{अथ त्रिसप्तत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
प्रायश्चित्तं
अग्निर् उवाच
प्रायश्चित्तं ब्रह्णोक्तं वक्ष्ये पापोपशान्तिदं ।
स्यात् प्राणवियोगफलो व्यापारो हननं स्मृतं ॥००१॥
मूलम्

रागाद् द्वेषात् प्रमादाच्च स्वतः परत एव वा ।
ब्राह्मणं घातयेद्यस्तु स भवेद्ब्रह्मघातकः ॥००२॥

बहूनामेककार्याणां सर्वेषां शस्त्रधारिणां ।
यद्येको घातकस्तत्र सर्वे ते घातकाः स्मृताः ॥००३॥

:न्
[[१८४]]
विश्वास-प्रस्तुतिः
यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकं ॥००४॥

औषधाद्युपकारे तु न पापं स्यात् कृते मृते ।
पुत्रं शिष्यन्तथा भार्यां शासते न मृते ह्य् अघं ॥००५॥

देशं कालञ्च यः शक्तिं पापञ्चावेक्ष्य यत्नतः ।
प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता ब निष्कृतिः1 ॥००६॥

गवार्थे ब्राह्मणार्थे वा सद्यः प्राणान् परित्यजेत् ।
प्रास्येदात्मानमग्नौ वा मुच्यते ब्रह्महत्यया ॥००७॥

शिरःकपाली ध्वजवान् भैक्षाशी कर्म वेदयन् ।
ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात् ॥००८॥

षड्भिर्वर्षैः शुद्धचारी ब्रह्महा पूयते नरः ।
विहितं यदकामा मां कामात्तु द्विगुणं स्मृतं ॥००९॥

प्रायश्चित्तं प्रवृत्तस्य बधे स्यात्तु2 त्रिवार्षिकं ।
ब्रह्मघ्नि क्षत्रे द्विगुणं विट्च्छूद्रे द्विगुणं त्रिधा ॥०१०॥

अन्यत्र विप्रे सकलं पादोनं क्षत्रिये मतं ।
वैश्ये ऽर्धपादं क्षत्रे स्याद्वृद्धस्त्रीबालरोगिषु ॥०११॥

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतं ।
वैश्ये ऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥०१२॥

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ।
पञ्चगव्यं पिवेद्गोघ्नो मासमासीत संयतः ॥०१३॥

गोष्ठे शयो गो ऽनुगामी गोप्रदानेन शुद्ध्यति ।
कृच्छ्रञ्चैवातिकृच्छ्रं वा पादह्रासो नृपादिषु ॥०१४॥

[[१८५]]
विश्वास-प्रस्तुतिः
हत्वा पूर्वविधानेन चरेदर्धव्रतं द्विजः ॥०१५॥

ब्राह्मणान् भोजयेच्छक्त्या दद्याद्धेमतिलदिकं ।
मुष्टिचपेटकीलेन तथा शृङ्गादिमोटने ॥०१६॥

लगुडादिप्रहारेण गोबधं तत्र निर्दिशेत् ।
दमेन दामने चैव शकटादौ च योजने ॥०१७॥
मूलम्
लगुडादिप्रहारेण गोबधं तत्र निर्दिशेत् ।
दमेन दामने चैव शकटादौ च योजने ॥०१७॥
विश्वास-प्रस्तुतिः
स्तम्भशृङ्खलपाशैर् वा मृते पादोनमाचरेत् ।
काष्ठे शान्तपनं कुर्यात् प्राजापत्यन्तु लोष्ठके ॥०१८॥

तप्तकृच्छ्रन्तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकं ।
मार्जारगोधानकुलमण्डूकश्वपतत्रिणः ॥०१९॥

हत्वा त्र्यहं पिवेत् क्षीरं कृच्छ्रं चान्द्रायणं चरेत् ।
व्रतं रहस्ये रहसि प्रकाशे ऽपि प्रकाशकं ॥०२०॥

प्राणायामशतं कार्यं सर्वपापापनुत्तये ।
पानकं द्राक्षमधुकं खार्जरन्तालमैक्षवं ॥०२१॥

मध्वीकं टङ्कमाध्वीकं मैरेयं(?) नारिकेलजं ।
न मद्यान्यपि मद्यानि पैष्टी मुख्या सुरा स्मृता ॥०२२॥

त्रैवर्णस्य निषिद्धानि पीत्वा तप्त्वाप्यपः शुचिः ।
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ॥०२३॥

सुरापाणापनुत्यर्थं बालवामा जटी ध्वजी ।
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥०२४॥

पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।
मद्यमाण्डस्थिता आपः पीत्वा सप्तदिनं व्रती ॥०२५॥

चाण्डालस्य तु पानीयं पीत्वा स्यात् षड्दिनं व्रती ।
चण्डालकूपभाण्डेषु पीत्वा शान्तपनं चरेत् ॥०२६॥

[[१८६]]
विश्वास-प्रस्तुतिः
पञ्चगव्यं त्रिरान्ते पीत्वा चान्त्यजलं द्विजः ।
मत्स्यकण्टकशम्बूकशङ्खशुक्तिकपर्दकान् ॥०२७॥

