{अथैकाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नवव्यूहार्चनं
अग्निर् उवाच
नवव्यूहार्चनं वक्ष्ये नारदाय हरीरितं ।
मण्डले ऽब्जे ऽर्चयेन्मध्ये अवीजं वासुदेवकं ॥००१॥
मूलम्

[[२३८]]
विश्वास-प्रस्तुतिः
अः अनुरुद्धं नैऋते ॐ नारायणमप्सु च ॥००२॥

तत् सद्ब्रह्माणमनिले हुं विष्णुं क्षौं नृसिंहकं1 ।
उत्तरे भूर्वराहञ्च ईशे द्वारि च पश्चिमे ॥००३॥

कं टं सं शं गरुत्मन्तं पूर्ववक्त्रञ्च दक्षिणे2 ।
खं छं वं हुं फडिति च खं ठं फं शं गदां
विधौ ॥००४॥

बं णं मं क्षं कोणेशञ्च घं दं भं हं
श्रियं यजेत् ।
दक्षिणे चोत्तरे पुष्टिं गं डं बं शं स्ववीजकं ॥००५॥

पीठस्य पश्चिमे धं वं वनमालाञ्च पश्चिमे ।
श्रीवत्सं चैव सं हं लं छं तं यं कौस्तुभं जले ॥००६॥

दशमाङ्गक्रमाद्विष्णोर्नमो ऽनन्तमधो ऽर्चयेत् ।
दशाङ्गादिमहेन्द्रादीन् पूर्वादौ चतुरो घटान् ॥००७॥

तोरणानि वितानं च अग्न्यनिलेन्दुवीजकैः ।
मण्डलानि क्रमाद्ध्यात्वा तनुं वन्द्य ततः प्लवेत् ॥००८॥

अम्वरस्थं ततो ध्यात्वा सूक्ष्मरूपमथात्मनः ।
सितामृते निमग्नञ्च3 चन्द्रविम्वात् स्रुतेन च ॥००९॥

तदेव चात्मनो वीजममृतं प्लवसंस्कृतं ।
उत्पाद्यमानं पुरुषमात्मानमुपकल्पयेत् ॥०१०॥

उत्पन्नो ऽस्मि स्वयं विष्णुर्वीजं द्वादशकं न्यसेत् ।
हृच्छिरस्तु शिखा चैव कवचं चास्त्रमेव च ॥०११॥

वक्षोमूर्धशिखापृष्ठलोचनेषु न्यसेत पुनः ।
अस्त्रं करद्वये न्यस्य ततो दिव्यतनुर्भवेत् ॥०१२॥

:न्
[[२३९]]
विश्वास-प्रस्तुतिः
यथात्मनि तथा देवे शिष्यदेहे न्यसेत्तथा ।
अनिर्माल्या स्मृता पूजा यद्धरेः पूजनं हृदि ॥०१३॥

सनिर्माल्या मण्डलादौ बद्धनेत्राश् च शिष्यकाः ।
पुष्पं क्षिपेयुर्यन्मूर्तौ तस्य तन्नाम कारयेत् ॥०१४॥

निवेश्य वामतः शिष्यांस्तिलव्रीहिघृतं हुनेत् ।
शतमष्टोत्तरं हुत्वा सहस्रं कायशुद्धये ॥०१५॥

नवव्यूहस्य मूर्तीनामङ्गानां च शताधिकं ।
पूऋणान्दत्त्वा दीक्षयेत्तान् गुरुः पूज्यश् च तैर् धनैः ॥०१६॥

{इत्य् आग्नेये महापुराणे नवव्यूहार्चनं नाम एकाधिकद्विशततमो ऽध्यायः ॥ }