१८८ द्वादशीव्रतानि

{अथाष्टाशीत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

द्वादशीव्रतानि

अग्निर् उवाच
द्वादशीव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।
एकभक्तेन भक्तेन तथैवायाचितेन च ॥००१॥

मूलम्

उपवासेन भैक्ष्येण चैवं द्वादशिकव्रती ।
चैत्रे मासि सिते पक्षे द्वादश्यां मदनं हरिं ॥००२॥

पूजयेद्भुक्तिमुक्त्यर्थी1 मदनद्वादशईव्रती ।
माघशुक्ले तु द्वादश्यां भीमद्वादशिकव्रती ॥००३॥

नमो नारायणायेति यजेद्विष्णुं स सर्वभाक् ।
फाल्गुने च सिते पक्षे गोविन्दद्वादशीव्रती ॥००४॥

विशोकद्वादशीकारी यजेदाश्वयुजे हरिं ।
लवणं मार्गशीर्षे तु कृष्णमभ्यर्च्य यो नरः ॥००५॥

ददाति शुक्लद्वादश्यां स सर्वरसदायकः ।

:न्

[[२१७]]

विश्वास-प्रस्तुतिः

गोवत्सं पूजयेद् भाद्रे गोवत्सद्वादशीव्रती ॥००६॥

माध्यान्तु समतीतायां श्रवणेन तु संयुता ।
द्वादशी या भवेत् कृष्णा प्रोक्ता सा तिलद्वादशी ॥००७॥

तिलैः स्नानन्तिलैर् होमो नैवेद्यन्तिलमोदकं ।
दीपश् च तिलतैलेन तथा देयं तिलोदकं ॥००८॥

तिलाश् च देया विप्रेभ्यः फलं होमोपवासतः ।
ॐ नमो भगवते ऽथो वासुदेवाय वै यजेत् ॥००९॥

सुकलः स्वर्गमाप्नोति षट्तिलद्वादशीव्रती ।
मनोरथद्वादशीकृत् फाल्गुने तु सिते ऽर्चयेत् ॥०१०॥

नामद्वादशीव्रतकृत् केशवाद्यैश् च नामभिः ।
वर्षं यजेद्धरिं स्वर्गी न भवेन् नारकी नरः ॥०११॥

फाल्गुनस्य सिते ऽभ्यर्च्य सुमतिद्वादशीव्रती ।
मासि भाद्रपदे शुक्ते अनन्तद्वादशीव्रती2 ॥०१२॥

अश्लेषर्क्षे तु मूले वा3 माघे कृष्णाय वै नमः ।
यजेत्तिलांश् च जुहुयात्तिलद्वादशीकृन्नरः ॥०१३॥

सुगतिद्वादशीकारी फाल्गुने तु सिते यजेत् ।
जय कृष्ण नमस्तुभ्यं वर्षं स्याद् भुक्तिमुक्तिगः4 ॥०१४॥

पौषशुक्ले तु द्वादश्यां सम्प्राप्तिद्वादशीव्रती ।

{इत्य् आग्नेये महापुराणे नानाद्वादशीव्रतानि नामाष्टाशीत्यधिकशततमो ऽध्यायः ॥ }

:न्

[[२१८]]

  1. भुक्तिमुक्त्यर्थमिति छ॥ , ञ॥ च ↩︎ ↩︎

  2. कीटिकोटिगुणोत्तमेति ख॥ ↩︎ ↩︎

  3. एकादश्यामृषिं पूज्येति ख॥ , छ॥ च । एकदश्यामृषिपूजेति
    ङ॥ ↩︎ ↩︎

  4. कार्या सर्वाघहारिणीति झ॥ , ञ॥ च ↩︎ ↩︎