥
विश्वास-प्रस्तुतिः
विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ ।
क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ॥०२१॥

सुवर्णशृङ्गाभरणौ रजतक्षुरसंयुतौ ।
नानाफलमया दन्ता गन्धघ्राणप्रकल्पितौ ॥०२२॥

रचयित्वा यजेद्धेनुमिमैर् मन्त्रैर् द्विजोत्तम ।
या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता ॥०२३॥

धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ।
देहस्था या च रुद्राणी शङ्करस्य सदा प्रिया ॥०२४॥

धेनुरूपेण सा देवी मम पापं व्यपोहतु ।
विष्णुवक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ॥०२५॥

[[२६३]]
विश्वास-प्रस्तुतिः
चन्द्रार्कऋक्षशक्तिर्या धेनुरूपास्तु सा श्रिये ।
चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च ॥०२६॥

लक्ष्मीर्या लोकपालानां स धेनुर्वरदास्तु मे ।
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः ॥०२७॥

सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ मे ।
एवमामन्त्रितां धेनुं ब्राह्मणाय निवेदयेत् ॥०२८॥

समानं सर्वधेनूनां विधानं चैतदेव हि ।
सर्वयज्ञफलं प्राप्य निर्मलो भुक्तिमुक्तिभाक् ॥०२९॥

स्वर्णशृङ्गो शफै रौप्यैः सुशीला वस्त्रसंयुता ।
कांस्योपदोहा दातव्या क्षोरिणौ गौः सदक्षिणा ॥०३०॥

दातास्याः स्वर्गमाप्नोति वत्सरान् सोमसम्मितान् ।
कपिला चेत्तारयति भूयश्चासप्तमं कुलं ॥०३१॥

स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहनकान्वितां ।
शक्तितो दक्षिणायुक्तां दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥०३२॥

सवत्सरोमतुल्यानि युगान्युभयतोमुखीं ।
दत्त्वा स्वर्गमवाप्नोति पूर्वेण विधिना ददेत् ॥०३३॥

आसन्नमृत्युना देया सवत्सा गौस्तु पूर्ववत् ।
यमद्वारे महावीरे तप्ता वैतरणी1 नदी ॥०३४॥

{इत्य् आग्नेये महापुराणे महादानानि नाम दशाधिकद्विशततमो ऽध्यायः ॥ }
:न्
[[२६४]]