पीत्वा नवोदकं चैव पञ्चगव्येन शुद्ध्यति ।
शवकूपोदकं पीत्वा त्रिरात्रेण विशुद्ध्यति ॥०२८॥

अन्त्यावसायिनामन्नं भुक्त्वा चान्द्रायणं चरेत् ।
आपत्काले शूद्रगृहे मनस्तापेन शुद्ध्यति ॥०२९॥

शूद्रभाजनभुक् विप्रः पञ्चगव्यादुपोषितः ।
कन्दुपक्वं स्नेहपक्वं स्नेहं च दधिशक्तवः ॥०३०॥

शूद्रादनिन्द्यान्येतानि गुडक्षीररसादिकं ।
अस्नातभुक् चोपवासी दिनान्ते तु जपाच्छुचिः ॥०३१॥

मूत्रोच्चार्यशुचिर्भुक्त्वा त्रिरात्रेण विशुद्ध्यति ।
केशकीटावपन्नं च पादस्पृष्टञ्च कामतः ॥०३२॥

भ्रूणघ्नावेक्षित्तं चैव सस्पृष्टं वाप्युदक्यया ।
काकाद्यैर् अवलीढं च शुनासंस्पृष्टमेव च ॥०३३॥

गवाद्यैर् अन्नमाघ्रातं भुक्त्वा त्र्यहमुपावसेत् ।
रेतोविण्मूत्रभक्षी तु प्राजापत्यं समाचरेत् ॥०३४॥

चान्द्रायण नवश्राद्धे पराको मासिके मतः ।
पक्षत्रये ऽतिकृच्छ्रं स्यात् षण्मासे कृच्छ्रमेव च ॥०३५॥

आब्दिके पादकृच्छ्रं स्यादेकाहः पुनराव्दिके ।
पूर्वेद्युर्वार्षिकं श्राद्धं परेद्युः पुनराव्दिकं ॥०३६॥

निषिद्धभक्षणे भुक्ते प्रायश्चित्तमुपोषणं ।
भूस्तृणं लशुनं भुक्त्वा1 शिशुकं कृच्छ्रमाचरेत्2 ॥०३७॥

[[१८७]]
विश्वास-प्रस्तुतिः
अभोज्यानान्तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टमेव च ।
जग्ध्वा मांसमभक्ष्यञ्च सप्तरात्रं पयः पिवेत् ॥०३८॥

मधु मांसञ्च यो ऽश्नीयाच्छावं सूतकमेव वा ।
प्राजापत्यं चरेत् कृच्छ्रं ब्रह्मचारी यतिर्व्रती ॥०३९॥

अन्ययेन परस्वापहरणं स्तेयमुच्यते ।
मुसलेन हतो राज्ञा स्वर्णस्तेयी विशुद्ध्यति ॥०४०॥

अधःशायी जटाधारी पर्णमूलफलाशनः ।
एककालं समश्नानो द्वादशाब्दे विशुद्ध्यति ॥०४१॥

रुक्मस्तेयी सुरापश् च ब्रह्महा गुरुतल्पगः ।
स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रञ्चाब्दं चरेन्नरः ॥०४२॥

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयस्कांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥०४३॥

मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।
वापीकूपतडागानां शुद्धिश्चान्द्रायणं स्मृतं ॥०४४॥

भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनं ॥०४५॥

तृणकाष्ठद्रुमाणाञ्च शुष्कान्नस्य गुडस्य च ।
चेलचर्मामिषाणाञ्च त्रिरात्रं स्यादभोजनं ॥०४७॥

पितुः पत्नीञ्च भगिनीमाचार्यतनयान्तथा ।
आचार्याणीं सुतां स्वाञ्च गच्छंश् च गुरुतल्पगः ॥०४८॥

गुरुतल्पे ऽभिभाष्यैनस्तप्ते पच्यादयोमये ।
शूमीं ज्वलन्तीञ्चाश्लिष्य मृतुना स विशुद्ध्यति ॥०४९॥

[[१८८]]
विश्वास-प्रस्तुतिः
एवमेव विधिं कुर्याद् योषित्सु पतितास्वपि ॥०५०॥

यत् पुंसः परदारेषु तच्चैनां कारयेद्व्रतं ।
रेतः सिक्त्वा कुमारीषु चाण्डालीषु सुतासु च ॥०५१॥

सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ।
यत् करोत्येकरात्रेण वृषलीसेवनं द्विजः ॥०५२॥

तद्भैक्ष्यभुग्1 जपन्नित्यं त्रिभिर्वर्षैर् व्यपोहति ।
पितृव्यदारगमने भ्रातृभार्यागमे2 तथा ॥०५३॥

चाण्डालीं पुक्कसीं वापि स्नुषाञ्च भगिनीं सखीं ।
मातुः पितुः स्वसारञ्च निक्षिप्तां शरणागतां ॥०५४॥

मातुलानीं स्वसारञ्च सगोत्रामन्यमिच्छतीं ।
शिष्यभार्यां गुरोर्भार्यां गत्वा चान्द्रायणञ्चरेत् ॥०५५॥

{इत्य् आग्नेये महापुराणे प्रायश्चित्तानि नाम त्रिसप्तत्यधिकशततमो ऽध्यायः ॥ }
:न्
[[१८९]]