{अथाशीत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
पञ्चमीव्रतानि
अग्निर् उवाच
पञ्चमीव्रतकं वक्ष्ये आरोग्यस्वर्गमोक्षदं[^१] ।
नभोनभस्याश्विने च कार्त्तिके शुक्लपक्षके ॥००१॥
मूलम्
पञ्चमीव्रतानि
अग्निर् उवाच
पञ्चमीव्रतकं वक्ष्ये आरोग्यस्वर्गमोक्षदं[^१] ।
नभोनभस्याश्विने च कार्त्तिके शुक्लपक्षके ॥००१॥
विश्वास-प्रस्तुतिः
वासुकिस्तक्षकः पूज्यः कालीयो मणिभद्रकः ।
ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥००२॥
मूलम्
वासुकिस्तक्षकः पूज्यः कालीयो मणिभद्रकः ।
ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥००२॥
विश्वास-प्रस्तुतिः
एते प्रयच्छन्त्यभयमायुर्विद्यायशः श्रियं ॥३॥
मूलम्
एते प्रयच्छन्त्यभयमायुर्विद्यायशः श्रियं ॥३॥
{इत्य् आग्नेये महापुराणे पञ्चमीव्रतानि नाम अशीत्यधिकशततमो ऽध्यायः ॥ }