{अथ सप्तसप्तत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
द्वितीयाव्रतानि
अग्निर् उवाच
द्वितीयाव्रतकं वक्ष्ये भुक्तिमुक्तिदायकं ।
पुष्पाहारी द्वितीयायामश्विनौ पूजयेत् सुरौ ॥००१॥
मूलम्

अब्दं स्वरूपसौभाग्यं स्वर्गभाग् जायते व्रती ।
कार्त्तिके शुक्तिपक्षस्य1 दितीयायां यमं यजेत् ॥००२॥

अब्दमुपोषितः स्वर्गं गच्छेन्न नरकं व्रती ।
अशून्यशयनं वक्ष्ये अवैधव्यादिदायकं ॥००३॥

कृष्णपक्षे द्वितीयायां श्रावणास्य चरेदिदं ।
श्रीवत्सधारिन् श्रिकान्त श्रीधामन् श्रीपते ऽव्यय ॥००४॥

गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं ।
अग्नयी मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः ॥००५॥

पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ।
लक्ष्म्या वियुज्यते देवो न कदाशिद्यथा भवान् ॥००६॥

तथा कलत्रसम्बन्धो देव मा मे विभिद्यतां ।
लक्ष्म्या न शून्यं वरद यथा ते शयनं विभो ॥००७॥

शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ।
लक्ष्मीं विष्णुं यजेदव्दं दद्याच्छय्यां फलानि च ॥००८॥

:न्
[[२००]]
विश्वास-प्रस्तुतिः
गगनाङ्गणसन्दीप दुग्धाब्धिमथनोद्भव ॥००९॥
मूलम्
गगनाङ्गणसन्दीप दुग्धाब्धिमथनोद्भव ॥००९॥
विश्वास-प्रस्तुतिः
भाभासितादिगाभोग रामानुज नमो ऽस्तु ते ।
ॐ श्रीं श्रीधराय नमः सोमात्मानं हरिं यजेत् ॥०१०॥

घं ढं भं हं श्रियै नमो दशरूपमहात्मने ।
घृतेन होमो नक्तञ्च शय्यां दद्याद्द्विजातये1 ॥०११॥

दीपान्नभाजनैर् युक्तं छत्रोपानहमासनं ।
सोदकुम्भञ्च प्रतिमां विप्रायाथ च पात्रकं2 ॥०१२॥

पत्न्या य एवं कुरुते भुक्तिमुक्तिमवाप्नुयात् ।
कान्तिव्रतं प्रवक्ष्यामि कार्त्तिकस्य सिते चरेत् ॥०१३॥

नक्तभोजी द्वितीयायां पूजयेद् बलकेशवौ ।
वर्षं प्राप्नोति वै कान्तिमायुरारोग्यकादिकं ॥०१४॥

अथ शिष्णुव्रतं वक्ष्ये मनोवाञ्छितदायकं ।
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयं ॥०१५॥

पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः3
स्मृतं ।
वचया च तृतीये ऽह्नि सर्वौषध्या चतुर्थके ॥०१६॥

मुरामांषी वचा कुष्ठं शैलेयं रजनीद्वर्य4 ।
सटी चम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः ॥०१७॥

नाम्ना कृष्णाच्युतानन्त हृषीकेशेति पूजयेत् ।
पादे नाभ्यां चक्षुषि च क्रमाच्छिरसि पुष्पकैः ॥०१८॥

शशिचन्द्रशशाङ्केन्दुसञ्ज्ञाभिश्चार्घ्यं इन्दवे ।
नक्तं भुञ्जीत च नरो यावत्तिष्ठति चन्द्रमाः ॥०१९॥

[[२०१]]
विश्वास-प्रस्तुतिः
षण्मासं पावनं चाब्दं प्राप्नुयात् सकलं व्रती ।
एतद् व्रतं नृपैः स्त्रीभिः कृतं पूर्वं सुरादिभिः ॥०२०॥

{इत्य् आग्नेये महापुराणे द्वितीयाव्रतानि नाम सप्तसप्तत्यधिकशततमो ऽध्यायः ॥ }