{अथ द्व्यशीत्यधिकशततमो ऽध्यायः ॥ }
विश्वास-प्रस्तुतिः
सप्तमीव्रतानि
अग्निर् उवाच
सप्तमीव्रतकं वक्ष्ये सर्वेषां भुक्तिमुक्तिदं1 ।
माघमासे ऽब्जके शुक्ले सूर्यं प्रार्च्य विशोकभाक् ॥००१॥
मूलम्

सर्वावाप्तिस्तु सप्तभ्यां मासि भाद्रे ऽर्कपूजनात् ।
पौषे मासि सिते ऽनश्नन् प्रार्च्यार्कं पापनाशनं ॥००२॥

कृष्णपक्षे तु माघस्य सर्वावाप्तिस्तु सप्तमी ।
फाल्गुने तु सिते नन्दा सप्तमी चार्कपूजनात् ॥००३॥

मार्गशीर्षे सिते प्रार्च्य सप्तमी चापराजिता ।
मार्गशीर्षे सिते चाव्दं पुत्रीया सप्तमी स्त्रियाः ॥००४॥

{इत्य् आग्नेये महापुराणे सप्तमीव्रतानि नाम द्व्यशीत्यधिकशततमो ऽध्यायः ॥ }
:न्
[[२०८]]