१६९ प्रायश्चित्तानि

{अथैकोनसप्तत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

प्रायश्चित्तानि

पुष्कर उवाच
एतत्प्रभृतिपापानां प्रायश्चित्तं वदामि ते ।
ब्रह्महा द्वादशाब्दानि कुटीङ्कृत्वा वने वसेत् ॥००१॥

मूलम्

भिक्षेतात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजं ।
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥००२॥

यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।
जपन्वान्यतमं वेदं योजनानां शतं ब्रजेत् ॥००३॥

सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।
व्रतैर् एतैर् व्यपोहन्ति महापातकिनो मलं ॥००४॥

उपपातकसंयुक्तो गोघ्नो मासं यवान् पिवेत् ।
कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ॥००५॥

चतुर्थकालमश्रीयादक्षारलवणं मितं ।
गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥००६॥

दिवानुगच्छेद्गाश् चैव तिष्ठन्नूर्ध्वं रजः पिवेत् ।
वृषभैकादशा गास्तु दद्याद्विचारितव्रतः1 ॥००७॥

अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ।
पादमेकञ्चरेद्रोधे द्वौ पादौ बन्धने चरेत् ॥००८॥

:न्

[[१७१]]

विश्वास-प्रस्तुतिः

योजने पादहीनं स्याच्चरेत् सर्वं निपातने ।
कान्तारेष्वथ दुर्गेषु विषमेषु भयेषु च ॥००९॥

यदि तत्र विपत्तिः स्यादेकपादो विधीयते ।
घण्टाभरणदोषेण तथैवर्धं विनिर्दिशत् ॥०१०॥

दमने दमने रोधे शकटस्य नियोजने ।
स्तम्भशृङ्खलपाशेषु मृते पादोनमाचरेत् ॥०११॥

शृङ्गभङ्गे ऽस्थिभङ्गे च लाङ्गूलच्छेदने तथा ।
यावकन्तु पिवेत्तावद्यावत् सुस्था तु गौर्भवेत् ॥०१२॥

गोमतीञ्च जपेद्विद्यां गोस्तुतिं गोमतीं स्मरेत् ।
एका चेद्बहुभिर्दैवाद् यत्र व्यापादिता भवेत् ॥०१३॥

पादं पादन्तु हत्यायाश् चरेयुस्ते पृथक् पृथक् ।
उपकारे क्रियमाणे विपत्तौ नास्ति पातकं ॥०१४॥

एतदेव व्रतं कुर्युरुपपातकिनस् तथा ।
अवकीर्णवर्जं शुद्ध्यर्थञ्चान्द्रायणमथापि वा ॥०१५॥

अवकीर्णी तु कालेन गर्धभेन चतुष्पथे ।
पाकयज्ञविधानेन यजेत निरृतिं निशि ॥०१६॥

मूलम्

अवकीर्णी तु कालेन गर्धभेन चतुष्पथे ।
पाकयज्ञविधानेन यजेत निरृतिं निशि ॥०१६॥

विश्वास-प्रस्तुतिः

कृत्वाग्निं विधिवद्धीमानन्ततस्तु समित्तृचा ।
चन्द्रेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाहुतिं1 ॥०१७॥

अथवा गार्धभञ्चर्म वसित्वाब्दञ्चरेन्महीं ।
हत्वा गर्भमविज्ञातं ब्रह्महत्याव्रतं चरेत् ॥०१८॥

[[१७२]]

विश्वास-प्रस्तुतिः

सरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिवेत् ।
गोमूत्रमग्निवर्णं वा पिवेदुदकमेव वा ॥०१९॥

सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु ।
स्वकर्म ख्यापयन् व्रूयान्मां भवाननुशास्त्विति ॥०२०॥

गृहीत्वा मुशलं राजा सकृद्धन्यात् स्वयङ्गतं ।
बधेन शुद्ध्यते स्तेयो ब्राह्मणस्तपसैव वा ॥०२१॥

गुरुतल्पो निकृत्यैव शिश्नञ्च वृषणं स्वयं ।
निधाय चाञ्चलौ गच्छेदानिपाताच्च नैरृतिं ॥०२२॥

चान्द्रायणान् वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः ।
जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ॥०२३॥

चरेच्छान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ।
सङ्करीपात्रकृत्यासु मासं शोधनमैन्दवं ॥०२४॥

मलिनीकरणीयेषु तप्तं स्याद्यावकं त्र्यहं ।
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतः ॥०२५॥

वैश्ये ऽष्टमांशे वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ।
मार्जरनकुलौ हत्वा चासं मण्डूकमेव च ॥०२६॥

श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ।
चतुर्णामपि वर्णानां नारीं हत्वानवस्थितां ॥०२७॥

अमत्यैव प्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत् ।
सर्पादीनां बधे नक्तमनस्थ्नां वायुसंयमः ॥०२८॥

द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।
चरेच्छान्तपनं कृच्छं व्रतं निर्वाप्य सिद्ध्यति ॥०२९॥

[[१७३]]

विश्वास-प्रस्तुतिः

भक्षभोज्यापहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनं ॥०३०॥

तृणकाष्ठद्रुमाणान्तु शुष्कान्नस्य गुडस्य च ।
चेलचर्मामिषाणान्तु1 त्रिरात्रं स्यादभोजनं ॥०३१॥

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयःकांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥०३२॥

कार्पासकीटजीर्णानां द्विशफैकशफस्य च ।
पक्षिगन्धौषधीनान्तु रज्वा चैव त्र्यहम्पयः ॥०३३॥

गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु ।
सख्युः पुत्रस्य च स्त्रीषु कुमारोष्वन्त्यजासु च ॥०३४॥

पितृस्वस्रेयीं भगिनीं स्वस्रीयां मातुरेव च ।
मातुश् च भ्रातुराप्तस्य गत्वा चान्द्रायणञ्चरेत् ॥०३५॥

अमानुषीषु पुरुष उदक्यायामयोनिषु ।
रेतः सिक्त्वा जले चैव कृच्छ्रं शान्तपनञ्चरेत् ॥०३६॥

मैथुनन्तु समासेव्य पुंसि योषिति वा द्विजः ।
गोयाने ऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥०३७॥

चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति ॥०३८॥

विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ।
यत् पुंसः परदारेषु तदेनाञ्चारयेद्व्रतं ॥०३९॥

साचेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ।
कृच्छ्रञ्चाद्रायणञ्चैव तदस्याः पावनं स्मृतं ॥०४०॥

[[१७४]]

विश्वास-प्रस्तुतिः

यत् करोत्येकरात्रेण वृषलीसेवनं द्विजः ।
तद्भैक्ष्यभुक् जपेन्नित्यं त्रिभिर्वषैर् व्यपोहति ॥०४१॥

{इत्य् आग्नेये महापुराणे प्रायश्चित्तानि नाम एकोनसप्तत्यधिकशततमो ऽध्यायः ॥ }

  1. दद्यात् सुचरितव्रत इति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