१८९ श्रवणद्वादशीव्रतं

{अथैकोननवत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

श्रवणद्वादशीव्रतम्

अग्निर् उवाच
श्रवणादशीं वक्ष्ये मासि भाद्रपदे सिते ।
श्रवणेन युता श्रेष्ठा1 महती सा ह्य् उपोषिता ॥००१॥

मूलम्

श्रवणद्वादशीव्रतम्

अग्निर् उवाच
श्रवणादशीं वक्ष्ये मासि भाद्रपदे सिते ।
श्रवणेन युता श्रेष्ठा1 महती सा ह्य् उपोषिता ॥००१॥

विश्वास-प्रस्तुतिः

सङ्गमे सरितां स्नानाच्छ्रवणद्वादशोफलं2
बुधश्रवणसंयुक्ता दानादौ सुमहाफला ॥००२॥

मूलम्

सङ्गमे सरितां स्नानाच्छ्रवणद्वादशोफलं2
बुधश्रवणसंयुक्ता दानादौ सुमहाफला ॥००२॥

विश्वास-प्रस्तुतिः

निषिद्धमपि कर्तव्यन्त्रयोदश्यान्तु पारणं ।
द्वादृश्याञ्च निराहारो वामनं पूजयाम्यहं ॥००३॥

मूलम्

निषिद्धमपि कर्तव्यन्त्रयोदश्यान्तु पारणं ।
द्वादृश्याञ्च निराहारो वामनं पूजयाम्यहं ॥००३॥

विश्वास-प्रस्तुतिः

उदकुम्भे स्वर्णमयन्त्रयोदश्यान्तु पारणं ।
आवाहयाम्यहं विष्णुं वामनं शङ्खचक्रिणं ॥००४॥

मूलम्

उदकुम्भे स्वर्णमयन्त्रयोदश्यान्तु पारणं ।
आवाहयाम्यहं विष्णुं वामनं शङ्खचक्रिणं ॥००४॥

विश्वास-प्रस्तुतिः

सितवस्त्रयुगच्छन्ने घटे सच्छत्रपादुके ।
स्नापयामि जलैः शुद्धैर् विष्णुं3 पञ्चामृतादिभिः ॥००५॥

मूलम्

सितवस्त्रयुगच्छन्ने घटे सच्छत्रपादुके ।
स्नापयामि जलैः शुद्धैर् विष्णुं3 पञ्चामृतादिभिः ॥००५॥

विश्वास-प्रस्तुतिः

छत्रदण्डधरं विष्णुं वामनाय नमो नमः ।
अर्घ्यं ददामि देवेश अर्घ्यार्हाद्यैः सदार्चितः4 ॥००६॥

मूलम्

छत्रदण्डधरं विष्णुं वामनाय नमो नमः ।
अर्घ्यं ददामि देवेश अर्घ्यार्हाद्यैः सदार्चितः4 ॥००६॥

विश्वास-प्रस्तुतिः

भुक्तिमुक्तिप्रजाकीर्तिसर्वैश्वर्ययुतं कुरु ।
वामनाय नमो गन्धं होमो ऽनेनाष्टकं शतं ॥००७॥

मूलम्

भुक्तिमुक्तिप्रजाकीर्तिसर्वैश्वर्ययुतं कुरु ।
वामनाय नमो गन्धं होमो ऽनेनाष्टकं शतं ॥००७॥

:न्

[[२१९]]

विश्वास-प्रस्तुतिः

ॐ नमो वासुदेवाय शिरः सम्पूजयेद्धरेः ।
श्रीधराय मुखं तद्वत् कण्ठे कृष्णाय वै नमः ॥००८॥

मूलम्

ॐ नमो वासुदेवाय शिरः सम्पूजयेद्धरेः ।
श्रीधराय मुखं तद्वत् कण्ठे कृष्णाय वै नमः ॥००८॥

विश्वास-प्रस्तुतिः

नमः श्रीपतये वक्षो भुजो सर्वास्त्रधारिणे ।
व्यापकाय नमो नाभिं वामनाय नमः कटिं ॥००९॥

मूलम्

नमः श्रीपतये वक्षो भुजो सर्वास्त्रधारिणे ।
व्यापकाय नमो नाभिं वामनाय नमः कटिं ॥००९॥

विश्वास-प्रस्तुतिः

त्रैलोक्यजयकायेति1 मेढ्रं जङ्घे यजेद्धरेः ।
सर्वाधिपतये पादौ विष्णोः सर्वात्मने नमः ॥०१०॥

मूलम्

त्रैलोक्यजयकायेति1 मेढ्रं जङ्घे यजेद्धरेः ।
सर्वाधिपतये पादौ विष्णोः सर्वात्मने नमः ॥०१०॥

विश्वास-प्रस्तुतिः

घृतपक्वञ्च नैवेद्यन्दद्याद् दध्योदनैर् घटान् ।
रात्रौ च जागरं कृत्वा प्रातः स्नात्वा च सङ्गमे ॥०११॥

मूलम्

घृतपक्वञ्च नैवेद्यन्दद्याद् दध्योदनैर् घटान् ।
रात्रौ च जागरं कृत्वा प्रातः स्नात्वा च सङ्गमे ॥०११॥

विश्वास-प्रस्तुतिः

गन्धपुष्पादिभिः पूज्य वदेत् पुष्पाञ्जलिस्त्विदं ।
नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञित ॥०१२॥

मूलम्

गन्धपुष्पादिभिः पूज्य वदेत् पुष्पाञ्जलिस्त्विदं ।
नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञित ॥०१२॥

विश्वास-प्रस्तुतिः

अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव ।
प्रीयतान्देव देवेश मम नित्यञ्जनार्दन ॥०१३॥

मूलम्

अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव ।
प्रीयतान्देव देवेश मम नित्यञ्जनार्दन ॥०१३॥

विश्वास-प्रस्तुतिः

वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयं ।
वामनः प्रतिगृह्णाति वामनो मे ददाति च ॥०१४॥

मूलम्

वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयं ।
वामनः प्रतिगृह्णाति वामनो मे ददाति च ॥०१४॥

विश्वास-प्रस्तुतिः

द्रव्यस्थो वामनो नित्यं वामनाय नमो नमः ।
प्रदत्तदक्षिणो विप्रान् सम्भोज्यान्नं स्वयञ्चरेत् ॥०१५॥

मूलम्

द्रव्यस्थो वामनो नित्यं वामनाय नमो नमः ।
प्रदत्तदक्षिणो विप्रान् सम्भोज्यान्नं स्वयञ्चरेत् ॥०१५॥

{इत्य् आग्नेये महापुराणे श्रवणद्वादशीव्रतं नामैकोननवत्यधिकशतत्मो ऽध्यायः ॥ }

:न्

[[२२०]]


  1. श्रवणेन समायुक्तेति घ॥ ↩︎ ↩︎ ↩︎ ↩︎

  2. द्वादशद्वादशीफलमिति ख॥ , ग॥ , घ॥ , ङ॥ , छ॥ , ञ॥ च ↩︎ ↩︎

  3. शुद्धैर् हरिमिति ग॥ , ट॥ च ↩︎ ↩︎

  4. मुदार्चित इति ग॥ ↩︎ ↩︎