२०२ पुष्पाध्यायः

{अथ द्व्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

पुष्पाध्यायकथनं

अग्निर् उवाच
पुष्पगन्धधूपदीपनैवेद्यैस्तुष्यते हरिः ।
पुष्पाणि देवयोग्यानि ह्य् अयोग्यानि वदामि ते ॥००१॥

मूलम्

पुष्पं श्रेष्ठं मालती च तमालो भुक्तिमुक्तिमान् ।
मल्लिका सर्वपापघ्नी यूथिका विष्णुलोकदा ॥००२॥

अतिमुक्तमयं तद्वत् पाटला विष्णुलोकदा ।

[[२४०]]

विश्वास-प्रस्तुतिः

करवीरैर् विष्णुलोकी जवापुष्पैश् च पुण्यवान् ॥००३॥

पावन्तीकुब्जकाद्यैश् च तगरैर् विष्णुलोकभाक् ।
कर्णिकारैर् विष्णुलोकः करुण्ठैः पापनाशनं ॥००४॥

पद्मैश् च केतकीभिश् च कुन्दपुष्पैः परा गतिः ।
वाणपुष्पैर् वर्वराभिः कृष्णाभिर्हरिलोकभाक् ॥००५॥

अशोकैस्तिलकैस्तद्वदटरूषभवैस् तथा ।
मुक्तिभागी बिल्वपत्रैः शमीपत्रैः परा गतिः ॥००६॥

विष्णुलोकी भृङ्गराजैस्तमालस्य दलैस् तथा ।
तुलसी कृष्णगौराख्या कल्हारोत्पलकानि च ॥००७॥

पद्मं कोकनदं पुण्यं शताब्जमालया हरिः ।
नीपार्जुनकदम्बैश् च1 वकुलैश् च सुगन्धिभिः ॥००८॥

किंशुकैर् मुनिपुष्पैस्तु गोकर्णैर् नागकर्णकैः ।
सन्ध्यापुष्पैर् बिल्वतकै रञ्जनीकेतकीभवैः2 ॥००९॥

कुष्माण्डतिमिरोत्थैश् च कुशकाशशरोद्भवैः ।
द्यूतादिभिर्मरुवकैः पत्रैरन्यैः सुगन्धिकैः ॥०१०॥

भुक्तिमुक्तिः पापहानिर्भक्त्या सर्वैस्तु तुष्यति ।
स्वर्णलक्षाधिकं पुष्पं माला कोटिगुणाधिका ॥०११॥

स्ववने ऽन्यवने पुष्पैस्त्रिगुणं वनजैः फलं3
विशीर्णैर्नार्चयेद्विष्णुन्नाधिकाङ्गैर्न मोटितैः ॥०१२॥

काञ्चनारैस्तथोन्मत्तैर्गिरिकर्णिकया तथा ।

:न्

[[२४१]]

विश्वास-प्रस्तुतिः

कुटजैः शाल्मलीयैश् च1 शिरीषैर् नरकादिकं ॥०१३॥

सुगन्धैर्ब्रह्मपद्मैश् च2 पुष्पैर्नीलोत्पलैर्हरिः3
अर्कमन्दारधुस्तूरकुसुमैरर्च्यते हरः ॥०१४॥

कुटजैः कर्कटीपुष्पैः केतकीन्न शिवे ददेत् ।
कुष्माण्डनिम्बसम्भूतं पैशाचं गन्धवर्जितं ॥०१५॥

अहिंसा इन्द्रियजयः4 क्षान्तिर्ज्ञानं5 दया श्रुतं ।
भावाष्तपुष्पैः सम्पूज्य देवान् स्याद् भुक्तिमुक्तिभाक् ॥०१६॥

अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
सर्वपुष्पं दया भूते पुष्पं शान्तिर्विशिष्यते ॥०१७॥

शमः पुष्पं तपः पुष्पं ध्यानं पुष्पं च
सप्तमं ।
सत्यञ्चैवाष्टमं पुष्पमेतैस्तुष्यति केशवः ॥०१८॥

एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिः ।
पुष्पान्तराणि सन्त्यत्र वाह्यानि मनुजोत्तम ॥०१९॥

भक्त्या दयान्वितैर्विष्णुः पूजितः परितुष्यति6
वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि ॥०२०॥

प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकं ।
फलपुष्पादिकञ्चैव वानस्पत्यन्तु पञ्चमं ॥०२१॥

पार्थिवं कुशमूलाद्यं वायव्यं गन्धचन्दनं ।

:न्

[[२४२]]

विश्वास-प्रस्तुतिः

श्रद्धाख्यं विष्णुपुष्पञ्च सर्वदा चाष्टपुष्पिकाः ॥०२२॥

आसनं मूर्तिपञ्चाङ्गं1 विष्णुर्वा चाष्टपुष्पिकाः ।
विष्णोस्तु वासुदेवाद्यैरीशानाद्यैः शिवस्य वा ॥०२३॥

{इत्य् आग्नेये महापुराणे पुष्पाध्यायो नाम द्व्यधिकद्विशततमो ऽध्यायः ॥ }

  1. मुक्तिभागो कदम्बैश्चेति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. रजनीकेतकीभवैरिति ख॥ , ङ॥ , छ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎

  3. जलजैः फलमिति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎

  4. अहिंसा इन्द्रियययम इति ग॥ ↩︎ ↩︎

  5. क्षान्तिर्दानमिति ख॥ ↩︎ ↩︎

  6. अहिंसा प्रथमं पुष्पमित्यादिः, पूजितः परितुष्यति इत्य्
    अन्तः पाठः ख॥ , ग॥ , घ॥ , ङ॥ , छ॥ , ज॥ , ञ॥ , ट॥
    पुस्तकेषु नास्ति ↩︎ ↩︎