{अथ षण्णवत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नक्षत्रव्रतानि
अग्निर् उवाच
नक्षत्रव्रतकं वक्ष्ये भे हरिः पूजितो ऽर्थदः1 ।
नक्षत्रपुरुषं चादौ चैत्रमासे हरिं यजेत् ॥००१॥
मूलम्

मूले पादौ यजेज्जङ्घे रोहिणीस्वर्चयेद्धरिं ।
जानुनी चाश्विनीयोगे आषाढासूरुसञ्ज्ञके ॥००२॥

मेढ्रं पूर्वोत्तरास्वेव कटिं वै कृत्तिकासु च ।
पार्श्वे भाद्रपदाभ्यान्तु कुक्षिं वै रेवतीषु च ॥००३॥

स्तनौ चैवानुराधासु धनिष्ठासु च पृष्ठकं ।
भुजौ पूज्यौ विशाखासु पुनर्वस्वङ्गुलीर्यजेत् ॥००४॥

अश्लेषासु नखान् पूज्य कण्ठं ज्येष्ठासु पूजयेत् ।
श्रोत्रे विष्णोश् च श्रवणे मुखं पुष्ये हरेर्यजेत् ॥००५॥

यजेत् स्वातिषु दन्ताग्रमास्यं वारुणतो ऽर्चयेत् ।
मघासु नसां नयने मृगशीर्षे ललाटकं ॥००६॥

चित्रासु चार्द्रासु कचानब्दान्ते स्वर्णकं हरिं ।
गुडपूर्णे घटे ऽभ्यर्च्य शय्यागोर्थादि दक्षिणा2 ॥००७॥

:न्
[[२२८]]
विश्वास-प्रस्तुतिः
शाम्भवायनीयव्रतकृन्मासभे पूजयेद्धरिं ॥००८॥

कार्त्तिके कृत्तिकायां च मृगशीर्षे मृगास्यके ।
नामभिः केशवाद्यैस्तु अच्युताय नमो ऽपि वा ॥००९॥

कार्त्तिके कृत्तिकाभे ऽह्नि मासनक्षत्रगं हरिं ।
शाम्भवायनीयव्रतकं करिष्ये भुक्तिमुक्तिदं ॥०१०॥

केशवादि महामूर्तिमच्युतं सर्वदायकं1 ।
आवाहयाम्यहन्देवमायुरारोग्यवृद्धिदं ॥०११॥

देवाय ब्राह्मणेभ्यश् च नक्तन्नैवेद्यमाशयेत्4 ।
पञ्चगव्यजलेस्नातस्तस्यैव प्राशनाच्छुचिः ॥०१३॥

अर्वाग्विसर्जनाद् द्रव्यं नैवेद्यं सर्वमुच्यते ।
विसर्जिते जगन्नाथे निर्माल्यन्भवति क्षणात् ॥०१४॥

नमो नमस्ते ऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुपैतु पुण्यं ।
ऐश्वर्यवित्तादि सदाक्षयं मे5 क्षयञ्च मा सन्ततिरभ्यपैतु ॥०१५॥

[[२२९]]
विश्वास-प्रस्तुतिः
तथाच्युतं त्वं कुरु वाञ्छितं मे मया कृतम्पापहराप्रमेय ॥०१६॥

अच्युतानन्द गोविन्द प्रसीद यदभीप्सितं ।
अक्षयं माममेयात्मन् कुरुष्व पुरुषोत्तम ॥०१७॥

सप्त वर्षाणि सम्पूज्य भुक्तिमुक्तिमवापुनुयात् ।
अनन्तव्रतमाख्यास्ये नक्षत्रव्रतकेर्थदं1 ॥०१८॥

मार्गशीर्षे मृगशिरे गोमूत्राशो यजेद्धरिं ।
अनन्तं सर्वकामानामनन्तो भगवान् फलं ॥०१९॥

ददात्यनन्तञ्च पुनस्तदेवान्यत्र जन्मनि ।
अनन्तपुन्योपचयङ्करोत्येतन्महाव्रतं ॥०२०॥

यथाभिलषितप्राप्तिं करोत्यक्षयमेव च ।
पादादि पूज्य नक्ते तु भुञ्जीयात्तैलवर्जितं ॥०२१॥

घृतेनानन्तमुद्दिश्य होमो मासचतुष्टयं ।
चैत्रादौ शालिना होमः पयसा श्रावणादिषु ॥०२२॥

मान्धाताभूद् युवनाश्वादनन्तव्रतकात् सुतः ॥२३॥

{इत्य् आग्नेये महापुराणे नक्षत्रव्रतकानि नाम षण्णवत्यधिकशततमो ऽध्यायः ॥ }
:न्
[[२३०]]