१८४ अष्टमीव्रतानि

{अथ चतुरशित्यधिकशततमो ऽध्यायः}

अष्टमीव्रतानि

विश्वास-प्रस्तुतिः

अग्निर् उवाच
ब्रह्मादिमातृयजनाज्जपेन् मातृगणाष्टमीं ।
कृष्णाष्टाभ्यां चैत्रमासे पूज्याब्दं
कृष्णमर्थभाक् ॥००१॥

मूलम्

अग्निर् उवाच
ब्रह्मादिमातृयजनाज्जपेन् मातृगणाष्टमीं ।
कृष्णाष्टाभ्यां चैत्रमासे पूज्याब्दं
कृष्णमर्थभाक् ॥००१॥

विश्वास-प्रस्तुतिः

कृष्णाष्टमीव्रतं वक्ष्ये मासे मार्गशिरे चरेत् ।
नक्तं कृत्वा शुचिर्भूत्वा गोमूत्रं प्राशयेन्निशि ॥००२॥

मूलम्

कृष्णाष्टमीव्रतं वक्ष्ये मासे मार्गशिरे चरेत् ।
नक्तं कृत्वा शुचिर्भूत्वा गोमूत्रं प्राशयेन्निशि ॥००२॥

विश्वास-प्रस्तुतिः

भूमिशायी निशायाञ्च शङ्करं पुजयेद् व्रती ।
पौषे शम्भुं घृतं प्राश्य माघे क्षीरं
महेश्वरम्1 ॥००३॥

मूलम्

भूमिशायी निशायाञ्च शङ्करं पुजयेद् व्रती ।
पौषे शम्भुं घृतं प्राश्य माघे क्षीरं
महेश्वरम्1 ॥००३॥

विश्वास-प्रस्तुतिः

महादेवं फाल्गुने च तिलाशी2 समुपोषितः ।
चैत्रे स्थाणुं यवाशी च वैशाखे ऽथ शिवं यजेत् ॥००४॥

मूलम्

महादेवं फाल्गुने च तिलाशी2 समुपोषितः ।
चैत्रे स्थाणुं यवाशी च वैशाखे ऽथ शिवं यजेत् ॥००४॥

विश्वास-प्रस्तुतिः

कुशोदशी पशुपतिं ज्यैष्ठे शृङ्गोदकाशनः ।
आषाढे गोमयाश्युग्रं श्रावणे सर्वमर्कभुक् ॥००५॥

मूलम्

कुशोदशी पशुपतिं ज्यैष्ठे शृङ्गोदकाशनः ।
आषाढे गोमयाश्युग्रं श्रावणे सर्वमर्कभुक् ॥००५॥

विश्वास-प्रस्तुतिः

त्र्यम्बकं च भाद्रपदे बिल्वपत्राशनो निशि ।
तण्डुलाशी चाश्वयुजे ईशं रुदन्तु कार्त्तिके ॥००६॥

मूलम्

त्र्यम्बकं च भाद्रपदे बिल्वपत्राशनो निशि ।
तण्डुलाशी चाश्वयुजे ईशं रुदन्तु कार्त्तिके ॥००६॥

विश्वास-प्रस्तुतिः

दध्याशी होमकारी स्याद्वर्षान्ते मण्डले यजेत्3
गोवस्त्रहेम गुरवे दद्याद्विप्रेभ्य ईदृशं ॥००७॥

मूलम्

दध्याशी होमकारी स्याद्वर्षान्ते मण्डले यजेत्3
गोवस्त्रहेम गुरवे दद्याद्विप्रेभ्य ईदृशं ॥००७॥

प्रार्थयित्वा द्विजान् भोज्य[^४] भुक्तिमुक्तिमवाप्नुयात् ।

:न्

[[२११]]

विश्वास-प्रस्तुतिः

नक्ताशी त्वष्टमीषु स्याद् वत्सरान्ते च धेनुदः ॥००८॥

मूलम्

नक्ताशी त्वष्टमीषु स्याद् वत्सरान्ते च धेनुदः ॥००८॥

विश्वास-प्रस्तुतिः

पौरन्दरं पदं याति स्वर्गतिव्रतमुच्यते1
अष्टमी बुधवारेण पक्षयोरुभयोर्यदा ॥००९॥

मूलम्

पौरन्दरं पदं याति स्वर्गतिव्रतमुच्यते1
अष्टमी बुधवारेण पक्षयोरुभयोर्यदा ॥००९॥

विश्वास-प्रस्तुतिः

तदा व्रतं प्रकुर्वीत अथवा सगुडाशिता ।
तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः ॥०१०॥

मूलम्

तदा व्रतं प्रकुर्वीत अथवा सगुडाशिता ।
तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः ॥०१०॥

विश्वास-प्रस्तुतिः

तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलीद्वयं ।
भक्तं कृत्वा चाम्रपुटे सकुशे सकुलाम्बिकां ॥०११॥

मूलम्

तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलीद्वयं ।
भक्तं कृत्वा चाम्रपुटे सकुशे सकुलाम्बिकां ॥०११॥

विश्वास-प्रस्तुतिः

सात्त्विकं पूजयित्वाङ्गं भुञ्जीत च कथाश्रवात् ।
शक्तितो दक्षिणान्दद्यात् कर्कटीन्तण्डुलान्वितां2 ॥०१२॥

