१७९ चतुर्थीव्रतानि

{अथैकोनाशीत्यधिकशततमो ऽध्यायः ॥}

विश्वास-प्रस्तुतिः

चतुर्थीव्रतानि

अग्निर् उवाच
चतुर्थी व्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते1
माघे शुक्लचतुर्थ्यान्तु उपवासी यजेद् गुणं ॥००१॥

मूलम्

पञ्चम्याञ्च तिलान्नादी वर्षान्निर्विघ्नतः2 सुखी ।
गं स्वाहा3 मूलमन्त्रो ऽयं गामाद्यं हृदयादिकं ॥००२॥

आगच्छोल्काय चावाह्य गच्छोल्काय विसर्जनं ।
उल्कान्तैर् गादिगन्धाद्यैः पूजयेन्मोदकादिभिः ॥००३॥

ॐ महोल्काय विद्महे वक्रतुण्डाय4 धीमहि तन्नो दन्ती
प्रचीदयात्
मासि भाद्रपदे चापि चतुर्थीकृच्छिवं व्रजेत् ।
चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या व्रजेत् ॥००४॥

चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या चतुर्थ्यपि ।
चतुर्थ्यां दमनैः पूज्य चैत्रे प्रार्च्य गणं सुखी ॥००५॥

{इत्य् आग्नेये महपुराणे चतुर्थीव्रतानि नाम एकोनाशीत्यधिकशततमो ऽध्यायः ॥ }

:न्

[[२०६]]

  1. चतुर्थी व्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकमिति ङ॥ ↩︎ ↩︎

  2. वर्षन्निर्विघ्नत इति ङ॥ , ञ॥ च । वर्षन्निर्विघ्नवान् इति ग॥ ↩︎ ↩︎

  3. हां स्वाहेति ख॥ ↩︎ ↩︎

  4. चक्रमुण्डायेति ख॥ , घ॥ च । वक्रमुण्डायेति ङ॥ ।
    रक्ततुण्डायेति ज॥ , झ॥ च ↩︎ ↩︎