{अथ त्र्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नरकस्वरूपम्
अग्निर् उवाच
पुष्पाद्यैः पूजनाद्विष्णोर् न याति नरकान्दवे ।
आयुषो ऽन्ते नरः प्राणैरनिच्छन्नपि मुच्यते ॥००१॥
मूलम्

जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः ।
निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते ॥००२॥

अन्यच्छरीरमादत्ते यातनीयं स्वकर्मभिः ।
भुङ्क्ते ऽथ पापकृत् दुःखं सुखं धर्माय सङ्गतः ॥००३॥

नीयते यमदूतैस्तु यमं प्राणिभयङ्करैः ।
कुपथे दक्षिणद्वारि धर्मिकः पश्चिमादिभिः ॥००४॥

:न्
[[२४३]]
विश्वास-प्रस्तुतिः
स्वर्गे तु नीयते धर्माद् वसिष्ठाद्युक्तिसंश्रयात् ॥००५॥

गोघाती तु महावीच्यां वर्षलक्षन्तु पीड्यते ।
आमकुम्भे महादीप्ते ब्रह्महा भूमिहारकः ॥००६॥

महाप्रलयकं यावद्रौरवे पीड्यते शनैः ।
स्त्रीबालवृद्धहन्ता तु यावदिन्द्राश् चतुर्दश ॥००७॥

महारौरवके रौद्रे गृहक्षेत्रादिदीपकः ।
दह्यते कल्पमेकं स चौरस्तामिस्रके पतेत् ॥००८॥

नैककल्पन्तु शूलाद्यैर्भिद्यते यमकिङ्करैः ।
महातामिस्रके सर्पजलौकाद्यैश् च पीड्यते ॥००९॥

यावद्भूमिर्मातृहाद्या असिपत्रवने ऽसिभिः1 ।
नैककल्पन्तु नरके करम्भवालुकासु च ॥०१०॥

येन दग्धो जनस्तत्र दह्यते वालुकादिभिः ।
काकोले कृमिविष्ठाशी एकाकी मिष्टभोजनः ॥०११॥

कुट्टले मूत्ररक्ताशी पञ्चयज्ञक्रियोज्झितः ।
सुदुर्गन्धे रक्तभोजी भवेच्चाभक्ष्यभक्ष्यकः ॥०१२॥

तैलपाके तु तिलवत् पीड्यते परपीडकः ।
तैलपाके तु पच्येत शरणागतघातकः ॥०१३॥
मूलम्
तैलपाके तु तिलवत् पीड्यते परपीडकः ।
तैलपाके तु पच्येत शरणागतघातकः ॥०१३॥
विश्वास-प्रस्तुतिः
निरुच्छासे दाननाशी रसविक्रयको ऽध्वरे ।
नाम्ना वज्रकवाटेन महापाते तदानृती ॥०१४॥
मूलम्
निरुच्छासे दाननाशी रसविक्रयको ऽध्वरे ।
नाम्ना वज्रकवाटेन महापाते तदानृती ॥०१४॥
विश्वास-प्रस्तुतिः
महाज्वाले पापबुद्धिः क्रकचे ऽगम्यगामिनः ।
सङ्करी गुडपाके च2 प्रतुदेत् परमर्मनुत् ॥०१५॥

[[२४४]]
विश्वास-प्रस्तुतिः
क्षारह्रदे1 प्राणिहन्ता क्षुरधारे च भूमिहृत् ।
अम्बरीषे गोस्वर्णहृद् द्रुमच्छिद्वज्रशस्त्रके ॥०१६॥

मधुहर्ता परीतापे कालसूत्रे परार्थहृत् ।
कश्मले ऽत्यन्तमांसाशी उग्रगन्धे ह्य् अपिण्डदः ॥०१७॥

दुर्धरे तु काचभक्षी वन्दिग्राहरताश् च ये ।
मञ्जुषे नरके लोहे ऽप्रतिष्ठे श्रुतिनिन्दकः ॥०१८॥

पूतिवक्त्रे कूटसाक्षी परिलुण्ठे धनापहा ।
बालस्त्रीवृद्धघाती च कराले ब्राह्मणार्तिकृत् ॥०१९॥

विलेपे मद्यपो विप्रो महाताम्रे तु मेदिनः2 ॥२०॥

तथाक्रम्य पारदारान् ज्वलन्तीमायसीं शिलां ।
शाल्मलाख्ये तमालिङ्गेन् नारी बहुनरङ्गमा ॥०२१॥

आस्फोटजिह्वोद्धरणं स्त्रीक्षणान् नेत्रभेदनं ।
अङ्गारराशौ क्षिप्यन्ते मातृपुत्र्यादिगामिनः ॥०२२॥

चौराः क्षुरैश् च भिद्यन्ते स्वमांसाशी च मांसभुक् ।
मासोपवासकर्ता वै न याति नरकन्नरः ॥०२३॥

{इत्य् आग्नेये महापुराणे नरकस्वरूपवर्णनं नाम त्र्यधिकद्विशततमो ऽध्यायः ॥ }
:न्
[[२४५]]