{अथ पञ्चसप्त्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
व्रतपरिभाषा
अग्निर् उवाच
तिथिवारर्क्षदिवसमासर्त्वब्दार्कसङ्क्रमे ।
नृस्त्रीव्रतादि1 वक्ष्यामि वसिष्ठ शृणु तत् क्रमात् ॥००१॥
मूलम्

:न्
[[१९२]]
विश्वास-प्रस्तुतिः
शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतं ।
नियमास्तु विशेषास्तु व्रतस्यैव दमादयः ॥००२॥

व्रतं हि कर्तृसन्तापात्तप इत्य् अभिधीयते ।
इन्द्रियग्रामनियमान्नियमश्चाभिधीयते ॥००३॥

अनग्नयस्तु ये विप्रास्तेषां श्रेयो ऽभिधीयते ।
व्रतोपवासनियमैर् नानादानैस् तथा द्विजः ॥००४॥

ते स्युर्देवादयः2 प्रीता भुक्तिमुक्तिप्रदायकाः ।
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ॥००५॥

उपवासः स विज्ञेयः सर्वभोगविवर्जितः1 ।
कांस्यं मांसं मसूरञ्च चणकं कोरदूषकं ॥००६॥

शाकं मधु परान्नञ्च3 त्यजेदुपवसन् स्त्रियं ।
पुष्पालङ्कारवस्त्राणि धूपगन्धनुलेपनं ॥००७॥

उपवासे न शस्यन्ति दन्तधावनमञ्जनं ।
दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रातर्व्रतञ्चरेत् ॥००८॥

असकृज्जलपानाच्च ताम्बूलस्य च भक्षणात् ।
उपवासः प्रदुष्येत दिवास्वप्नाच्च मैथुनात् ॥००९॥

क्षमा सत्यन्दया दानं शौचमिन्द्रियनिग्रहः ।
देवपूजाग्निहरणं4 सन्तोषो ऽस्तेयमेव च ॥०१०॥

सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः ।
पवित्राणि जपेच्चैव जुहुयाच्चैव शक्तितः ॥०११॥

नित्यस्नायी मिताहारो2 गुरुदेवद्विजार्चकः ।
क्षारं क्षौद्रञ्च लवणं मधु मांसानि वर्जयेत् ॥०१२॥

तिलमुद्गादृते शस्यं शस्ये गोधूमकोद्रवौ ।
चीनकं देवधान्यञ्च शमीधान्यं तथैक्षवं1 ॥०१३॥

शितधान्यं तथा पुण्यं मूलं क्षारगणः स्मृतः ।
व्रीहिषष्टिकमुद्गाश् च कलायाः सतिला यवाः ॥०१४॥

श्यामाकाश् चैव नीवारा गोधूमाद्या व्रते हिताः ।
कुष्माण्डालावुवार्ताकून् पालङ्कीम्पूतिकान्त्यजेत् ॥०१५॥

चरुभैक्ष्यं शक्तुकणाः शाकन्दधि घृतं पयः ।
श्यामाकशालिनीवारा यवकं मूलतण्डुलं ॥०१६॥

हविष्यं व्रतनक्तादावग्निकार्यादिके हितं ।
मधु मांसं विहायान्यद् व्रते वा हितमीरितं ॥०१७॥

त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितं ।
त्र्यहम्परञ्च नाश्नीयात् प्राजापत्यञ्चरन् द्विजः ॥०१८॥

एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहञ्चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ॥०१९॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं ।
एकरात्रोपवासश् च कृच्छ्रं शान्तपनं स्मृतं ॥०२०॥

पृथक् शान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रो ऽयं महाशान्तपनो ऽघहा ॥०२१॥

[[१९४]]
विश्वास-प्रस्तुतिः
महापराकस्त्रिगुणस्त्वयमेव प्रकीर्तितः ॥०२२॥

पौर्णमास्यां पञ्चदशग्रास्यमावास्यभोजनः ।
एकापाये ततो वृद्धौ चान्द्रायणमतो ऽन्यथा ॥०२३॥

