{अथैकनवत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
त्रयोदशीव्रतानि
अग्निर् उवाच
त्रयोदशीव्रतानीह सर्वदानि वदामि ते ।
अनङ्गेन कृतामादौ वक्ष्ये ऽनङ्गत्रयोदशीं ॥००१॥
मूलम्

त्रयोदश्यां मार्गशीर्षे शुक्ले ऽनङ्गं हरं यजेत्1 ।
मध सम्प्राशयेद्रात्रौ घृतहोमस्तिलाक्षतैः ॥००२॥

पौषे योगेश्वरं प्रार्च्य चन्दनाशी कृताहुतिः ।
महेश्वरं मौक्तिकाशी माघे ऽभ्यर्च्य दिवं व्रजेत् ॥००३॥

काकोलं प्राश्य नीरं तु2 फाल्गुने पूजयेद्व्रती ।
कर्पूराशी स्वरूपं च चैत्रे सौभाग्यवान् भवेत् ॥००४॥

महारूपन्तु वैशाखे यजेज्जातीफलाश्यपि ।
लवङ्गाशी ज्यैष्ठदिने3 प्रद्युम्नं पूजयेद् व्रती ॥००५॥

तिलोदाशी तथाषाढे उमाभर्तारमर्चयेत् ।
श्रावणे गन्धतोयाशी पूजयेच्छूलपाणिनं ॥००६॥

सद्योजातं भाद्रपदे प्राशिता गुरुमर्चयेत् ।
सुवर्णवारि सम्प्राश्य आश्विने त्रिदशाधिपम् ॥००७॥

:न्
[[२२२]]
विश्वास-प्रस्तुतिः
विश्वेश्वरं कार्त्तिके तु मदनाशी यजेद्व्रती ।
शिवं हैमन्तु वर्षान्ते सञ्च्छाद्याम्रदलेन तु ॥००८॥

वस्त्रेण पूजयित्वा तु दद्याद्विप्राय गान्तथा ।
शयनञ्छत्रकलशान् पादुकारसभाजनम् ॥००९॥

त्रयोदश्यां सिते चैत्रे रतिप्रीतियुतं स्मरन् ।
अशोकाख्यं नगं लिख्य सिन्दूररजनीमुखैः ॥०१०॥

{इत्य् आग्नेये महापुराणे त्रयोदशी व्रतानि नामैकनवत्यधिकशततमो ऽध्यायः ॥ }