१७४ प्रायश्चित्तानि

{अथ चतुःसप्तत्यधिकशततमो ऽध्यायः }

विश्वास-प्रस्तुतिः

प्रायश्चित्तानि

अग्निर् उवाच
देवाश्रमार्चनादीनां प्रायश्चित्तन्तु लोपतः ।
पूजालोपे चाष्टशतं जपेद्द्विगुणपूजनं ॥००१॥

मूलम्

पञ्चोपनिषदैर् मन्त्रैर् हुत्वा ब्राह्मणभोजनं ।
सूतिकान्त्यजकोदक्यास्पृष्टे देवे शतं जपेत्1 ॥००२॥

पञ्चोपनिषदैः पूजां द्विगुणं स्नानमेव च ।
विप्रभोज्यं होमलोपे होमस्नानं तथार्चनं ॥००३॥

होमद्रव्ये मूषिकाद्यैर् भक्षिते कीटसंयुते ।
तावन्मात्रं परित्यज्य प्रोक्ष्य देवादि पूजयेत् ॥००४॥

अङ्कुरार्पणमात्रन्तु छिन्नं भिन्नं परित्यजेत् ।
अस्पृश्यैश् चैव संस्पृष्टे अन्यपात्रे तदर्पणं ॥००५॥

देवमानुषविघ्नघ्नं पूजाकाले तथैव च ।
मन्त्रद्रव्यादिव्यत्यासे मूलं जप्त्वा पुनर्जपेत् ॥००६॥

कुम्भेनाष्टशतजपो देवे तु पतिते करात् ।
भिन्ने नष्टे चोपवासः शतहोमाच्छुभं भवेत्2 ॥००७॥

:न्

[[१९०]]

विश्वास-प्रस्तुतिः

कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परं ॥००८॥

चान्द्रायणं पराको वा प्राजापत्यमघौघनुत् ।
सूर्येशशक्तिश्रीशदिमन्त्रजप्यमघौघनुत् ॥००९॥

गायत्रीप्रणवस्तोत्रमन्त्रजप्यमघान्तकं ।
काद्यैर् आवीजसंयुक्तैर् आद्यैर् आद्यैस्तदन्तकैः ॥०१०॥

सूर्येशशक्तिश्रीशादिमन्त्राः कोट्यधिकाः पृथक् ।
ओंह्रीमाद्याश् चतुर्थ्यन्ता नमोन्ताः सर्वकामदाः ॥०११॥

नृसिंहद्वादशाष्टार्णमालामन्त्राद्यघौघनुत् ।
आग्नेयस्य पुराणस्य पठनं श्रवणादिकं ॥०१२॥

द्विविद्यारूपको विष्णुरग्निरूपस्तु गीयते ।
परमात्मा देवमुखं सर्ववेदेषु गीयते ॥०१३॥

प्रवृत्तौ तु निवृत्तौ तु इज्यते भुक्तिमुक्तिदः1
अग्निरूपस्य विष्णोर्हि हवनं ध्यानमर्चनं ॥०१४॥

जप्यं स्तुतिश् च प्रणतिः शारीराशेषाघौघनुत् ।
दशस्वर्णानि दानानि धान्यद्वादशमेव च ॥०१५॥

तुलापुरुषमुख्यानि महादानानि षोडश ।
अन्नदानानि मुख्यानि सर्वाण्यघहराणि हि ॥०१६॥

तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकालके ।
ब्रतादि सूर्येशशक्तिश्रीशादेरघघातनं2 ॥०१८॥

गङ्गा गया प्रयागश् च काश्ययोध्या ह्य् अवन्तिका ।

:न्

[[१९१]]

विश्वास-प्रस्तुतिः

कुरुक्षेत्रं पुष्करञ्च नैमिषं पुरुषोत्तमः ॥०१९॥

शालग्रामप्रभासाद्यं तीर्थञ्चघोघघातकं ।
अहं ब्रह्म परं ज्योतिरिति ध्यानमघौघनुत् ॥०२०॥

पुराणं ब्रह्म चाग्नेयं ब्रह्मा विष्णुर्महेश्वरः ।
अवताराः सर्वपूजाः प्रतिष्ठाप्रतिमादिकं ॥०२१॥

ज्योतिःशास्त्रपुराणानि स्मृतयस्तु तपोव्रतं1
अर्थशास्त्रञ्च सर्गाद्या आयुर्वेदो धनुर्मतिः ॥०२२॥

शिक्षा छन्दो व्याकरणं निरुक्तञ्चाभिधानकं ।
कल्पो न्यायश् च मीमांसा ह्य् अन्यत् सर्वं हरिः प्रभुः ॥०२३॥

एके द्वयोर्यतो यस्मिन् यः सर्वमिति वेद यः ।
तं दृष्ट्वान्यस्य पापानि विनश्यन्ति हरिश् च सः ॥०२४॥

विद्याष्टादशरूपश् च सूक्ष्मः स्थूलो ऽपरो हरिः ।
ज्योतिः सदक्षरं ब्रह्म परं विष्णुश् च निर्मलः ॥०२५॥

{इत्य् आग्नेये महापुराणे प्रायश्चित्तानि नाम चतुःसप्तत्यधिकशततमो ऽध्यायः ॥ }

  1. शतं शहुनेदिति ख॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. शतहोमाच्छुचिर्भवेदिति ख॥ , घ॥ , ञ॥ च ↩︎ ↩︎ ↩︎ ↩︎