१७२ प्रायश्चित्तानि

{अथ द्विसप्तत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

सर्वपापप्रायश्चित्तानि

पुष्कर उवाच
परदारपरद्रव्यजीवहिंसादिके यदा ।
प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥००१॥

मूलम्

सर्वपापप्रायश्चित्तानि

पुष्कर उवाच
परदारपरद्रव्यजीवहिंसादिके यदा ।
प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥००१॥

विश्वास-प्रस्तुतिः

विष्णवे विष्णवे नित्यं विष्णवे विष्णवे1 नमः ।
नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिं ॥००२॥

मूलम्

विष्णवे विष्णवे नित्यं विष्णवे विष्णवे1 नमः ।
नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिं ॥००२॥

विश्वास-प्रस्तुतिः

चित्तस्थमीशमव्यक्तमनन्तमपराजितं ।
विष्णुमीड्यमशेषेण अनादिनिधनं विभुं ॥००३॥

मूलम्

चित्तस्थमीशमव्यक्तमनन्तमपराजितं ।
विष्णुमीड्यमशेषेण अनादिनिधनं विभुं ॥००३॥

विश्वास-प्रस्तुतिः

विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश् च यत् ।
यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥००४॥

मूलम्

विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश् च यत् ।
यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥००४॥

विश्वास-प्रस्तुतिः

करोति कर्मभूतो ऽसौ स्थवरस्य चरस्य च ।
तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥००५॥

मूलम्

करोति कर्मभूतो ऽसौ स्थवरस्य चरस्य च ।
तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥००५॥

विश्वास-प्रस्तुतिः

ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् ।
तमुपेन्द्रमहं विष्णुं प्रणतार्तिहरं हरिं ॥००६॥

मूलम्

ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् ।
तमुपेन्द्रमहं विष्णुं प्रणतार्तिहरं हरिं ॥००६॥

विश्वास-प्रस्तुतिः

जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।
हस्तावलम्बनं विष्णुं प्रणमामि परात् परं ॥००७॥

मूलम्

जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।
हस्तावलम्बनं विष्णुं प्रणमामि परात् परं ॥००७॥

विश्वास-प्रस्तुतिः

सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।
हृषीकेश हृषीकेश हृषीकेश नमो ऽस्तु ते ॥००८॥

मूलम्

सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।
हृषीकेश हृषीकेश हृषीकेश नमो ऽस्तु ते ॥००८॥

नृसिंहानन्त गोविन्द भूतभवन केशव ।

:न्

[[१८२]]

विश्वास-प्रस्तुतिः

दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमो ऽस्तु ते ॥००९॥

मूलम्

दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमो ऽस्तु ते ॥००९॥

विश्वास-प्रस्तुतिः

यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना ।
अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥०१०॥

मूलम्

यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना ।
अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥०१०॥

विश्वास-प्रस्तुतिः

ब्रह्मण्यदेव गोविन्द परमार्थपरायण ।
जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥०११॥

मूलम्

ब्रह्मण्यदेव गोविन्द परमार्थपरायण ।
जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥०११॥

विश्वास-प्रस्तुतिः

यथापराह्णे सायाह्णे मध्याह्णे च तथा निशि ।
कायेन मनसा वाचा कृतं पापमजानता ॥०१२॥

मूलम्

यथापराह्णे सायाह्णे मध्याह्णे च तथा निशि ।
कायेन मनसा वाचा कृतं पापमजानता ॥०१२॥

विश्वास-प्रस्तुतिः

जानता च हृषीकेश पुण्डरीकाक्ष माधव ।
नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयं ॥०१३॥

मूलम्

जानता च हृषीकेश पुण्डरीकाक्ष माधव ।
नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयं ॥०१३॥

विश्वास-प्रस्तुतिः

शारीरं मे हृषीकेश पुण्डरीकाक्ष माधव ।
पापं प्रशमयाद्य त्वं1 बाक्कृतं मम माधव ॥०१४॥

मूलम्

शारीरं मे हृषीकेश पुण्डरीकाक्ष माधव ।
पापं प्रशमयाद्य त्वं1 बाक्कृतं मम माधव ॥०१४॥

विश्वास-प्रस्तुतिः

यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद् यदास्थितः ।
कृतवान् पापमद्याहं कायेन मनसा गिरा ॥०१५॥

मूलम्

यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद् यदास्थितः ।
कृतवान् पापमद्याहं कायेन मनसा गिरा ॥०१५॥

विश्वास-प्रस्तुतिः

यत् स्वल्पमपि यत् स्थूलं कुयोनिनरकाबहं ।
तद्यातु प्रशमं सर्वं वासुदेवानुकीर्तनात् ॥०१६॥

मूलम्

यत् स्वल्पमपि यत् स्थूलं कुयोनिनरकाबहं ।
तद्यातु प्रशमं सर्वं वासुदेवानुकीर्तनात् ॥०१६॥

विश्वास-प्रस्तुतिः

परं ब्रह्म परं धाम पवित्रं परमञ्च यत् ।
तस्मिन्2 प्रकीर्तिते विष्णौ यत् पापं तत् प्रणश्यतु ॥०१७॥

मूलम्

परं ब्रह्म परं धाम पवित्रं परमञ्च यत् ।
तस्मिन्2 प्रकीर्तिते विष्णौ यत् पापं तत् प्रणश्यतु ॥०१७॥

विश्वास-प्रस्तुतिः

यत् प्राप्य न निवर्तन्ते गन्धस्पर्शदिवर्जितं ।
सूरयस्तत् पदं विष्णोस्तत् सर्वं शमयत्वघं3 ॥०१८॥

मूलम्

यत् प्राप्य न निवर्तन्ते गन्धस्पर्शदिवर्जितं ।
सूरयस्तत् पदं विष्णोस्तत् सर्वं शमयत्वघं3 ॥०१८॥

पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि[^४] ।

:न्

[[१८३]]

विश्वास-प्रस्तुतिः

शारीरैर् मानसैर् वाग्जैः कृतैः पपैः प्रमुच्यते ॥०१९॥

मूलम्

शारीरैर् मानसैर् वाग्जैः कृतैः पपैः प्रमुच्यते ॥०१९॥

विश्वास-प्रस्तुतिः

सर्वपापग्रहादिभ्यो याति विष्णोः परं पदं ।
तस्मात् पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनं ॥०२०॥

मूलम्

सर्वपापग्रहादिभ्यो याति विष्णोः परं पदं ।
तस्मात् पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनं ॥०२०॥

विश्वास-प्रस्तुतिः

प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरं ।
प्रायश्चित्तैः स्तोत्रजपैर् व्रतैर् नश्यति पातकं ॥०२१॥

मूलम्

प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरं ।
प्रायश्चित्तैः स्तोत्रजपैर् व्रतैर् नश्यति पातकं ॥०२१॥

विश्वास-प्रस्तुतिः

ततः कार्याणि1 संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥२२॥

मूलम्

ततः कार्याणि1 संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥२२॥

{इत्य् आग्नेये महापुराणे सर्वपापप्रायश्चित्ते पापनाशनस्तोत्रं नाम द्विसप्तत्यधिकशततमो ऽध्यायः ॥ }


  1. विष्णवे विष्णवे इति ज॥ , ञ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. अस्मिन्निति घ॥ ↩︎ ↩︎

  3. सर्वं गमयत्वघमिति झ॥ ↩︎ ↩︎