१८१ षष्ठीव्रतानि

{अथैकाशीत्यधिकशततमो ऽध्यायः ॥}

विश्वास-प्रस्तुतिः

षष्ठीव्रतानि

अग्निर् उवाच
षष्ठीव्रतानि वक्ष्यामि कार्त्तिकादौ समाचरेत्1
षष्ट्यां फलाशनो2 ऽर्घ्याद्यैर् भुक्तिमुक्तिमवाप्नुयात् ॥००१॥

मूलम्

षष्ठीव्रतानि

अग्निर् उवाच
षष्ठीव्रतानि वक्ष्यामि कार्त्तिकादौ समाचरेत्1
षष्ट्यां फलाशनो2 ऽर्घ्याद्यैर् भुक्तिमुक्तिमवाप्नुयात् ॥००१॥

:न्

[[२०७]]

विश्वास-प्रस्तुतिः

स्कन्दषष्ठीव्रतं प्रोक्तं भाद्रे
षष्ट्यामथाक्षयं ।
कृष्णषष्ठीव्रतं वक्ष्ये मार्गशीर्षे चरेच्च तत्3 ॥००२॥

मूलम्

स्कन्दषष्ठीव्रतं प्रोक्तं भाद्रे
षष्ट्यामथाक्षयं ।
कृष्णषष्ठीव्रतं वक्ष्ये मार्गशीर्षे चरेच्च तत्3 ॥००२॥

अनाहारो वर्षमेकं भुक्तिमुक्तिमवाप्नुयात् ।

{इत्य् आग्नेये महापुराणे षष्ठीव्रतानि नाम एकाशीत्यधिकशततमो ऽध्यायः ॥ }


  1. ऐरावत इत्य् आदिः, कार्त्तकादौ समाचरेदित्यन्तः पाठः झ॥
    पुस्तके नास्ति ↩︎ ↩︎

  2. षष्ट्यां मलाशनो ऽर्घ्याद्यैर् इति ट॥ ↩︎ ↩︎

  3. आरोग्यमुखमोक्षदमिति ङ॥ ↩︎ ↩︎