{अथ त्रिनवत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
शिवरात्रिव्रतम्
अग्निर् उवाच
शिवरात्रिव्रतं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु1 ।
माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी ॥००१॥
मूलम्

कामयुक्ता तु सोपोष्या कुर्वन् जागरणं व्रती ।
शिवरात्रिव्रतं कुर्वे चतुर्दश्यामभोजनं ॥००२॥

रात्रिजागरणेनैव पूजयामि शिवं व्रती ।
आवाहयाम्यहं शम्भुं भुक्तिमुक्तिप्रदायकं ॥००३॥

नरकार्णवकोत्तारनावं शिव नमो ऽस्तु ते ।
नमः शिवाय शान्ताय प्रजाराज्यादिदायिने ॥००४॥

सौभाग्यारोग्यविद्यार्थस्वर्गमार्गप्रदायिने2 ।
धर्मन्देहि धनन्देहि कामभोगादि देहि मे ॥००५॥

गुणकीर्तिसुखं देहि स्वर्गं मोक्षं च देहि मे ।
लुब्धकः प्राप्तवान् पुण्यं पापी सुन्दरसेनकः ॥००६॥

{इत्य् आग्नेये महापुराणे शिवरात्रिव्रतं नाम त्रिनवत्यधिकशततमो ऽध्यायः ॥ }
:न्
[[२२५]]