कपिलागोः पलं मूत्रं अर्धाङ्गुष्ठञ्च गोमयं ।
क्षीरं सप्तपलन्दद्यात् दध्नश् चैव पलद्वयं2 ॥०२४॥

घृतमेकपलन्दद्यात् पलमेकं कुशोदकं ।
गयत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयं ॥०२५॥

आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ।
तेजो ऽसीति तथा चाज्यं देवस्येति कुशोदकं1 ॥०२६॥

ब्रह्मकूर्चो भवत्येवं आपो हिष्ठेत्यृचं जपेत् ।
अघमर्षणसूक्तेन संयोज्य प्रणवेन वा ॥०२७॥

पीत्वा सर्वाघनिर्मुक्तो विष्णुलोकी ह्य् उपोषितः ।
उपवासी सायम्भोजी यतिः षष्ठात्मकालवान् ॥०२८॥

मांसवर्जी चाश्वमेधी सत्यवादी दिवं व्रजेत् ।
अग्न्याधेयं प्रतिष्ठाञ्च यज्ञदानव्रतानि च ॥०२९॥

देवव्रतवृषोत्सर्गचूडाकरणमेखलाः ।
माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत् ॥०३०॥

दर्शाद्दर्शस्तु चान्द्रः स्यात् त्रिंशाहश् चैव भावनः ।
मासः सौरस्तु सङ्क्रान्तेर्नाक्षत्रो भविवर्तनात् ॥०३१॥

[[१९५]]
विश्वास-प्रस्तुतिः
आव्धिके पितृकार्ये च चान्द्रो मासः प्रशस्यते ॥०३२॥

आषाढीमवधिं कृत्वा यः स्यात्पक्षस्तु पञ्चमः ।
कुर्याच्छ्राद्धन्तत्र रविः कन्यां गच्छतु वा न वा ॥०३३॥

मासि संवत्सरे चैव तिथिद्वैधं यदा भवेत् ।
तत्रोत्तरोत्तमा ज्ञेया पूर्वा तु स्यान् मलिम्लुचा ॥०३४॥

उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ।
दिवा पुण्यास्तु तिथयो रात्रौ नक्तव्रते शुभाः ॥०३५॥

युग्माग्निकृतभूतानि2 षण्मुन्योर्वसुरन्ध्रयोः ।
रुद्रेण द्वादशो युक्ता चतुर्दश्याथ1 पूर्णिमा ॥०३६॥

प्रतिपदा त्वमावास्या तिथ्योर्युग्मं महाफलं ।
एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतं ॥०३७॥

नरेन्द्रमन्त्रिव्रतिनां3 विवाहोपद्रवादिषु ।
सद्यः शौचं समाख्यातं कान्तारापदि संषदि ॥०३८॥

आरब्धदीर्घतपसां न राजा व्रतहा स्त्रियाः ।
गर्भिणी सूतिका नक्तं कुमारी च रजस्वला ॥०३९॥

यदाशुद्धा तदान्येन कारयेत क्रियाः सदा ।
क्रोधात् प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि ॥०४०॥

दिनत्रयं न भुञ्ञीत मुण्डनं शिरसो ऽथ वा ।
असामर्थ्ये व्रतकृतौ पत्नीं वा कारयेत् सुतं ॥०४१॥

सूतके मृतके कार्त्यं प्रारब्धं पूजनोज्झितं ।
व्रतस्थं मूर्छितं दुग्धपानाद्यैर् उद्धरेद् गुरुः ॥०४२॥

[[१९६]]
विश्वास-प्रस्तुतिः
अष्तौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधं ॥०४३॥

कीर्तिसन्ततिविद्यादिसौभाग्यारोग्यवृद्धये ।
नैर्मल्यभुक्तिमुक्त्यर्थं कुर्वे व्रतपते व्रतं ॥०४४॥

