२०७ कौमुदव्रतं

{अथ सप्ताधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

कौमुदव्रतं

अग्निर् उवाच
कौमुदाख्यं मयोक्तञ्च चरेदाश्वयुजे सिते ।
हरिं यजेत् मासमेकमेकादश्यामुपोषितः ॥००१॥

मूलम्

कौमुदव्रतं

अग्निर् उवाच
कौमुदाख्यं मयोक्तञ्च चरेदाश्वयुजे सिते ।
हरिं यजेत् मासमेकमेकादश्यामुपोषितः ॥००१॥

विश्वास-प्रस्तुतिः

आश्विने शुक्लपक्षेहमेकाहारी हरिं जपन् ।
मासमेकं भुक्तिमुक्त्यै करिष्ये कौमुदं व्रतं ॥००२॥

मूलम्

आश्विने शुक्लपक्षेहमेकाहारी हरिं जपन् ।
मासमेकं भुक्तिमुक्त्यै करिष्ये कौमुदं व्रतं ॥००२॥

विश्वास-प्रस्तुतिः

उपोष्य विष्णुं द्वादश्यां यजेद्देवं विलिप्य च ।
चन्दनागुरुकाश्मीरैः कमलोत्पलपुष्पकैः ॥००३॥

मूलम्

उपोष्य विष्णुं द्वादश्यां यजेद्देवं विलिप्य च ।
चन्दनागुरुकाश्मीरैः कमलोत्पलपुष्पकैः ॥००३॥

विश्वास-प्रस्तुतिः

कल्हारैर्वाथ मालत्या दीपं तैलेन वाग्यतः ।
अहोरात्रं च नैवेद्यं पायसापूपमोदकैः ॥००४॥

मूलम्

कल्हारैर्वाथ मालत्या दीपं तैलेन वाग्यतः ।
अहोरात्रं च नैवेद्यं पायसापूपमोदकैः ॥००४॥

ॐ नमो वासुदेवाय विज्ञाप्याथ क्षमापयेत् ।

[[२५२]]

विश्वास-प्रस्तुतिः

भोजनादि[^१] द्विजे दद्याद्यावद् देवः प्रबुद्ध्यते ॥००५॥

मूलम्

भोजनादि[^१] द्विजे दद्याद्यावद् देवः प्रबुद्ध्यते ॥००५॥

तावन्मासोपवासः स्यादधिकं फलमप्यतः ।

{इत्य् आग्नेये महापुराणे कौमुदव्रतं नाम सप्ताधिकद्विशततमो ऽध्यायः ॥ }