१८७ एकादशीव्रतानि

{अथ सप्ताशीत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

एकादशीव्रतं

अग्निर् उवाच
एकादशीव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायाकं ।
दशम्यान्नियताहारो मांसमैथुनवर्जितः1 ॥००१॥

मूलम्

एकादशीव्रतं

अग्निर् उवाच
एकादशीव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायाकं ।
दशम्यान्नियताहारो मांसमैथुनवर्जितः1 ॥००१॥

विश्वास-प्रस्तुतिः

एकदश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः ॥००२॥

मूलम्

एकदश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः ॥००२॥

विश्वास-प्रस्तुतिः

तत्र2 क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ।
एकादशी कला यत्र परतो द्वादशो गता3 ॥००३॥

मूलम्

तत्र2 क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ।
एकादशी कला यत्र परतो द्वादशो गता3 ॥००३॥

विश्वास-प्रस्तुतिः

तत्र क्रतुशतं पुण्यन्त्रयोदश्यान्तु पारणे ।
दशम्येकादशीमिश्रा नोपोष्या नरकप्रदा ॥००४॥

मूलम्

तत्र क्रतुशतं पुण्यन्त्रयोदश्यान्तु पारणे ।
दशम्येकादशीमिश्रा नोपोष्या नरकप्रदा ॥००४॥

विश्वास-प्रस्तुतिः

एकादश्यान्निराहारो भुक्त्वा चैवापरे ऽहनि ।
भोक्ष्ये ऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥००५॥

मूलम्

एकादश्यान्निराहारो भुक्त्वा चैवापरे ऽहनि ।
भोक्ष्ये ऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥००५॥

विश्वास-प्रस्तुतिः

एकादश्यां सिते पक्षे पुष्यर्क्षन्तु यदा भवेत् ।
सोपोष्पाक्षय्यफलदा प्रोक्ता सा पापनाशिनी ॥००६॥

मूलम्

एकादश्यां सिते पक्षे पुष्यर्क्षन्तु यदा भवेत् ।
सोपोष्पाक्षय्यफलदा प्रोक्ता सा पापनाशिनी ॥००६॥

विश्वास-प्रस्तुतिः

एकादशी द्वादशी या श्रवणेन च संयुता ।
विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥००७॥

मूलम्

एकादशी द्वादशी या श्रवणेन च संयुता ।
विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥००७॥

एषैव फाल्गुने मासि पुष्यर्क्षेण च संयुता ।

:न्

[[२१६]]

विश्वास-प्रस्तुतिः

विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा1 ॥००८॥

मूलम्

विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा1 ॥००८॥

विश्वास-प्रस्तुतिः

एकादश्यां विष्णुपूजा2 कार्या सर्वोपकारिणी3
धनवान् पुत्रवान् लोके विष्णुलोके महीयते ॥००९॥

मूलम्

एकादश्यां विष्णुपूजा2 कार्या सर्वोपकारिणी3
धनवान् पुत्रवान् लोके विष्णुलोके महीयते ॥००९॥

{इत्य् आग्न्येये महापुराणे एकादशीव्रतं नाम सप्ताशीत्यधिकशततमो ऽध्यायः ॥ }


  1. मधुमांसैर् विवर्जित इति ग॥ ↩︎ ↩︎ ↩︎ ↩︎

  2. अत्रेति ख॥ , छ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎

  3. द्वादशी मतेति घ॥ , ञ॥ च । द्वादशी भवेदिति ङ॥ , झ॥ च ↩︎ ↩︎ ↩︎ ↩︎