{अथैकाशीत्यधिकशततमो ऽध्यायः ॥}
विश्वास-प्रस्तुतिः
षष्ठीव्रतानि
अग्निर् उवाच
षष्ठीव्रतानि वक्ष्यामि कार्त्तिकादौ समाचरेत्1 ।
षष्ट्यां फलाशनो2 ऽर्घ्याद्यैर् भुक्तिमुक्तिमवाप्नुयात् ॥००१॥
मूलम्
षष्ठीव्रतानि
अग्निर् उवाच
षष्ठीव्रतानि वक्ष्यामि कार्त्तिकादौ समाचरेत्1 ।
षष्ट्यां फलाशनो2 ऽर्घ्याद्यैर् भुक्तिमुक्तिमवाप्नुयात् ॥००१॥
:न्
[[२०७]]
विश्वास-प्रस्तुतिः
स्कन्दषष्ठीव्रतं प्रोक्तं भाद्रे
षष्ट्यामथाक्षयं ।
कृष्णषष्ठीव्रतं वक्ष्ये मार्गशीर्षे चरेच्च तत्3 ॥००२॥
मूलम्
स्कन्दषष्ठीव्रतं प्रोक्तं भाद्रे
षष्ट्यामथाक्षयं ।
कृष्णषष्ठीव्रतं वक्ष्ये मार्गशीर्षे चरेच्च तत्3 ॥००२॥
{इत्य् आग्नेये महापुराणे षष्ठीव्रतानि नाम एकाशीत्यधिकशततमो ऽध्यायः ॥ }