{अथ पञ्चनवत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
वारव्रतानि
अग्निर् उवाच
वारव्रतानि वक्ष्यामि भुक्तिमुक्तिप्रदानि हि ।
करं पुनर्वसुः सूर्ये स्नाने सर्वौषधी शुभा ॥००१॥
मूलम्

श्राध्हौ चादित्यवारे तु सप्तजन्मस्वरोगभाक् ।
सङ्क्रान्तौ सूर्यवारो यः सो ऽर्कस्य हृदयः शुभः ॥००२॥

कृत्वा हस्ते सूर्यवारं नक्तेनाब्दं स सर्वभाक् ।
चित्राभसोमवाराणि सप्त कृत्वा सुखी भवेत् ॥००३॥

स्वात्यां गृहीत्वा चाङ्गारं सप्तनक्त्यार्तिवर्जितः ।
विशाखायां बुधं गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥००४॥

अनुराधे देवगुरुं सप्तनक्ती ग्रहार्तिनुत्1 ।
शुक्रं ज्येष्ठासु सङ्गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥००५॥

मूले शनैश् चरं गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥६ ॥

{इत्य् आग्नेये महापुराणे वारव्रतानि नाम पञ्चवनत्यधिकशततमो ऽध्यायः ॥ }
:न्
[[२२७]]