{अथ सप्ताशीत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
एकादशीव्रतं
अग्निर् उवाच
एकादशीव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायाकं ।
दशम्यान्नियताहारो मांसमैथुनवर्जितः1 ॥००१॥
मूलम्
एकादशीव्रतं
अग्निर् उवाच
एकादशीव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायाकं ।
दशम्यान्नियताहारो मांसमैथुनवर्जितः1 ॥००१॥
विश्वास-प्रस्तुतिः
एकदश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः ॥००२॥
मूलम्
एकदश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः ॥००२॥
विश्वास-प्रस्तुतिः
तत्र2 क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ।
एकादशी कला यत्र परतो द्वादशो गता3 ॥००३॥
विश्वास-प्रस्तुतिः
तत्र क्रतुशतं पुण्यन्त्रयोदश्यान्तु पारणे ।
दशम्येकादशीमिश्रा नोपोष्या नरकप्रदा ॥००४॥
मूलम्
तत्र क्रतुशतं पुण्यन्त्रयोदश्यान्तु पारणे ।
दशम्येकादशीमिश्रा नोपोष्या नरकप्रदा ॥००४॥
विश्वास-प्रस्तुतिः
एकादश्यान्निराहारो भुक्त्वा चैवापरे ऽहनि ।
भोक्ष्ये ऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥००५॥
मूलम्
एकादश्यान्निराहारो भुक्त्वा चैवापरे ऽहनि ।
भोक्ष्ये ऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥००५॥
विश्वास-प्रस्तुतिः
एकादश्यां सिते पक्षे पुष्यर्क्षन्तु यदा भवेत् ।
सोपोष्पाक्षय्यफलदा प्रोक्ता सा पापनाशिनी ॥००६॥
मूलम्
एकादश्यां सिते पक्षे पुष्यर्क्षन्तु यदा भवेत् ।
सोपोष्पाक्षय्यफलदा प्रोक्ता सा पापनाशिनी ॥००६॥
विश्वास-प्रस्तुतिः
एकादशी द्वादशी या श्रवणेन च संयुता ।
विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥००७॥
मूलम्
एकादशी द्वादशी या श्रवणेन च संयुता ।
विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥००७॥
:न्
[[२१६]]
विश्वास-प्रस्तुतिः
विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा1 ॥००८॥
मूलम्
विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा1 ॥००८॥
विश्वास-प्रस्तुतिः
एकादश्यां विष्णुपूजा2 कार्या सर्वोपकारिणी3 ।
धनवान् पुत्रवान् लोके विष्णुलोके महीयते ॥००९॥
{इत्य् आग्न्येये महापुराणे एकादशीव्रतं नाम सप्ताशीत्यधिकशततमो ऽध्यायः ॥ }