१८३ अष्टमीव्रतानि

{अथ त्र्यशीत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

अष्टमीव्रतानि

अग्निर् उवाच
वक्ष्ये व्रतानि चाष्टम्यां रोहिण्यां प्रथमं व्रतं ।
मासि भाद्रपदे ऽष्टभ्यां रोहिण्यामर्धरात्रके ॥००१॥

मूलम्

अष्टमीव्रतानि

अग्निर् उवाच
वक्ष्ये व्रतानि चाष्टम्यां रोहिण्यां प्रथमं व्रतं ।
मासि भाद्रपदे ऽष्टभ्यां रोहिण्यामर्धरात्रके ॥००१॥

विश्वास-प्रस्तुतिः

कृष्णो जातो यतस्तस्यां जयन्ती स्यात्ततो ऽष्टमी ।
सप्तजन्मकृतात् पापात् मुच्यते चोपवासतः ॥००२॥

मूलम्

कृष्णो जातो यतस्तस्यां जयन्ती स्यात्ततो ऽष्टमी ।
सप्तजन्मकृतात् पापात् मुच्यते चोपवासतः ॥००२॥

विश्वास-प्रस्तुतिः

कृष्णपक्षे भाद्रपदे अष्टम्यां रोहिणीयुते ।
उपाषितोर्चयेत् कृष्णं1 भुक्तिमुक्तिप्रदायकं ॥००३॥

मूलम्

कृष्णपक्षे भाद्रपदे अष्टम्यां रोहिणीयुते ।
उपाषितोर्चयेत् कृष्णं1 भुक्तिमुक्तिप्रदायकं ॥००३॥

विश्वास-प्रस्तुतिः

आवाहयाम्यहं कृष्णं बलभद्रञ्च देवकीं ।
वसुदेवं यशोदाङ्गाः2 पूजयामि नमो ऽस्तु ते ॥००४॥

मूलम्

आवाहयाम्यहं कृष्णं बलभद्रञ्च देवकीं ।
वसुदेवं यशोदाङ्गाः2 पूजयामि नमो ऽस्तु ते ॥००४॥

विश्वास-प्रस्तुतिः

योगाय योगपतये योगेशाय नमो नमः ।
योगादिसम्भावयैव गोविन्दाय नमो नमः ॥००५॥

मूलम्

योगाय योगपतये योगेशाय नमो नमः ।
योगादिसम्भावयैव गोविन्दाय नमो नमः ॥००५॥

विश्वास-प्रस्तुतिः

स्नानं कृष्णाय दद्यात्तु अर्घ्यं चानेन दापयेत् ।
यज्ञाय यज्ञेश्वराय यज्ञानां पतये नमः ॥००६॥

मूलम्

स्नानं कृष्णाय दद्यात्तु अर्घ्यं चानेन दापयेत् ।
यज्ञाय यज्ञेश्वराय यज्ञानां पतये नमः ॥००६॥

विश्वास-प्रस्तुतिः

यज्ञादिसम्भवायैव गोविन्दाय नमो नमः ।
गृहाण देव पुष्पाणि सुगन्धीनि प्रियाणि ते ॥००७॥

मूलम्

यज्ञादिसम्भवायैव गोविन्दाय नमो नमः ।
गृहाण देव पुष्पाणि सुगन्धीनि प्रियाणि ते ॥००७॥

विश्वास-प्रस्तुतिः

सर्वकामप्रदो देव भव मे देववन्दित ।
धूपधूपित धूपं त्वं धूपितैस्त्वं गृहाण मे ॥००८॥

मूलम्

सर्वकामप्रदो देव भव मे देववन्दित ।
धूपधूपित धूपं त्वं धूपितैस्त्वं गृहाण मे ॥००८॥

सुगन्ध धूपगन्धाढ्यं कुरु मां सर्वदा हरे ।

:न्

[[२०९]]

विश्वास-प्रस्तुतिः

दीपदीप्त महादीपं दीपदीप्तद सर्वदा1 ॥००९॥

मूलम्

दीपदीप्त महादीपं दीपदीप्तद सर्वदा1 ॥००९॥

विश्वास-प्रस्तुतिः

मया दत्तं गृहाण त्वं कुरु चोर्ध्वगतिं च मां ।
विश्वाय विश्वपतये विश्वेशाय नमो नमः2 ॥०१०॥

