{अथ द्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
दीपदानव्रतं
अग्न्निर् उवाच
दीपदानव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।
देवद्विजातिकगृहे दीपदो ऽब्दं स सर्वभाक् ॥००१॥
मूलम्

चतुर्मासं विष्णुलोकी कार्त्तिके स्वर्गलोक्यपि ।
दीपदानात् परं नास्ति न भूतं न भविष्यति ॥००२॥

दीपेनायुष्यचक्षुष्मान्दीपाल्लक्ष्मीसुतादिकं ।
सौभाग्यं दीपदः प्राप्य स्वर्गलोके नहीयते ॥००३॥

[[२३६]]
विश्वास-प्रस्तुतिः
चारुधर्मक्ष्मापपत्नी शतभार्याधिकाभवत् ॥००४॥

ददौ दीपसहस्रं सा विष्णोरायतने सती ।
पृष्टा सा दीपमाहात्म्यं सपत्नीभ्य उवाच ह ॥००५॥

ललितोवाच
सौवीरराजस्य पुरा मैत्रेयो ऽभूत् पुरोहितः ।
तेन चायतनं विष्णोः कारितं देविकातटे ॥००६॥

कार्त्तिके दीपकस्तेन दत्तः सम्प्रेरितो मया ।
वक्त्रप्रान्तेन नश्यन्त्या मार्जारस्य तदा भयात् ॥००७॥

निर्वाणवान् प्रदीप्तो ऽभूद्वर्त्या मूषिकया तदा ।
मृता राजात्मजा जाता राजपत्नी शताधिका ॥००८॥

असङ्कल्पितमप्यस्य प्रेरणं यत् कृतं मया ।
विष्णायतनदीपस्य तस्येदं भुज्यते फलं ॥००९॥

जातिस्मरा ह्य् अतो दीपान् प्रयच्छामि त्वहर् निशं ।
एकदश्यां दीपदो वै विमाने दिवि मोदते ॥०१०॥

जायते दीपहर्ता तु मूको वा जड एव च ।
अन्धे तमसि दुष्पारे नरके पतते किल ॥०११॥
मूलम्
जायते दीपहर्ता तु मूको वा जड एव च ।
अन्धे तमसि दुष्पारे नरके पतते किल ॥०११॥
विश्वास-प्रस्तुतिः
विक्रोशमानांश् च नरान् यमकिङ्कराहतान् ।
विलापैर् अलमत्रापि किं वो विलपिते फलं ॥०१२॥

यदा प्रमादिभिः पूर्वमत्यन्तसमुपेक्षितः ।
जन्तुर्जन्मसहस्रेभ्यो ह्य् एकस्मिन् मानुषो यदि ॥०१३॥

तत्राप्यतिविमूढात्मा किं भोगानभिधावति ।
स्वहितं1 विषयास्वादैः क्रन्दनं तदिहागतं ॥०१४॥

:न्
[[२३७]]
विश्वास-प्रस्तुतिः
भुज्यते च कृतं पूर्वमेतत् किं वो न चिन्तितं ।
परस्त्रीषु कुचाभ्यङ्गं प्रीतये दुःखदं हि वः ॥०१५॥

मुहूर्तविषयास्वादो ऽनेककोट्यव्ददुःखदः ।
परस्त्रीहारियद्गीतं हा मातः किं विलप्यते ॥०१६॥

को ऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तने ।
वर्तितैले ऽल्पमूल्ये ऽपि यदग्निर्लभ्यते सदा ॥०१७॥

दानाशक्तैर् हरेर्दीपो हृतस्तद्वो ऽस्ति दुःखदं ।
इदानीं किं विलापेन सहध्वं यदुपागतं ॥०१८॥

अग्निर् उवाच
ललितोक्तञ्च ताः श्रुत्वा दीपदानाद्दिवं ययुः ।
तस्माद्दीपप्रदानेन व्रतानामधिकं फलं ॥०१९॥

{इत्य् आग्नेये महापुराणे दीपदानव्रतं नाम द्विशततमो ऽध्यायः ॥ }