इदं व्रतं मया श्रेष्ठं गृहीतं पुरतस्तव ।
निर्विघ्नां सिद्धिमायातु त्वत्प्रसादात् जगत्पते ॥०४५॥

गृहीते ऽस्मिन् व्रतवरे2 यद्यपूर्णे म्रिये ह्य् अहं ।
तत्सर्वं पूर्णमेवास्तु प्रसन्ने त्वयि सत्पतौ ॥०४६॥

व्रतमूर्तिं जगद्भूतिं मण्डले सर्वसिद्धये ।
आवहये नमस्तुभ्यं सन्निधीभव केशव ॥०४७॥

मनसा कल्पितैर् भक्त्या पञ्चगव्यैर् जलैः शुभैः ।
पञ्चामृतैः स्नापयामि त्वं मे च भव पापहा ॥०४८॥

गन्धपुष्पोदकैर् युक्तमर्घ्यमर्घ्यपते शुभं ।
गृहाण पाद्यमाचाममर्घ्यार्हङ्कुरु मां सदा ॥०४९॥

वस्त्रं वस्त्रपते पुण्यं गृहाण कुरु मां सदा ।
भूषणाद्यैः सुवस्त्राद्यैश्छादितं व्रतसत्पते ॥०५०॥

सुगन्धिगन्धं विमलं गन्धमूर्ते गृहाण वै ।
पापगन्धविहीनं मां कुरु त्वं हि सुगन्धिकं ॥०५१॥

पुष्पं गृहाण पुष्पादिपूर्ण मां कुरु सर्वदा ।
पुष्पगन्धं सुविमलं आयुरारोग्यवृद्धये ॥०५२॥

दशाङ्गं गुग्गुलुघृतयुक्तं धूपं गृहाण वै ।
सधूप धूपित मां त्वं कुरु धूपितसत्पते ॥०५३॥

[[१९७]]
विश्वास-प्रस्तुतिः
दीपमूर्धशिखं दीप्तं गृहाणाखिलभासकं ।
दीपमूर्ते प्रकाशाढ्यं सर्वदोर्ध्वगतिं कुरु ॥०५४॥

अन्नादिकञ्च नैवेद्यं गृहाणान्नादि सत्पते ।
अन्नादिपूर्णं कुरु मामन्नदं सर्वदायकं ॥०५५॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं मया प्रभो ।
यत् पूजितं व्रतपते परिपूर्णन्तदसु मे ॥०५६॥

धर्मं देहि धनं देहि सौभाग्यं गुणसन्ततिं ।
कीर्तिं विद्यां2 देहि चायुः स्वर्गं मोक्षञ्च देहि मे ॥।०५७।
इमां पूजां व्रतपते गृहीत्वा व्रज साम्प्रतं ।
पुनरागमनायैव वरदानाय वै प्रभो ॥०५८॥

स्नात्वा व्रतवता सर्वव्रतेषु व्रतमूर्तयः ।
पूज्याः सुवर्णजास्ता वै शक्त्या वै भूमिशायिना ॥०५९॥

जपो होमश् च सामान्यव्रतान्ते दानमेव च ।
चतुर्विंशा द्वादश वा पञ्च वा त्रय एककः ॥०६०॥

विप्राः प्रपूज्या गुरवो1 भोज्याः शक्त्या तु दक्षिणा ।
देया गावः सुवर्णाद्याः पादुकोपानहौ पृथक् ॥०६१॥

जलपात्रञ्चान्नपात्रमृत्तिकाच्छत्रमासनं3 ।
शय्या वस्त्रयुगं कुम्भाः परिभाषेयमीरिता ॥०६२॥

{इत्य् आग्नेये महापुराणे व्रतपरिभाषानाम पञ्चसप्तत्यधिकशततमो ऽध्यायः ॥ }
:न्
[[१९८]]