२०४ मासोपवासव्रतं

{अथ चतुरधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

मासोपवासव्रतं

अग्निर् उवाच
व्रतं मासोपवासञ्च1 सर्वोत्कृष्टं वदामि ते ।
कृत्वा तु वैष्णवं यज्ञं गुरोराज्ञामवाप्य च ॥००१॥

मूलम्

कृच्छ्राद्यैः स्वबलं बुद्ध्वा कुर्यान् मासोपवासकं ।
वानप्रस्थो यतिर्वाथ नारी वा विधवा मुने ॥००२॥

आश्विनस्यामले पक्षे एकादश्यामुपोषितः ।
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥००३॥

अद्यप्रभृत्यहं विष्णो यावदुत्थानकन्तव ।
अर्चयेत्वामनश्नन् हि यावत् त्रिंशद्दिनानि तु ॥००४॥

कार्त्तिकाश्विनयोर्विष्णोर्यावदुत्थानकन्तव ।
म्रिये यद्यन्तराले ऽहं व्रतभङ्गो न मे भवेत् ॥००५॥

त्रिकालं पूजयेद्विष्णुं त्रिःस्नातो गन्धपुष्पकैः ।
विष्णोर्गीतादिकं जप्यन्ध्यानं कुर्याद् व्रती नरः ॥००६॥

वृथावादम्परिहरेदर्थाकाङ्क्षां विवर्जयेत्2
नाव्रतस्थं स्पृशेत् कञ्चिद्विकर्मस्थान्न चालयेत् ॥००७॥

:न्

[[२४६]]

विश्वास-प्रस्तुतिः

देवतायतने तिष्ठेद्यावत् त्रिंशद्दिनानि तु ।
द्वादश्यां पूजयित्वा तु भोजयित्वा द्विजान्व्रती ॥००८॥

समाप्य दक्षिणां दत्त्वा पारणन्तु समाचरेत् ।
भुक्तिमुक्तिमवाप्नोति कल्पांश् चैव त्रयोदश ॥००९॥

कारयेद्वैष्णवं यज्ञं यजेद्विप्रांस्त्रयोदश ।
तावन्ति वस्त्रयुग्मानि भाजनान्यासनानि च ॥०१०॥

छत्राणि सपवित्राणि तथोपानद्युगानि च1
योगपट्टोपवीतानि दद्याद्विप्राय तैर्मतः2 ॥०११॥

अन्यविप्राय शय्यायां हैमं विष्णुं प्रपूज्य च ।
आत्मनश् च तथामूर्तिं वस्त्राद्यैश् च प्रपूजयेत् ॥०१२॥

सर्वपापविनिर्मुक्तो विप्रो विष्णुप्रसादतः ।
विष्णुलोकं गमिष्यामि विष्णुरेव भवाम्यहं ॥०१३॥

व्रज व्रज देवबुद्धे विष्णोः स्थानमनामयं ।
विमानेनामलस्तत्र तिष्ठेद् विष्णुस्वरूपधृक् ॥०१४॥

द्विजानुक्त्वाथ3 तां शय्यां गुरवे ऽथ निवेदयेत् ।
कुलानां शतमुद्धृत्य विष्णुलोकन्नयेद् व्रती ॥०१५॥

मासोपवासी यद्देशे स देशो निर्मलो भवेत् ।
किं पुनस्तत्कुलं सर्वं यत्र मासोपवासकृत् ॥०१६॥

व्रतस्थं मूर्छितं दृष्ट्वा क्षीराज्यञ्चैव पाययेत् ।
नैते व्रतं विनिघ्रन्ति हविर्विप्रानुमोदितं ॥०१७॥

[[२४७]]

विश्वास-प्रस्तुतिः

क्षीरं गुरोर्हितौषध्व आपो मूलफलानि च ।
विष्णुर्महौषधं कर्ता व्रतमस्मात् समुद्धरेत् ॥०१८॥

{इत्य् आग्नेये महापुराणे मासोपवासव्रतं नाम चतुरधिकद्विशततमो ऽध्यायः ॥ }

  1. व्रतं मासोपवासाख्यमिति घ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎

  2. अन्नाकाङ्क्षां विवर्जयेदिति घ॥ , ङ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  3. द्विजान् नत्वाथेति ङ॥ ↩︎ ↩︎