१७१ प्रायश्चित्तानि

{अथ एकसप्तत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

प्रायश्चित्तानि

पुष्कर उवाच
प्रायश्चित्तं रहस्यादि वक्ष्ये शुद्धिकरं पर ।
पौरुषेण तु सूक्तेन मासं जप्यादिनाघहा ॥००१॥

मूलम्

मुच्यते पातकैः सर्वैर् जप्त्वा त्रिरघमर्षणं ।
वेदजप्याद्वायुयमाद् गायत्र्या व्रततो ऽद्यहा1 ॥००२॥

मुण्डनं सर्वकृच्छ्रेषु स्नानं होमो हरेर्यजिः ।
उत्थितस्तु दिवा तिष्ठेदुपविष्टस् तथा निशि ॥००३॥

एतद्वीरासनं प्रोक्तं कृच्छ्रकृत्तेन पापहा ।
अष्टभिः प्रत्यहं ग्रासैर् यतिचान्द्रायणं स्मृतं ॥००४॥

प्रातश् चतुर्भिः सायञ्च शिशुचान्द्रायणं स्मृतं ।
यथाकथञ्चित् पिण्डानाम् चत्वारिंशच्छतद्वयं ॥००५॥

मासेन भक्षयेदेतत् सुरचान्द्रायणं चरेत् ।
त्र्यहमुष्णं पिवेदापस्त्यहमुष्णं पयः पिवेत् ॥००६॥

त्र्याहमुष्णं घृतं पीत्वा वायुभक्षो भवेत् त्र्यहं ।
तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्तितं ॥००७॥

कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं ॥००८॥

:न्

[[१८०]]

विश्वास-प्रस्तुतिः

एकरात्रोपवासश् चकृच्छ्रं शान्तपनं स्मृतं ।
एतच्च प्रत्याभ्यस्तं महाशान्तपनं स्मृतं ॥००९॥

त्र्यहाभ्यस्तमथैकैकमतिशान्तपनं स्मृतं ।
कृच्छ्रं पराकसञ्ज्ञं स्याद्द्वादशाहमभोजनं ॥०१०॥

एकभक्तं त्र्यहाभ्यस्तं क्रमान्नक्तमयाचितं ।
प्राजापत्यमुपोष्यान्ते पादः स्यात् कृच्छ्रपादकः ॥०११॥

फलैर् मासं फलं कृच्छ्रं बिल्वैः श्रीक्च्छ्र ईरितः ।
पद्माक्षैः स्यादामलकैः पुष्पकृच्छ्रं तु पुष्पकैः ॥०१२॥

पत्रकृच्छ्रन्तथा पत्रैस्तोयकृच्छ्रं जलेन तु ।
मूलकृच्छ्रन्तथा मूलैर् दृध्न क्षीरेण तक्रतः ॥०१३॥

मासं वायव्यकृच्छ्रं स्यात्पाणिपूरान्नभोजनात् ।
तिलैर् द्वादशरात्रेण कृच्छ्रमाग्नेयमार्तिनुत् ॥०१४॥

पाक्षं प्रसृत्या लाजानां ब्रह्मकूर्चं तथा भवेत् ।
उपोषितश् चतुर्दृश्यां पञ्चदश्यामनन्तरं ॥०१५॥

पञ्चगव्यं समश्नीयाद्धविष्याशीत्यनन्तरं ।
मासेन द्विर् नरः कृत्वा सर्वपापैः प्रमुच्यते ॥०१६॥

श्रीकामः पुष्टिकामश् च स्वर्गकामो ऽघनष्टये ।
देवताराधनपरः कृच्छ्रकारी स सर्वभाक् ॥०१७॥

{इत्य् आग्नेये महापुरेणे रहस्यादिप्रायश्वित्तं नाम एकसप्तत्यधिकशततमो ऽध्यायः ॥ }

[[१८१]]

  1. जपतो ऽवधहेति ख॥ , घ॥ , ज॥ च ↩︎ ↩︎