मूलम्

सात्त्विकं पूजयित्वाङ्गं भुञ्जीत च कथाश्रवात् ।
शक्तितो दक्षिणान्दद्यात् कर्कटीन्तण्डुलान्वितां2 ॥०१२॥

विश्वास-प्रस्तुतिः

धीरो द्विजो ऽस्य3 भार्यास्ति रम्भा पुत्रस्तु कैशिकः ।
दुहिता विजया तस्य धीरस्य धनदो वृषः4 ॥०१३॥

मूलम्

धीरो द्विजो ऽस्य3 भार्यास्ति रम्भा पुत्रस्तु कैशिकः ।
दुहिता विजया तस्य धीरस्य धनदो वृषः4 ॥०१३॥

विश्वास-प्रस्तुतिः

कौशिकस्तं गृहीत्वा तु गोपालैश्चारयन् वृषं ।
गङ्गायां स्नानकृत्ये ऽथ5 नीतश् चौरैर् वृषस्तदा ॥०१४॥

मूलम्

कौशिकस्तं गृहीत्वा तु गोपालैश्चारयन् वृषं ।
गङ्गायां स्नानकृत्ये ऽथ5 नीतश् चौरैर् वृषस्तदा ॥०१४॥

विश्वास-प्रस्तुतिः

स्नात्वा वृषमपश्यन् स वृषं मार्गितुमागतः ।
विजयाभगिनीयुक्तो ददर्श स सरोवरे ॥०१५॥

मूलम्

स्नात्वा वृषमपश्यन् स वृषं मार्गितुमागतः ।
विजयाभगिनीयुक्तो ददर्श स सरोवरे ॥०१५॥

विश्वास-प्रस्तुतिः

दिव्यस्त्रीयोषितां वृन्दमव्रवीद्देहि भोजनं ।
स्त्रीवृन्दमूचे व्रतकृद् भुङ्क्ष्व त्वमतिथिर्यतः ॥०१६॥

मूलम्

दिव्यस्त्रीयोषितां वृन्दमव्रवीद्देहि भोजनं ।
स्त्रीवृन्दमूचे व्रतकृद् भुङ्क्ष्व त्वमतिथिर्यतः ॥०१६॥

व्रतं कृत्वा स बुभुजे प्राप्तवान् वनपालकं ।

:न्

[[२१२]]

विश्वास-प्रस्तुतिः

गतो धीरः1 सवृषभो विजयासहितस्तदा ॥०१७॥

मूलम्

गतो धीरः1 सवृषभो विजयासहितस्तदा ॥०१७॥

विश्वास-प्रस्तुतिः

धीरेण2 विजया दत्ता यमायान्तरितः पिता ।
व्रतभावात् कौशिको ऽपि ह्य् अयोध्यायां नृपो ऽभवत् ॥०१८॥

मूलम्

धीरेण2 विजया दत्ता यमायान्तरितः पिता ।
व्रतभावात् कौशिको ऽपि ह्य् अयोध्यायां नृपो ऽभवत् ॥०१८॥

विश्वास-प्रस्तुतिः

पित्रोस्तु नरके दृष्ट्वा विजयार्तिं यमे गता ।
मृगयामागतं प्रोचे मुच्यते नरकात् कथं ॥०१९॥

मूलम्

पित्रोस्तु नरके दृष्ट्वा विजयार्तिं यमे गता ।
मृगयामागतं प्रोचे मुच्यते नरकात् कथं ॥०१९॥

विश्वास-प्रस्तुतिः

व्रतद्वयाद्यमः प्रोचे प्राप्य तत् कैशिको ददौ ।
बुधाष्टमीद्वयफलं स्वर्गतौ पितरौ ततः3 ॥०२०॥

मूलम्

व्रतद्वयाद्यमः प्रोचे प्राप्य तत् कैशिको ददौ ।
बुधाष्टमीद्वयफलं स्वर्गतौ पितरौ ततः3 ॥०२०॥

विश्वास-प्रस्तुतिः

विजया हर्षिता चक्रे व्रतं भुक्त्यादिसिद्धये ।
अशोककलिकाश्चाष्तौ ये पिवन्ति पुनर्वसौ ॥०२१॥

मूलम्

विजया हर्षिता चक्रे व्रतं भुक्त्यादिसिद्धये ।
अशोककलिकाश्चाष्तौ ये पिवन्ति पुनर्वसौ ॥०२१॥

विश्वास-प्रस्तुतिः

चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ।
त्वामशोकहराभीष्ट मधुमाससमुड्गव ॥०२२॥

मूलम्

चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ।
त्वामशोकहराभीष्ट मधुमाससमुड्गव ॥०२२॥

विश्वास-प्रस्तुतिः

पिवामि शोकसन्तप्तो मामशोकं सदा कुरु ।
चैत्रादौ मातृपूजाकृदष्टम्यां जयते रिपून् ॥०२३॥

मूलम्

पिवामि शोकसन्तप्तो मामशोकं सदा कुरु ।
चैत्रादौ मातृपूजाकृदष्टम्यां जयते रिपून् ॥०२३॥

{इत्य् आग्नेये महापुराणे अष्टमीव्रतानि नाम चतुरशीत्यधिकशततमो ऽध्यायः ॥ }


  1. माघे क्षीरी महेश्वरमिति घ॥ , छ॥ , ञ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. तिलादीति ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. वर्षे वर्षे तु मण्डले इति ञ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. द्विजान् तोष्य इति ज॥ ↩︎ ↩︎

  5. स्नानकृत्येषु इति ट॥ ↩︎ ↩︎