{अथ सप्तत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
प्रायश्चित्तानि
पुष्कर उवाच
महापापानुयुक्तानां1 प्रायश्चित्तानि2 वच्मिते ।
संवत्सरेण पतति पतितेन सहाचरन् ॥००१॥
मूलम्

याजनाद्ध्यापनाद्यौनान्न तु यानाशनासनात् ।
यो येन पतितेनैषां संसर्गं याति मानवः ॥००२॥

स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ।
पतितस्योदकं कार्यं सपिण्डैर् बान्धवैः सह ॥००३॥

निन्दिते ऽहनि सायाह्णे ज्ञात्यृत्विग् गुरुसन्निधौ ।
दासो घटमपां पूर्णं पर्यस्येत् प्रेतवत्पदा3 ॥००४॥

अहोरात्रमुपासीतन्नशौचं बान्धवैः सह ।
निवर्तयेरंस्तस्मात्तु ज्येष्ठांशम्भाषणादिके ॥००५॥

:न्
[[१७५]]
विश्वास-प्रस्तुतिः
प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवं ॥००६॥

तेनैव सार्धं प्राश्येयुः स्नात्वा पुण्यजलाशये ।
एवमेव विधिं कुर्युर्योषित्सु पपितास्वपि ॥००७॥

वस्त्रान्नपानन्देयन्तु वसेयुश् च गृहान्तिके ।
तेषां द्विजानां सावित्री नानूद्येत1 यथाविधि ॥००८॥

तांश्चारयित्वा त्रीन् कृछ्रान् यथाविध्युपनाययेत् ।
विकर्मस्थाः परित्यक्तास्तेषां मप्येतदादिशेत् ॥००९॥

जपित्वा त्रीणि सावित्र्याः सहस्त्राणि समाहितः ।
मासङ्गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात् ॥०१०॥

ब्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ।
अभिचारमहीनानान्त्रिभिः कृच्छैर् व्यपोहति2 ॥०११॥

शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।
संवत्सं यताहारस्तत्पापमपसेधति ॥०१२॥

श्वशृगालखरैर् दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।
नरोष्ट्राश्वैर् वराहैश् च3 प्राणायामेन शुद्ध्यति ॥०१३॥

स्नातकव्रतलोपे च कर्मत्यागे ह्य् अभोजनं ।
हुङ्कारं4 ब्राह्मणस्योक्त्वा त्वङ्करञ्च गरीयसः ॥०१४॥

स्नात्वानश्नन्नहःशेषमभिवाद्य प्रसादयेत् ।
अवगूर्य चरेक्षच्छ्रमतिकृच्छ्रन्निपातने ॥०१५॥

[[१७६]]
विश्वास-प्रस्तुतिः
चाण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि ॥०१६॥

सम्यग् ज्ञातस्तु कालेन तस्य कुर्वीत शोधनं ।
चान्द्रायणं पराकं वा द्विजानान्तु विशोधनं ॥०१७॥

प्राजापत्यन्तु शूद्राणां शेषन्तदनुसारतः ।
गुण्डङ्कुसुम्भं लवणं तथा धान्यानि यानि च ॥०१८॥

कृत्वा गृहे ततो द्वारि तेषान्दद्याद्धुताशनं ।
मृणमयानान्तु भाण्डानां त्याग एव विधीयते ॥०१९॥

द्रव्याणां परिशेषाणां द्रव्यशुद्धिर्विधीयते ।
कूपैकपानसक्ता ये स्पर्शात्सङ्कल्पदूषिताः1 ॥०२०॥

शुद्ध्येयुरुपवासेन पञ्चगव्येन वाप्यथ ।
यस्तु संस्पृश्य चण्डालमश्नीयाच्च स्वकामतः ॥०२१॥

द्विजश्चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा ।
भाण्डसङ्कलसङ्कीर्णश्चाण्डालादिजुगुप्सितैः ॥०२२॥

भुक्त्वापीत्वा तथा तेषां षड्रात्रेण विशुद्ध्यति ।
अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः ॥०२३॥

व्रतं चान्द्रायणं कुर्युस्त्रिरात्रं शूद्र एव तु ।
चण्डालकूपभाण्डेषु अज्ञानात्पिवते जलं ॥०२४॥

द्विजः शान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनं ।
चण्डालेन तु संस्पृष्टो2 यस्त्वपः पिवते द्विजः ॥०२५॥