मूलम्

मया दत्तं गृहाण त्वं कुरु चोर्ध्वगतिं च मां ।
विश्वाय विश्वपतये विश्वेशाय नमो नमः2 ॥०१०॥

विश्वास-प्रस्तुतिः

विश्वादिसम्भवायैव गोविन्दाय निवेदितं ।
धर्माय धर्मपतये दर्मेशाय नमो नमः ॥०११॥

मूलम्

विश्वादिसम्भवायैव गोविन्दाय निवेदितं ।
धर्माय धर्मपतये दर्मेशाय नमो नमः ॥०११॥

विश्वास-प्रस्तुतिः

धर्मादिसम्भवायैव गोविन्दशयनं कुरु ।
सर्वाय सर्वपतये सर्वेशाय नमओ नमः ॥०१२॥

मूलम्

धर्मादिसम्भवायैव गोविन्दशयनं कुरु ।
सर्वाय सर्वपतये सर्वेशाय नमओ नमः ॥०१२॥

विश्वास-प्रस्तुतिः

सर्वादिसम्भवायैव गोविन्दाय च पावनं3
क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ॥०१३॥

मूलम्

सर्वादिसम्भवायैव गोविन्दाय च पावनं3
क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ॥०१३॥

विश्वास-प्रस्तुतिः

गृहाणार्घ्यं शशाङ्केदं रोहिण्या सहितो मम ।
स्थण्डिले स्थापयेद्देवं सचन्द्रां रोहिणीं यजेत् ॥०१४॥

मूलम्

गृहाणार्घ्यं शशाङ्केदं रोहिण्या सहितो मम ।
स्थण्डिले स्थापयेद्देवं सचन्द्रां रोहिणीं यजेत् ॥०१४॥

विश्वास-प्रस्तुतिः

देवकीं वसुदेवं च यशोदां नन्दकं बलं ।
अर्धरात्रे परोधाराः पातयेद् गुडसर्पिषा ॥०१५॥

मूलम्

देवकीं वसुदेवं च यशोदां नन्दकं बलं ।
अर्धरात्रे परोधाराः पातयेद् गुडसर्पिषा ॥०१५॥

विश्वास-प्रस्तुतिः

वस्त्रहेमादिकं दद्याद्ब्राह्मणान् भोजयेद्व्रती ।
जन्माष्टमीव्रतकरः पुत्रवान्विष्णुलोकभाक्4 ॥०१६॥

मूलम्

वस्त्रहेमादिकं दद्याद्ब्राह्मणान् भोजयेद्व्रती ।
जन्माष्टमीव्रतकरः पुत्रवान्विष्णुलोकभाक्4 ॥०१६॥

विश्वास-प्रस्तुतिः

वर्षे वर्षे तु यः कुर्यात् पुत्रार्थी वेत्ति नो भयं5
पुत्रान् देहि धनं देहि आयुरारोग्यसन्ततिं ॥०१७॥

मूलम्

वर्षे वर्षे तु यः कुर्यात् पुत्रार्थी वेत्ति नो भयं5
पुत्रान् देहि धनं देहि आयुरारोग्यसन्ततिं ॥०१७॥

धर्मं कामं च सौभाग्यं स्वर्गं मोक्षं च देहि मे ।

{इत्य् आग्नेये महापुराणे जयन्त्यष्टमीव्रतं नाम त्र्यशीत्यधिकशततमो ऽध्यायः ॥ }

:न्

[[२१०]]


  1. विष्णुमिति ट॥ ↩︎ ↩︎ ↩︎ ↩︎

  2. यशोदाञ्चेति ङ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎

  3. पारगमिति ग॥ । सर्वायेत्यादिः। पावनमित्यन्तः पाठः छ॥
    पुस्तके नास्ति ↩︎ ↩︎

  4. कृष्णलोकभागिति छ॥ ↩︎ ↩︎

  5. पुत्रार्थो लभते सुतमिति ज॥ , ट॥ च ↩︎ ↩︎