{अथ नवाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
दानपरिभाषाकथनं
अग्निर् उवाच
दानधर्मान् प्रवक्ष्यामि भुक्तिमुक्तिदान् शृणु ।
दानमिष्टं तथा पूर्तं धर्मं कुर्वन् हि सर्वभाक् ॥००१॥
मूलम्

वापीकूपतडागानि देवतायतनानि च ।
अन्नप्रदानमारामाः पूर्तं धर्मं च मुक्तिदं ॥००२॥

अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनं ।
आतिथ्यं वैश्वदेवञ्च प्राहुरिष्टञ्च नाकदं ॥००३॥

ग्रहोपरागे यद्दानं सूर्यसङ्क्रमणेषु च ।
द्वादश्यादौ च यद्दानं पूर्तं तदपि नाकदं ॥००४॥

देशे काले च पात्रे च दानं कोटिगुणं भवेत् ।
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥००५॥

युगादिषु च सङ्क्रान्तौ चतुर्दश्यष्टमीषु च ।
सितपञ्चदशीसर्वद्वादशीष्वष्टकासु च ॥००६॥

यज्ञोत्सवविबाहेषु तथा मन्वन्तरादिषु ।
वैधृते दृष्टदुःखप्ने द्रव्यब्राह्मणलाभतः ॥००७॥

श्रद्धा वा यद्दिने तत्र सदा वा दानमिष्यते ।
अयने द्वे विपुवे द्वे चतस्रः षडशीतयः ॥००८॥

[[२५५]]
विश्वास-प्रस्तुतिः
कन्यायां मिथुने मीने धनुष्यपि रवेर्गतिः ॥००९॥

षडशीतिमुखाः प्रोक्ताः षडशीतिगुणाः फलैः ।
अतीतानागते पुण्ये द्वे उदग्दक्षिणायने ॥०१०॥

त्रिंशत् कर्कटके नाड्यो मकरे विंशतिः स्मृताः ।
वर्तमाने तुलामेषे नाड्यास्तुभयतो दश ॥०११॥

षडशीत्यां व्यतीतायां षष्टिरुक्तास्तु नाडिकाः ।
पुण्याख्या विष्णुपाद्याञ्च प्राक्पश्चादपि षोडश ॥०१२॥

श्रवणाश्विधनिष्ठासु नागदैवतमस्तके ।
यदा स्याद्रविवारेण व्यतीपातः स उच्यते ॥०१३॥

नवम्यां शुक्लपक्षस्य कार्त्तिके निरगात् कृतं ।
त्रेता सिततृतीयायां वैशाखे द्वापरं युगं ॥०१४॥

दर्शे वै माघमासस्य त्रयोदश्यां नभस्यके ।
कृष्णे कलिं विजानीयाज् ज्ञेया मन्वन्तरादयः ॥०१५॥

अश्वयुकच्छुक्लनवमी द्वादशी कार्त्तिके तथा ।
तृतीया चैव माघस्य तथा भाद्रपदस्य च ॥०१६॥

फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा ।
आषाढस्यापि दशमी माघमासस्य सप्तमी ॥०१७॥

आवाणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ।
कार्त्तिके फाल्गुने तद्वज् ज्यैष्ठे पञ्चदशी तथा ॥०१८॥

ऊर्ध्वे चैवाग्रहायण्या अष्तकास्तिस्र ईरिताः ।
अष्टकाख्या चाष्टमी स्यादासु1 दानानि चाक्ष्ययं ॥०१९॥

:न्
[[२५६]]
विश्वास-प्रस्तुतिः
गयागङ्गाप्रयागादौ तीर्थे देवालयादिषु ।
अप्रार्थितानि दानानि विद्यार्थं कन्यका न हि ॥०२०॥

दद्यात् पूर्वमुखो दानं गृह्णीयादुत्तरामुखः ।
आयुर्विवर्धते दातुर्ग्रहीतुः क्षीयते न तत् ॥०२१॥

नाम गोत्रं समुच्चार्य सम्प्रदानस्य चात्मनः ।
सम्प्रदेयं प्रयच्छन्ति कन्यादाने पुनस्त्रयं ॥०२२॥

