१९८ मासव्रतानि

{अथाष्टनवत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

मासव्रतानि
अग्निर् उवाच
मासव्रतकमाख्यास्ये भुक्तिमुक्तिप्रदायकं ।
आषाढादिचतुर्मासमभ्यङ्गं वर्जयेत् सुधीः ॥००१॥

मूलम्

वैशाखे पुष्पलवणन्त्यक्त्वा गोदो नृपो भवेत् ।
गोदो मासोपवासी च1 भीमव्रतकरो हरिः2 ॥००२॥

आषाढादिचतुर्मासं प्रातःस्नायी च विष्णुगः ।
माघे मास्यथ चैत्रे वा गुडधेनुप्रदो भवेत् ॥००३॥

गुडव्रतस्तृतीयायां गौरीशः स्यान्महाव्रती ।
मार्गशीर्षादिमासेषु नक्तकृद्विष्णुलोकभाक् ॥००४॥

एकभक्तव्रती तद्वद् द्वादशीव्रतकं पृठक्3
फलव्रती चतुर्मासं फलं त्यक्त्वा प्रदापयेत् ॥००५॥

श्रावणादिचतुर्मासं व्रतैः सर्वं लभेद्व्रती ।
आषाढस्य सिते पक्षे एकादश्यामुपोषितः ॥००६॥

चातुर्मास्यव्रतानान्तु कुर्वीत परिकल्पनं ।
आषाढ्याञ्चाथ सङ्क्रान्तौ कर्कटस्य4 हरिं यजेत् ॥००७॥

इदं व्रतं मया देव गृहीतं पुरतस्तव ।

:न्

[[२३३]]

विश्वास-प्रस्तुतिः

निर्विघ्नां सिद्धिमायातु प्रसन्ने त्वयि केशव ॥००८॥

गृहीते ऽस्मिन् व्रते देव यद्यपूर्णे म्रिये ह्य् अहं ।
तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन ॥००९॥

मांसादि त्यक्त्वा1 विप्रः स्यात्तैलत्यागी हरिं यजेत् ।
एकान्तरोपवासी च त्रिरात्रं विष्णुलोकभाक् ॥०१०॥

चान्द्रायणी विष्णुलोकी मौनी स्यान् मुक्तिभाजनं ।
प्राजापत्यव्रती स्वर्गी शक्तुयावकभक्षकः ॥०११॥

गुग्धाद्याहारवान् स्वर्गी पञ्चगव्याम्बुभ्क्तथा ।
शाकमूलफलाहारी नरो विष्णुपुरीं व्रजेत्2 ॥०१२॥

मांसवर्जी यवाहारो रसवर्जी हरिं व्रजेत् ।
कौमुदव्रतमाख्यास्ये आश्विने समुपोषितः ॥०१३॥

द्वादश्यां पूजयेद्विष्णुं प्रलिप्याब्जोत्पलादिभिः ।
घृतेन तिलतैलेन दीपनैवेद्यमर्पयेत् ॥०१४॥

ॐ नमो वासुदेवाय मालत्या मालया यजेत् ।
धर्मकामार्थमोक्षांश् च प्राप्नुयात् कौमुदव्रती ॥०१५॥

सर्वं लभेद्धरिं प्रार्च्य मासोपवासकव्रती ।

{इत्य् आग्नेये महापुराणे मासव्रतानि नाम अष्टनवत्यधिकशततमो ऽध्यायः ॥ }

:न्

[[२३४]]

  1. मासे यवाशो चेति ख॥ ↩︎ ↩︎ ↩︎ ↩︎

  2. भीमव्रतपरो हरिरिति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎

  3. द्वादशीव्रतकं परमिति ङ॥ ↩︎ ↩︎

  4. आषाढगं वृषसङ्क्रान्त्यां कर्कटे चेति झ॥ ↩︎ ↩︎