१९० अखण्डद्वादशीव्रतं

{अथ नवत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

अखण्डद्वादशीव्रतं

अग्निर् उवाच
अखण्डद्वादशीं वक्ष्ये व्रतसम्पूर्णताकृतं ।
मार्गशीर्षे सिते विष्णुं द्वादश्यां समुपोषितः ॥००१॥

मूलम्

पञ्चगव्यजले स्नातो यजेत्तत्प्राशनो व्रती ।
यवव्रीहियुतम्पात्रन्द्वादश्यां हि द्विजे ऽर्पयेत् ॥००२॥

सप्तजन्मनि यत् किञ्चिन्मया खण्डं व्रतं कृतं ।
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥००३॥

यथाखण्डं जगत् सर्वं त्वमेव पुरुषोत्तम ।
तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै ॥००४॥

एवमेवानुमासञ्च चातुर्मास्यो विधिः स्मृतः ।
अन्यच्चैत्रादिमासेषु शक्तुपात्राणि1 चार्पयेत् ॥००५॥

श्रावणादिषु चारभ्य कार्त्तिकान्तेषु पारणं ।
सप्तजन्मसु वैकल्यं व्रतानां सफलं कृते ॥००६॥

आयुरारोग्यसौभाग्यराज्यभोगादिमाप्नुयात्[^२] ।

{इत्य् आग्नेये महापुराणे अखण्डद्वादशीव्रतं नाम नवत्यधिकशततमो ऽध्यायः ॥ }

:न्

[[२२१]]

  1. स्वर्णपात्राणि इति ख॥ , घ॥ , ञ॥ च ↩︎ ↩︎