त्रिरात्रन्तेन कर्तव्यं शूद्रश्चोपवसेद्दिनं ।
उच्छिष्टेन यदि3 स्पृष्टः शुना शूद्रेण वा द्विजः ॥०२६॥

[[१७७]]
विश्वास-प्रस्तुतिः
उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति ।
वैश्येन क्षत्रियेणैव स्नानं नक्तं समाचरेत् ॥०२७॥

अध्वानं प्रस्थितो विप्रः कान्तारे यद्यनूदके ।
पक्वान्नेन गृहीतेन मूत्रोच्चारङ्करोति वै ॥०२८॥

अनिधायैव तद्द्रव्यं अङ्गे कृत्वा तु संस्थितं ।
शौचं कृत्वान्नमभ्युक्ष्य अर्कस्याग्नेयश् च दर्शयेत् ॥०२९॥

म्लेच्छैर् गतानां चौरैर् वा कान्तारे वा प्रवासिनां ।
भक्ष्याभक्ष्यविशुद्ध्यर्थं1 तेषां वक्ष्यामि
निष्कृतिं ॥०३०॥

पुनः प्राप्य स्वदेशञ्च वर्णानामनुपूर्वशः ।
कृच्छ्रस्यान्ते ब्राह्मणस्तु पुनः संस्कारमर्हति ॥०३१॥

पादोनान्ते क्षत्रियश् च अर्धान्ते वैश्य एव च ।
पादं कृत्वा तथा शूद्रो दानं दत्वा विशुद्ध्यति ॥०३२॥

उदक्या तु सवर्णा या स्पृष्टा चेत् स्यादुदक्यया ।
तस्मिन्नेवाहनि स्नाता शुद्धिमाप्नोत्यसंशयं ॥०३३॥

रजस्वला तु नाश्नीयात् संस्पृष्टा हीनवर्णया ।
यावन्न शुद्धिमाप्नोति शुद्धस्नानेन शुद्ध्यति ॥०३४॥

मूत्रं कृत्वा व्रजन्वर्त्म स्मृतिभ्रंशाज्जलं पिवेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥०३५॥

मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः ।
मोहाद्भुक्त्वा2 त्रिरात्रन्तु यवान् पीत्वा विशुद्ध्यति ॥०३६॥

[[१७८]]
विश्वास-प्रस्तुतिः
अनाशकनिवृताश् च तेषां शुद्धिः प्रचक्ष्यते ॥०३७॥

चारयेत्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ।
जातकर्मादिसंस्कारैः संस्कुर्यात्तं तथा पुनः ॥०३८॥

उपानहममेध्यं च यस्य संस्पृशते मुखं ।
मृत्तिकागोमयौ तत्र पञ्चगव्यञ्च शोधनं ॥०३९॥

वापनं विक्रयञ्चैव नीलवस्त्रादिधारणं ।
तपनीयं हि विप्रस्य त्रिभिः कृछ्रैर् विशुद्ध्यति ॥०४०॥

अन्त्यजातिश्वपाकेन1 संस्पृष्टा स्त्री रजस्वला ।
चतुर्थे ऽहनि शुद्धा सा त्रिरात्रं तत्र आचरेत्2 ॥०४१॥

चाण्डालश्वपचौ स्पृष्ट्वा तथा पूयञ्च सूतिकां ।
शवं तत्स्पर्शिनं स्पृष्ट्वा3 सद्यः स्नानेन शुद्ध्यति ॥०४२॥

नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति ।
रथ्यार्कद्दमतोयेन अधीनाभेर्मृदोदकैः ॥०४३॥

वान्तो विविक्तः स्नात्वा तु घृतं प्राश्य विशुद्ध्यति ।
स्नानात् क्षुरकर्मकर्ता कृच्छ्रकृद्ग्रहणे ऽन्नभुक् ॥०४४॥

अपाङ्क्तेयाशी गव्याशी शुना दष्टस् तथा शुचिः ।
कृमिदष्टश्चात्मघाती कृच्छ्राज्जप्याच्च होमतः ॥०४५॥

होमाद्यैश्चानुतापेन पूयन्ते पापिनो ऽखिलाः4 ॥४६॥

{इत्य् आग्नेये महापुराणे प्रायश्चित्तानि नाम सप्तत्यधिकशततमो ऽध्यायः ॥ }
:न्
[[१७९]]