१९९ नानाव्रतानि

{अथैकोनशताधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

नानाव्रतानि

अग्निर् उवाच
ऋतुव्रतान्त्यहं वक्ष्ये भुक्तिमुक्तिप्रदानि ते ।
इन्धनानि तु यो दद्याद्वर्षादिचतुरो ह्य् ऋतून् ॥००१॥

मूलम्

घृतधेनुप्रदश्चान्ते ब्राह्मणो ऽग्निव्रती भवेत् ।
कृत्वा मौनन्तु सन्ध्यायां मासान्ते घृतकुम्भदः ॥००२॥

तिलघण्टावस्त्रदाता सुखी सारस्वतव्रती1
पञ्चामृतेन स्नपनं कृत्वाब्दं धेनुदो नृपः ॥००३॥

एकादश्यान्तु नक्ताशी चैत्रे भक्तं निवेदयेत् ।
हैमं विष्णोः पदं याति मासन्ते विष्णुसद्व्रती ॥००४॥

पायसाशी गोयुगदः श्रीभाग्देवीव्रती भवेत् ।
निवेद्य पितृदेवेभ्यो यो भुङ्क्ते स भवेन्नृपः ॥००५॥

वर्षव्रतानि चोक्तानि2 सङ्क्रान्तिव्रतकं वदे ।
सङ्क्रान्तौ स्वर्गलोकी स्याद्रात्रिजागरणान्नरः ॥००६॥

अमावास्यां तु सङ्क्रान्तौ शिवार्कयजनात्तथा ।
उत्तरे त्वयने चाज्यप्रस्थस्नानेन केशवे ॥००७॥

:न्

[[२३५]]

विश्वास-प्रस्तुतिः

द्वात्रिंशत्पलमानेन सर्वपापैः प्रमुच्यते ।
घृतक्षीरादिना स्नाप्य प्राप्नोति विषुवादिषु ॥००८॥

स्त्रीणामुमाव्रतं श्रीदं तृतीयास्वष्टमीषु च ।
गौरीं महेश्वरं चापि यजेत् सौभाग्यमाप्नुयात् ॥००९॥

उमामहेश्वरौ प्रार्च्य अवियोगादि चाप्नुयात् ।
मूलव्रतकरी स्त्री च उमेशव्रतकारिणी ॥०१०॥

सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् ।

{इत्य् आग्नेये महापुराणे नानाव्रतानि नाम एकोनशताधिकशततमो ऽध्यायः ॥ }

  1. सुधीः सारस्वतव्रती इति ख॥ , ग॥ , घ॥ , छ॥ , ट॥ च ↩︎ ↩︎

  2. सर्वव्रतानि चोक्तानीति ख॥ , छ॥ , ज॥ च ↩︎ ↩︎