स्नात्वाभ्यर्च्य व्याहृतिभिर्दद्याद्दानन्तु सोदकं ।
कनकाश्वतिला नागा दासीरथमहीगृहाः ॥०२३॥

कन्या च कपिला धेनुर्महादानानि वै दश ।
श्रुतशौर्यतपःकन्यायाज्यशिष्यादुपगतं ॥०२४॥

शुल्कं धनं हि सकलं शुल्कं शिल्पानुवृत्तितः ।
कुशीदकृषिवाणिज्यप्राप्तं यदुपकारतः ॥०२५॥

पाशकद्यूतचौर्यादिप्रतिरूपकसाहसैः ।
व्याजेनोपावर्जितं कृत्स्नं त्रिविधं त्रिविधं फलं ॥०२६॥

अध्यग्न्यध्यावाहनिकं दत्तञ्च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं
स्मृतं1 ॥०२७॥

ब्रह्मक्षत्रविशां द्रव्यं शूद्रस्यैषामनुग्रहात् ।
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्र्यियः ॥०२८॥

कुलानान्तु शतं हन्यादप्रयच्छन् प्रतिश्रुतं ।
देवानाञ्च गुरूणाञ्च मातापित्रोस्तथैव च ॥०२९॥

[[२५७]]
विश्वास-प्रस्तुतिः
प्रतिलाभेच्छया दत्तं यद्धनं तदपार्थकं ॥०३०॥

श्रद्धया साध्यते धर्मो दत्तं वार्यपि चाक्षयं ।
ज्ञानशीलगुणोपेतः परपीडावहिष्कृतः ॥०३१॥

अज्ञानां पालनात्त्राणात्तत् पात्रं परमं स्मृतं ।
मातुः शतगुणं दानं सहस्रं पितुरुच्यते ॥०३२॥

अनन्तं दुहितुर्दानं सोदर्ये दत्तमक्षयं ।
अमनुष्ये समं दानं पापे ज्ञेयं महाफलं ॥०३३॥

वर्णसङ्करे द्विगुणं शूद्रे दानं चतुर्गुणं ।
वैश्ये चाष्टगुणं क्षत्रे षोडशत्वं द्विजव्रुवे ॥०३४॥

श्रीविहीनेषु यद्दत्तं तदनन्तं च यजवनि ।
अतपस्व्यनधीयानः प्रतिग्रहरुचिर्द्विजः ॥०३६॥

अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति ।
स्नातः सम्यगुपस्पृश्य गृह्णीयात् प्रयतः शुचिः ॥०३७॥

प्रतिग्रहीता सावित्रीं सर्वदैव प्रकीर्तयेत्3 ।
ततस्तु कीर्तयेत्सार्धं द्रव्येण सह दैवतं ॥०३८॥

प्रतिग्राही पठेदुच्चैः प्रतिगृह्य द्विजोत्तमात् ।
मन्दं पठेत् क्षत्रियात्तु उपांशु च तथा विशः ॥०३९॥

[[२५८]]
विश्वास-प्रस्तुतिः
मनसा च तथा शूद्रात् स्वस्तिवाचनकं तथा ।
अभयं सर्वदैवत्यं भूमिर्वै विष्णुदेवता ॥०४०॥

कन्या दासस् तथा दासी प्राजापत्याः प्रकिर्तिताः ।
प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः ॥०४१॥

तथा चैकशफं सर्वं याम्यश् च महिषस् तथा ।
उष्ट्रश् च नैरृतो धेनू रौद्री छागो ऽनलस् तथा ॥०४२॥

आप्यो मेषो हरिः क्रीड आरण्याः पशवो ऽनिलाः ।
जलाशयं वारुणं स्याद्वारिधानीघटादयः ॥०४३॥

समुद्रजानि रत्नानि हेमलौहानि चानलः ।
प्राजापत्यानि शस्यानि पक्वान्नमपि सत्तम ॥०४४॥

