{अथैकोनाशीत्यधिकशततमो ऽध्यायः ॥}
विश्वास-प्रस्तुतिः
चतुर्थीव्रतानि
अग्निर् उवाच
चतुर्थी व्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते1 ।
माघे शुक्लचतुर्थ्यान्तु उपवासी यजेद् गुणं ॥००१॥
मूलम्

पञ्चम्याञ्च तिलान्नादी वर्षान्निर्विघ्नतः2 सुखी ।
गं स्वाहा3 मूलमन्त्रो ऽयं गामाद्यं हृदयादिकं ॥००२॥

आगच्छोल्काय चावाह्य गच्छोल्काय विसर्जनं ।
उल्कान्तैर् गादिगन्धाद्यैः पूजयेन्मोदकादिभिः ॥००३॥

ॐ महोल्काय विद्महे वक्रतुण्डाय4 धीमहि तन्नो दन्ती
प्रचीदयात्
मासि भाद्रपदे चापि चतुर्थीकृच्छिवं व्रजेत् ।
चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या व्रजेत् ॥००४॥

चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या चतुर्थ्यपि ।
चतुर्थ्यां दमनैः पूज्य चैत्रे प्रार्च्य गणं सुखी ॥००५॥

{इत्य् आग्नेये महपुराणे चतुर्थीव्रतानि नाम एकोनाशीत्यधिकशततमो ऽध्यायः ॥ }
:न्
[[२०६]]