१९७ दिवसव्रतानि

{अथ सप्तनवत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

दिवसव्रतानि

अग्निर् उवाच
दिवसव्रतकं वक्ष्ये ह्य् आदौ धेनुव्रतं वदे ।
यश्चोभयमुखीन्दद्यात् प्रभूतकनकान्वितां ॥००१॥

मूलम्

दिनं पयोव्रतस्तिष्ठेत् स याति परसम्पदं ।
त्र्यहं पयोव्रतं कृत्वा काञ्चनं कल्पपादपं ॥००२॥

दत्वा ब्रह्मपदं याति कल्पवृक्षप्रदं स्मृतं ।
दद्याद्विंशत् पलादूर्ध्वं1 महीङ्कृत्वा तु काञ्चनीं ॥००३॥

दिनं पयोव्रतस्तिष्ठेद्रुद्रगः स्याद्दिवाव्रती ।
पक्षे पक्षे त्रिरात्रन्तु भक्तेनैकेन यः क्षपेत्2 ॥००४॥

विपुलं धनमाप्नोति त्रिरात्रव्रतकृद्दिनं ।
मासे मासे त्रिरात्राशी एकभक्ती गणेशतां ॥००५॥

यस्त्रिरात्रव्रतं3 कुर्यात् समुहिश्य जनार्दनं ।
कुलानां शतमादाय स याति भवनं हरेः ॥००६॥

नवम्याञ्च सिते पक्षे नरो मार्गशिरस्यथ4
प्रारभेत त्रिरात्राणां व्रतन्तु विधिवद् व्रती ॥००७॥

:न्

[[२३१]]

विश्वास-प्रस्तुतिः

ॐ नमो वासुदेवाय सहस्रं वा शतं जपेत् ।
अष्टम्यामेकभक्ताशी दिनत्रयमुपावसेत् ॥००८॥

द्वादश्यां पूजयेद् विष्णुं कार्त्तिके कारयेद् व्रतं ।
विप्रान् सम्भोज्य वस्त्राणि शयनान्यासनानि च ॥००९॥

छत्रोपवीतपात्राणि ददेत् सम्प्रार्थयेद्द्विजान् ।
व्रतो ऽस्मिन् दुष्करे चापि विकलं यदभून्मम ॥०१०॥

भवद्भिस्तदनुज्ञातं परिपूर्णं भवत्विति ।
भुक्तभोगो व्रजेद् विष्णुं त्रिरात्रव्रतकत्रती1 ॥०११॥

कार्त्तिकव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।
दशम्यां पञ्चगव्याशो एकादश्यामुपोषितः ॥०१२॥

कार्त्तिकस्य सिते ऽभ्यर्च्य2 विष्णुं देवविमानगः ।
चैत्रे त्रिरात्रं नक्ताशी अजापञ्चप्रदः सुखी ॥०१३॥

त्रिरात्रं पयसः पानमुपवासपरस्त्र्यहं ।
षष्ठ्यादि कार्त्तिके शुक्रे कृच्छ्रो माहेन्द्र उच्यते ॥०१४॥

पञ्चरात्रं पयः पीत्वा दध्याहारो ह्य् उपोषितः ।
एकादश्यां कार्त्तिके तु कृच्छ्रो ऽयं भास्करोर्थदः3 ॥०१५॥

यवागूं यावकं शाकं दधि क्षीरं घृतं जलं ।
पञ्चम्यादि सिते पक्षे कृच्छ्रः शान्तपनः स्मृतः ॥०१६॥

{इत्य् आग्नेये महपुराणे दिवसव्रतानि नाम सप्तनवत्यधिकशततमो ऽध्यायः ॥ }

:न्

[[२३२]]

  1. दद्यात् त्रिंशत्पलादूर्ध्वमिति घ॥ , ज॥ , ञ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  2. क्षिपेदिति ख॥ , ग॥ , घ॥ , ङ॥ , ञ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  3. यस्त्रिरात्रशतं कुर्यादिति ग॥ , घ॥ , ञ॥ ↩︎ ↩︎ ↩︎ ↩︎

  4. मार्गशिरस्य चेति ख॥ , घ॥ , ज॥ , ञ॥ च ↩︎ ↩︎