१८५ नवमीव्रतानि

{अथ पञ्चाशीत्यधिकशततमो ऽध्यायः }

विश्वास-प्रस्तुतिः

नवमीव्रतानि ॥

अग्निर् उवाच
नवमीव्रतकं वक्ष्ये भुक्तिमुक्त्यादिसिद्धिदं ।
देवी पूज्याश्विने शुक्ले गौर्याख्यानवमीव्रतं ॥००१॥

मूलम्

:न्

[[२१३]]

विश्वास-प्रस्तुतिः

पिष्टकाख्या तु नवमी पिष्टाशी देवपूजनात् ।
अष्टम्यामाश्विने शुक्ते कन्यार्कमूलभे यदा ॥००२॥

अघार्दना सर्वदा वै महती नवमी स्मृता ।
दुर्गा तु नवगेहस्था एकागारस्थिताथवा ॥००३॥

पूजिताष्टादशभुजा शेषाः षोडशमत्कराः1
शेषाः षोडशहस्ताः स्युरञ्जनं डमरुन्तथा ॥००४॥

रुद्रचण्डा प्रचण्डा च चण्डोग्रा सण्डनायिका ।
चण्डा चण्डवती पूज्या चण्डरूपातिचण्डिका ॥००५॥

क्रमान्मध्ये चोग्रचण्डा दुर्गा महिषमर्दिनी2
ॐ दुर्गे दुर्गे रक्षणि स्वाहा दशाक्षारो मन्त्रः ॥००६॥

दीर्घाकारादिमन्त्रादिर् नवनेत्रो नमो ऽन्तिकः ।
षड्भिः पदैर् नमःस्वधावषट्कारहृदादिकं ॥००७॥

अङ्गुष्ठादिकनिष्ठान्तं न्यस्याङ्गानि जपेच्छिवां3
एतञ्जपति4 यो गुह्यं नासौ केनापि बाध्यते ॥००८॥

कपालं खेटकं घण्टां दर्पणन्तर्जनीन्धनुः ।
ध्वजण्डमरुकं पाशं वामहस्तेषु विभ्रतीं ॥००९॥

शक्तिमुद्गरशूलानि वज्रं खड्गञ्च कुन्तकं ।
शङ्खं चक्रं शलाकां च आयुधानि च पूजयेत् ॥०१०॥

पशुञ्च काली कालीति जप्त्वा खड्गेन घातयेत् ।
कालि कालि वज्रेश्वरि लौहदण्डायै नमः ॥०११॥

[[२१४]]

विश्वास-प्रस्तुतिः

तदुत्थं रुधिरं मांसं पूतनायै च नैरृते ।
वायव्यां पापराक्षस्यै चरक्यै नम ईश्वरे ॥०१२॥

विदारिकायै चाग्नेय्यां महाकौशिकमग्नये1
तस्याग्रतो नृपः स्नायाच्छत्रुं पिष्टमयं हरेत्2 ॥०१३॥

दद्यात् स्कन्दविशाखाभ्यां ब्राह्माद्या निशि ता यजेत् ।
जयन्ती मङ्गला काली भद्रकाली कपालिनी ॥०१४॥

दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमो ऽस्तु ते ।
देवीं पञ्चामृतैः स्नाप्य पूजयेच्चार्हणादिना ॥०१५॥

ध्वजादिरथयात्रादिबलिदानं वरादिकृत् ।

{इत्य् आग्नेये महापुराणे नवमीव्रतानि नाम पञ्चाशीत्यधिकशततमो ऽध्यायः ॥ }

  1. गतो वीर इति ख॥ , ग॥ , घ॥ , ङ॥ , ज॥ , ञ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  2. वीरेणेति ट॥ ↩︎ ↩︎ ↩︎ ↩︎

  3. पितरौ तदेति ख॥ ↩︎ ↩︎

  4. एवं जपतीति ज॥ , झ॥ च ↩︎ ↩︎