२०६ अगस्त्यार्घ्यदानव्रतं

{अथ षडधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

अगस्त्यार्घ्यदानकथनं

अग्निर् उवाच
अगस्त्यो भगवान्विष्णुस्तमभ्यर्च्याप्नुयाद्धरिं ।
अप्राप्ते भास्करे कन्यां सत्रिभागैस्त्रिभिर्दिनैः ॥००१॥

मूलम्

:न्

[[२४९]]

विश्वास-प्रस्तुतिः

अर्घ्यं दद्यादगस्त्याय पूजयित्वा ह्य् उपोषितः ।
काशपुष्पमयीं मूर्तिं प्रदोषे विन्यसेद् घटे ॥००२॥

मुनेर्यजेत्तां कुम्भस्थां रात्रौ कुर्यात् प्रजागरं ।
अगस्त्य मिनिशार्दूल तेजोराशे महामते1 ॥००३॥

इमां मम कृतां पूजां गृह्णीष्व प्रियया सह ।
आवाह्यार्घ्ये च सम्मुख्यं प्रार्चयेच्चन्दनादिना ॥००४॥

जलाशयसमीपे तु प्रातर्नीत्वार्घ्यमर्पयेत् ।
काशपुष्पप्रतीकाश अग्निमारुतसम्भव2 ॥००५॥

मित्रावरुणयोः पुत्र कुम्भयोने नमो ऽस्तु ते ।
आतापिर्भक्षितो येन वातापिश् च महासुरः ॥००६॥

समुद्रः शोषितो येन सो ऽगस्त्यः सम्मुखो ऽस्तु मे ।
अगस्तिं प्रार्थयिष्यामि कर्मणा मनसा गिरा ॥००७॥

अर्चयिस्याम्यहं मैत्रं परलोकाभिकाङ्क्षया ।
द्वीपान्तरसमुत्पन्नं देवानां परमं प्रियं ॥००८॥

राजानं सर्ववृक्षाणां चन्दनं प्रतिगृह्यतां3
धर्मार्थकाममोक्षाणां भाजनी पापनाशनी ॥००९॥

सौभाग्यारोग्यलक्ष्मीदा पुष्पमाला प्रगृह्यतां ।
धूपो ऽयं गृह्यतां देव भक्तिं मे ह्य् अचलाङ्कुरु ॥०१०॥

ईप्सितं मे वरं देहि परत्र च शुभाङ्गतिं ।
सुरासुरैर्मुनिश्रेष्ठ सर्वकामफलप्रद ॥०११॥

[[२५०]]

विश्वास-प्रस्तुतिः

वस्त्रव्रीहिफलैर्हेम्ना दत्तस्त्वर्घ्यो ह्य् अयं1 मया ।
अगस्त्यं बोधयिष्यामि यन्मया मनसोद्धृतं2 ॥०१२॥

फलैरर्घ्यं प्रदास्यामि गृहाणार्घ्यं महामुने ।
विश्वास-प्रस्तुतिः

अगस्त्य एवं खनमानः खनित्रैः प्रजामपत्यं
बलमीहमानः ।०१३।
उभौ कर्णावृषिरुग्रतेजाः पुपोष सत्या देवेष्वाशिषो
जगाम ॥०१३॥

राजपुत्रि नमस्तुभ्यं मुनिपत्नी महाव्रते ।
अर्घ्यं गृह्णीष्व देवेशि लोपामुद्रे यशस्विनि ॥०१४॥

पञ्चरत्नसमायुक्तं हेमरूप्यसमन्वितं ।
सप्तधान्यवृतं3 पात्रं दधिचन्दनसंयुतं ॥०१५॥

अर्घ्यं दद्यादगस्त्याय स्त्रीशूद्राणामवैदिकं ।
अगस्त्य मुनिशार्दूल तेजोराशे च सर्वद ॥०१६॥

इमां मम कृतां पूजां गृहीत्वा व्रज शान्तये ।
त्यजेदगस्त्र्यमुद्दिश्य धान्यमेकं फलं रसं ॥०१७॥

ततो ऽन्नं भोजयेद्विप्रान् घृतपायसमोदकान् ।
गां वासांसि सुवर्णञ्च4 तेभ्यो दद्याच्च दक्षिणां ॥०१८॥

घृतपायसयुक्तेन पात्रेणाच्छादिताननं ।
सहिरण्यञ्च तं कुम्भं ब्राह्मणायोपकल्पयेत्5 ॥०१९॥

[[२५१]]

विश्वास-प्रस्तुतिः

सप्तवर्षाणि दत्वार्घ्यं सर्वे सर्वमवाप्नुयुः ।
नीरा पुत्रांश् च सौभाग्यं पतिं कन्या नृपोद्भवं ॥०२०॥

{इत्य् आग्नेये महापुराणे अगस्त्यार्घ्यदानव्रतं नाम षडधिकद्विशततमो ऽध्यायः ॥ }

  1. हरिं लेभे तेनैतदिति ग॥ । हरिं प्राप तेनैतदिति ङ॥ । हरिं
    प्राप्तस्तेनैतदिति ज॥ , ट॥ च ↩︎ ↩︎ ↩︎ ↩︎

  2. पूजनात्पञ्च उपवासादजव्रतमिति ग॥ , घ॥ , ङ॥ , ज॥ , ञ॥ , ड॥
    च ↩︎ ↩︎ ↩︎ ↩︎

  3. चन्दनं मे प्रगृह्यनामिति ज॥ , ञ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  4. प्रतिमाञ्च सुवर्णञ्चेति क॥ ↩︎ ↩︎

  5. ब्राह्मणायोपपादयेदिति घ॥ , ङ॥ , ज॥ , ञ॥ च ↩︎ ↩︎