१७६ प्रतिपद्व्रतानि

{अथ षट्सप्तत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

प्रतिपद्व्रतानि

अग्निर् उवाच
वक्ष्ये प्रतिपदादीनि व्रतान्यखिलदानि ते ।
कार्त्तिकाश्वयुजे चैत्रे प्रतिपद्ब्रह्मणस्तिथिः ॥००१॥

मूलम्

पञ्चदश्यान्निराहारः प्रतिपद्यर्चयेदजं ।
ॐ तत् सद्ब्रह्मणे नमो गायत्र्या वाव्दमेककं ॥००२॥

अक्षमालाश्रुवन्दक्षे1 वामे श्रुचकमण्डलु2
लम्बकूर्चञ्च जटिलं हैमं ब्रह्माणमर्चयेत् ॥००३॥

शक्त्या क्षीरं प्रदद्यात्तु ब्रह्मा मे प्रीयतामिति ।
निर्मलो भोगभ्क् स्वर्गे भूमौ विप्रो धनी भवेत् ॥००४॥

धन्यं व्रतं प्रवक्ष्यामि अधन्यो धन्यतां व्रजेत् ।
मार्गशीर्षे प्रतिपदि नक्तं हुत्वा प्युपोषितः3 ॥००५॥

अग्नये नम इत्य् अग्निं प्रार्च्याव्दं सर्वभाग् भवेत् ।
प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः ॥००६॥

वैश्वानरपदं याति शिखिव्रतमिदं स्मृतं ।

{इत्य् आग्नेये महापुराणे प्रतिपद्व्रतानि नाम षट्सप्तत्यधिकशततमो ऽध्यायः ॥ }

:न्

[[१९९]]

  1. अक्षमालाश्रुचं दक्षे इति छ॥ ↩︎ ↩︎

  2. वामे दण्डकमण्डलु इति छ॥ , झ॥ । वामे श्रुवकमण्डलु इति
    छ॥ ↩︎ ↩︎

  3. नक्तं कृच्चाभ्युपोषित इति ग॥ ↩︎ ↩︎