१९२ चतुर्दशीव्रतानि

{अथ द्विनवत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

चतुर्दशीव्रतानि

अग्निर् उवाच
व्रतं वक्ष्ये चतुर्दश्यां भुक्तिमुक्तिप्रदायकं1
कार्त्तिके तु चतुर्दश्यां निराहारो यजेच्छिवम् ॥००१॥

मूलम्

वर्षभोगधनायुष्मान्2 कुर्वन् शिवचतुर्दशीम् ।
मार्गशीर्षे सिते ऽष्टाभ्यां तृतीयायां मुनिव्रतः ॥००२॥

:न्

[[२२३]]

विश्वास-प्रस्तुतिः

द्वादश्यां वा चतुर्दश्यां फलाहारो यजेत् सुरं1
त्यक्त्वा फलानि दद्यात्तु कुर्वन् फलचतुर्दशीं ॥००३॥

चतुर्दश्यां मथाष्टम्यां पक्षयोः
शुक्लकृष्णयोः ।
अनश्नन् पूजयेच्छम्भुं स्वर्ग्युभयचतुर्दशीं ॥००४॥

कृष्णाष्टम्यान्तु नक्तेन तथा कृष्णचतुर्दशीं ।
इह भोगानवाप्नोति परत्र च शुभाङ्गतिं ॥००५॥

कार्तिके च चतुर्दश्यां कृष्णायां स्नानकृत् सुखी ।
आराधिते महेन्द्रे तु ध्वजाकारासु यष्टिषु2 ॥००६॥

ततः शुक्लचतुर्दश्यामनन्तं पूजयेद्धरिं ।
कृत्वादर्भमयं चैव वारिधानी समन्वितं ॥००७॥

शालिप्रस्थस्य पिष्टस्य पूपनाम्नः कृतस्य च ।
अर्धं विप्राय दातव्यमर्धमात्मनि योजयेत्3 ॥००८॥

कर्तव्यं सरितां चान्ते कथां कृत्वा4 हरेरिति ।
अनन्तसंसारमहासमुद्रे मग्नान् समभ्युद्धर वासुदेव ॥००९॥

अनन्तरूपे विनियोजयस्व अनन्तरूपाय नमो नमस्ते ।
अनेन पूजयित्वाथ सूत्रं बद्धा तु मन्त्रितं ॥०१०॥

स्वके करे वा कण्ठे वा त्वनन्तव्रतकृत् सुखी ॥११॥

{इत्य् आग्नेये महापुराणे नानाचतुर्दशीव्रतानि नाम द्विनवत्यधिकशततमो ऽध्यायः ॥ }

:न्

[[२२४]]

  1. भुक्तिमुक्तिप्रदं शृणु इति ख॥ , घ॥ , ज॥ , झ॥ , ञ॥ , ट॥ च ।
    भुक्तिमुक्तिसुखप्रदमिति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎

  2. भोगबलायुष्मानिति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎

  3. भोजनमिति घ॥ , ङ॥ , ज॥ , झ॥ , ञ॥ , ट॥ च ↩︎ ↩︎

  4. कथां श्रुत्वेति झ॥ ↩︎ ↩︎