{अथ पञ्चाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
भीष्मपञ्चकव्रतं
अग्निर् उवाच
भीष्मपञ्चकमाख्यास्ये व्रतराजन्तु सर्वदं ।
कार्त्तिकस्यामले पक्षे एकादश्यां समचरेत् ॥००१॥
मूलम्

दिनानि पञ्चत्रिःस्नाती पञ्चव्रीहितिलैस् तथा1 ।
तर्पयेद्देवपित्रादीन् मौनी सम्पूजयेद्धरिं ॥००२॥

पञ्चगव्येन संस्नाप्य देवं पञ्चामृतेन च ।
चन्दनाद्यैः समालिप्य गुग्गुलुं सघृतन्दहेत् ॥००३॥

दीपं दद्याद्दिवारात्रौ नैवेद्यं परमान्नकं ।
ॐ नमो वासुदेवाय जपेदष्टोत्तरं शतं ॥००४॥

:न्
[[२४८]]
विश्वास-प्रस्तुतिः
जुहुयाच्च घृताभ्यक्तांस्तिलव्रीहींस्ततो व्रती ।
षडक्षरेण मन्त्रेण स्वाहाकारान्वितेन च ॥००५॥

कमलैः पूजयेत् पादौ द्वितीये बिल्वपत्रकैः ।
जानु सक्थि तृतीये ऽथ नाभिं भृङ्गरजेन तु ॥००६॥

वाणबिल्वजवाभिस्तु चतुर्थे पञ्चमे ऽहनि ।
मालत्या भूमिशायी स्यादेकादश्यान्तु गोमयं ॥००७॥

गोमूत्रं दधि दुग्धं च पञ्चमे पञ्चगव्यकं ।
पौर्णमास्याञ्चरेन्नक्तं भुक्तिं मुक्तिं लभेद्व्रती ॥००८॥

भीष्मः कृत्वा हरिं प्राप्तस्तेनैव1 भीष्मपञ्चकं ।
ब्राह्मणः पूजनाद्यैश् च उपवासादिकं व्रतं[^२] ॥००९॥

{इत्य् आग्नेये महापुराणे भीष्मपञ्चकं नाम पञ्चाधिकद्विशततमो ऽध्यायः ॥ }