{अथाष्टाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
व्रतदानादिसमुच्चयः
अग्निर् उवाच
व्रतदानानि सामान्यं प्रवदामि समासतः ।
तिथौ प्रतिपदादौ च सूर्यादौ कृत्तिकासु च ॥००१॥
मूलम्

विष्कम्भादौ च मेषादौ काले च ग्रहणादिके ।
यत् काले यद् व्रतं दानं यद् द्रव्यं नियमादि यत् ॥००२॥

तद् द्रव्याख्यञ्च कालाख्यं सर्वं वै विष्णुदैवतं ।
रवीशब्रह्मलक्ष्म्याद्याः1 सर्वे विष्णोर्विभूतयः ॥००३॥

तमुद्दिश्य व्रतं दानं पूजादि स्यात्तु सर्वदं ।
जगत्पते समागच्छ आसनं पाद्यमर्घ्यकं ॥००४॥

:न्
[[२५३]]
विश्वास-प्रस्तुतिः
पुष्पं धूपश् च दीपश् च नैवेद्यादि नमो ऽस्तु ते ॥००५॥

इति पूजाव्रते दाने दानवाक्यं समं शृणु ।
अद्यामुकसगोत्राय विप्रायामुकशर्मणे ॥००६॥

एतद् द्रव्यं विष्णुदैवं सर्वपापोपशान्तये।
आयुरारोग्यवृद्ध्यर्थं सौभाग्यादिविवृद्धये2 ॥००७॥

गोत्रसन्ततिवृद्ध्यर्थं विजयाय धनाय च ।
धर्मायैश्वर्यकामाय तत्पापशमनाय च ॥००८॥
मूलम्
गोत्रसन्ततिवृद्ध्यर्थं विजयाय धनाय च ।
धर्मायैश्वर्यकामाय तत्पापशमनाय च ॥००८॥
विश्वास-प्रस्तुतिः
संसारमुक्तये दानन्तुभ्यं सम्प्रददे ह्य् अहं ।
एतद्दानप्रतिष्ठार्थं तुभ्यमेतद् ददाम्यहं ॥००९॥

एतेन प्रीयतां नित्यं सर्वलोकपतिः प्रभुः ।
यज्ञदानव्रतपते विद्याकीर्त्यादि देहि मे ॥०१०॥

धर्मकामार्थमोक्षांश् च देहि मे मनसेप्सितं ।
यः पठेच्छृणुयान्नित्यं व्रतदानसमुच्चयं ॥०११॥

स प्राप्तकामो विमलो भुक्तिमुक्तिमवाप्नुयात् ।
तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकं व्रतं ॥०१२॥

{इत्य् आगेन्ये महापुराणे व्रतदानसमुच्चयो नाम अष्टाधिकद्विशततमो ऽध्यायः ॥ }
:न्
[[२५४]]