{अथाष्टसप्तत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
तृतीयाव्रतानि
अग्निर् उवाच
तृतीयाव्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते ।
ललितायां तृतीयायां मूलगौरीव्रतं शृणु ॥००१॥
मूलम्

तृतीयायां चैत्रशुक्ले ऊढा गौरी हरेण हि ।
तिलस्नातो ऽर्चयेच्छम्भुं गौर्या हैमफलादिभिः ॥००२॥

नमो ऽस्तु पाटलायैव पादौ देव्याः शिवस्य च ।
शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्यजेत् ॥००३॥

त्रिपुरघ्नाय रुद्राय भान्यै जङ्घयोर्द्वयओः ।
शिवं रुद्रायेश्वराय1 विजयायैव जानुनी ॥००४॥

:न्
[[२०२]]
विश्वास-प्रस्तुतिः
कुक्षिद्वयञ्च कोटव्यै शूलिनम् शूलपाणये ॥००५॥

मङ्गलायै नमस्तुभ्यमुदरञ्चाभिपूजयेत् ।
सर्वात्मने नमो रुद्रमैशान्यै च कुचद्वयं ॥००६॥

शिवं देवात्मने तद्वत् ह्रादिन्यै1 कण्ठमर्चयेत् ।
महादेवाय च शिवमनन्तायै करद्वयं ॥००७॥

त्रिलोचनायेति हरं बाहुं कालानलप्रिये2 ।
सौभाग्यायै महेशाय भूषणानि प्रपूजयेत् ॥००८॥

अशोकमधुवासिन्यै ईश्वरायेति चौष्ठकौ ।
चतुर्मुखप्रिया चास्यं हराय स्थाणवे नमः ॥००९॥

नमो ऽर्धनारीशहरममिताङ्ग्यै च नासिकां ।
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ ॥०१०॥

सर्वाय पुरहन्तारं3 वासन्त्यै चैव तालुकं4 ।
नमः श्रीकण्ठनाथायै शितिकण्ठाय केशकं ॥०११॥
विश्वास-प्रस्तुतिः
भीमोग्राय सुपूपिण्यै शिरः सर्वात्मने नमः ।
मल्लिकाशोककमलकुन्दन्तगरमालती5 ॥०१२॥

कदम्बकरवीरञ्च6 वाणमम्लानकुङ्कुमं ।
सिन्धुवारञ्च मासेषु सर्वेषु क्रमशः स्मृतं ॥०१३॥

[[२०३]]
विश्वास-प्रस्तुतिः
स्थापयेद्1 घृतनिष्पावकुसुम्भक्षीरजीवकं ॥०१४॥

तरुराजेक्षुलवणं2 कुस्तुम्बुरुमथाष्टमं ।
चैत्रे शृगोदकं प्राश्य देवदेव्यग्रतः स्वपेत् ॥०१५॥

प्रातः स्नात्वा समभ्यर्च्य विप्रदाम्पत्यमर्चयेत्3 ।
तदष्टकं द्विजे दद्याल्ललिता प्रीयतां मम4 ॥०१६॥

शृङ्गोदकं5 गोमयं च मन्दारं बिल्वपत्रकं ।
कुशोदकं दधि क्षीरं कार्त्तिके पृषदाज्यकम् ॥०१७॥

गोमूत्राज्यं कृष्णतिलं पञ्चगव्यं क्रमाशनं ।
ललिता विजया भद्रा भवानी कुमुदा शिवा ॥०१८॥

वासुदेवी तथा गौरी मङ्गला कमला सती ।
चैत्रादौ दानकाले च प्रीयतामिति वाचयेत् ॥०१९॥

फलमेकं पवित्राज्यं6 व्रतान्ते शयानं ददेत् ।
उमामहेश्वरं हैमं वृषभञ्च गवा सह ॥०२०॥

गुरुञ्च मिथुनान्यर्च्य7 वस्त्राद्यैर् भुक्तिमुक्तिभाक्8 ।
सौभाग्यारोग्यरूपायुः सौभाग्यशयनव्रतान् ॥०२१॥

[[२०४]]
विश्वास-प्रस्तुतिः
शुक्लपक्षे तृतीयायाम् ललितायै नमो यजेत् ॥०२२॥

प्रतिपक्षं ततः प्रार्च्य व्रतान्ते1 मित्युनानि च ।
चतुर्विंशतिमभ्यर्च्य वस्त्राद्यैर् भुक्तिमुक्तिभाक् ॥०२३॥

उक्तो मार्गो द्वितीयो ऽयं सौभाग्यव्रतमावदे ।
फाल्गुणादितृतीयायां लवणं यस्तु वर्जयेत् ॥०२४॥

समाप्ते शयनन्दद्याद्गृहश्चोपस्करान्वितं ।
सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति2 ॥०२५॥

सौभाग्यार्थं तृतीयोक्ता गौरीलोकादिदायिनी ।
माघे भाद्रे च वैशाखे तृतीयाव्रतकृत्तथा ॥०२६॥

दमनकतृतीयाकृत् चैत्रे दमनकैर् यजेत् ।
आत्मतृतीया मार्गस्य प्रार्च्येच्छाभोजनादिना ॥०२७॥

गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती ।
वैष्णवी लक्ष्मीः प्रकृतिः शिवा नारायणी क्रमात्3 ॥०२८॥

मार्गतृतीयामारभ्य सौभाग्यं स्वर्गमाप्नुयात् ॥२९॥

{इत्य् आग्नेये महापुराणे तृतीयाव्रतानि नाम अष्टसप्तत्यधिकशततमो ऽध्यायः ॥ }
:न्
[[२०५]]
-
शिवं रुद्राय विश्वायेति ख॥ , छ॥ च । शिवं भद्रायेश्वरायेति ज॥
, झ॥ , ञ॥ , ट॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
ईशाय कट्यां देव्याश् च इति ङ॥ । ईशायेति तातो देव्या इति
घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
मल्लिकाशोकेत्यादिः, सौभाग्याष्टकमग्रतः इत्य् अन्तः छ॥
पुस्तके नास्ति ↩︎ ↩︎ -
वस्त्राद्यैः सर्वमाप्नुयादिति ख॥ , घ॥ , ङ॥ , छ॥ , झ॥ , ञ॥ , ट॥
च ↩︎ ↩︎