गान्धर्वं गन्धमित्याहुर्वस्त्रं वार्हस्पतं स्मृतं ।
वायव्याः पक्षिणः सर्वे विद्या ब्राह्मी तथाङ्गकं ॥०४५॥

सारस्वतं पुस्तकादि विश्वकर्मा तु शिलप्के ।
वनस्पतिर्द्रुमादीनां द्रव्यदेवा हरेस्तनुः ॥०४६॥

छत्रं कृष्णाजिनं शय्या रथ आसनमेव च ।
उपानहौ तथा यानमुत्तानाङ्गिर ईरितं ॥०४७॥
मूलम्
छत्रं कृष्णाजिनं शय्या रथ आसनमेव च ।
उपानहौ तथा यानमुत्तानाङ्गिर ईरितं ॥०४७॥
विश्वास-प्रस्तुतिः
रणोपकरणं शस्त्रं ध्वजाद्यं सर्वदैवतं ।
गृहञ्च सर्वदैवत्यं सर्वेषां विष्णुदेवता ॥०४८॥

शिवो वा न ततो द्रव्यं व्यतिरिक्तं यतो ऽस्ति हि1 ।
द्रव्यस्य नाम गृह्णीयाद्ददानीति तथा वदेत् ॥०४९॥

[[२५९]]
विश्वास-प्रस्तुतिः
विष्णुर्दाता विष्णुर्द्रव्यं प्रतिगृह्णामि वै वदेत् ॥०५०॥

स्वस्ति प्रतिग्रहं धर्मं भुक्तिमुक्ती फलद्वयं ।
गुरून् भृत्यान्न जिहीर्षुरर्चिष्यन् देवताः पितॄन् ॥०५१॥

सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयन्ततः ।
शूद्रीयन्न तु यज्ञार्थं धनं शूद्रस्य तत्फलं ॥०५२॥

गुडतक्ररसाद्याश् च शूद्राद्ग्राह्या निवर्तिना ।
सर्वतः प्रतिगृह्णीयादवृत्याकर्षितो द्विजः ॥०५३॥

नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलनार्कसमा हि ते ॥०५४॥

कृते तु दीयते गत्वा त्रेतास्वानीय दीयते ।
द्वापारे याचमानाय कलौ त्वनुगमान्विते ॥०५५॥

मनसा पात्रमुद्दिश्य जलं भूमौ विनिक्षिपेत् ।
विद्यते सागरस्यान्तो नान्तो दानस्य विद्यते1 ॥०५६॥

अद्य सोमार्कग्रहणसङ्क्रान्त्यादौ च कालके ।
गङ्गागयाप्रयागादौ तीर्थदेशे महागुणे ॥०५७॥

तथा चामुकगोत्राय तथा चामुकशर्मणे ।
वेदवेदाङ्गयुक्ताय पात्राय सुमहात्मने ॥०५८॥

यथानाम महाद्रव्यं विष्णुरुद्रादिदैवतं ।
पुत्रपौत्रगृहैश्वर्यपत्नीधर्मार्थसद्गुणा ॥०५९॥

कीत्तिविद्यामहाकामसौभाग्यारोग्यवृद्धये ।
सर्वपापोपशान्त्यर्थं स्वर्गार्थं भुक्तिमुक्तये ॥०६०॥

[[२६०]]
विश्वास-प्रस्तुतिः
एतत्तुभ्यं सम्प्रददे प्रीयतां मे हरिः शिवः ।
दिव्यान्तरीक्षभौमादिसमुत्पातौघघातकृत्1 ॥०६१॥

धर्मार्थकाममोक्षाप्त्यै ब्रह्मलोकप्रदो ऽस्तु मे ।
यथानामसगोत्राय विप्रायामुकशर्मणे ॥०६२॥

एतद्दानप्रतिष्ठार्थं सुवर्णं दक्षिणां ददे ।
अनेन दानवाक्येन सर्वदानानि वै ददेत् ॥०६३॥

{इत्य् आग्नेये महापुराणे दानपरिभाषा नाम नवाधिकद्विशततमो ऽध्यायः ॥ }