{अथाष्टषष्ट्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
महापातकादिकथनम्
पुष्कर उवाच
दण्डं कुर्यान्नृपो नॄणां प्रायश्चित्तमकुर्वतां ।
कामतो ऽकामतो वापि प्रायश्चित्तं कृतं चरेत् ॥००१॥
मूलम्

:न्
[[१६६]]
विश्वास-प्रस्तुतिः
मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।
महापातकिनां स्पृष्टं यच्च स्पृष्टमुदक्यया ॥००२॥

गणान्नं गणिकान्नं च1 वार्धुषेर्गायनस्य च ।
अभिशप्तस्य षण्डस्य यस्याश्चोपपतिर्गृहे ॥००३॥

रजकस्य नृशंसस्य वन्दिनः कितवस्य च ।
मिथ्यातपस्विनश् चैव चौरदण्डिकयोस् तथा2 ॥००४॥

कुण्डगोलस्त्रीजितानां वेदविक्रयिणस् तथा ।
शैलूषतन्त्रवायान्नं कृतघ्नस्यान्नमेव च ॥००५॥

कर्मारस्य निषादस्य चेलनिर्णेजकस्य च ।
मिथ्याप्रव्रजितस्यान्नम्पुंश् चल्यास्तैलिकस्य च ॥००६॥

आरूढपतितस्यान्नं विद्विष्टान्नं च वर्जयेत् ।
तथैव ब्राह्मणस्यान्नं ब्राह्मणेनानिमन्त्रितः ॥००७॥

ब्राह्मणान्नञ्च शूद्रेण नाद्याच्चैव निमन्त्रितः ।
एषामन्यतमस्यान्नममत्या वा त्र्यहं क्षपेत् ॥००८॥

मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रमेव च ।
चण्डालश्वपचान्नन्तु भुक्त्वा चान्द्रायणं चरेत् ॥००९॥

अनिर्दिशं च प्रेतान्नं गवाघ्रातं तथैव च ।
शूद्रोच्छिष्टं शुनोच्छिष्टं पतितान्नं तथैव च ॥०१०॥

तप्तकृच्छ्रं प्रकुर्वीत अशौचे कृच्छ्रमाचरेत् ।
अशौचे यस्य यो भुङ्क्ते सोप्यशुद्धस् तथा भवेत् ॥०११॥

[[१६७]]
विश्वास-प्रस्तुतिः
अपः पीत्वा त्र्यहं तिष्ठेत् सोपवासो द्विजोत्तमः ॥०१२॥

सर्वत्र शूद्रे पादः स्याद् द्वित्रयं वैश्यभूपयोः1 ।
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ॥०१३॥

प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।
शुष्काणि जग्ध्वा मांसानि2 प्रेतान्नं करकाणि च ॥०१४॥

क्रव्यादशूकरोष्ट्राणां गोमायोः कपिकाकयोः ।
गोनराश्वखरोष्ट्राणां छत्राकं ग्रामकुक्कुटं ॥०१५॥

मांसं जग्ध्वा कुञ्जरस्य तप्तकृच्छ्रेण शुद्ध्यति ।
आमश्राद्धे तथा भुक्त्वा ब्रह्मचारी मधु त्वदन् ॥०१६॥

लशुनं गुञ्जनं चाद्यात् प्राजापत्यादिना शुचिः3 ।
भुक्त्वा चान्द्रायणं कुर्यान् मांसञ्चात्मकृतन्तथा ॥०१७॥

पेलुगव्यञ्च पेयूषं तथा श्लेष्मातकं मृदं ।
वृथाकृशरसंयावपायसापूपशष्कुलीः ॥०१८॥

अनुपाकृटमांसानि देवान्नानि हवींषि च ।
गवाञ्च महिषीणां च वर्जयित्वा तथाप्यजां ॥०१९॥

सर्वक्षीराणि वर्ज्याणि तासाञ्चैवाप्यन्निर्दशं ।
शशकः शल्यकी गोधा खड्गः कूर्मस्तथैव च ॥०२०॥

भक्ष्याः पञ्चनखाः प्रोक्ताः परिशेषाश् च वर्जिताः ।
पाठीनरोहितान्मत्स्यान् सिंहतुण्डांश् च भक्षयेत् ॥०२१॥

यवगोधूमजं सर्वं पयसश् चैव विक्रियाः ।
वागषाड्गवचक्रादीन् सस्नेहमुषितं तथा ॥०२२॥

[[१६८]]
विश्वास-प्रस्तुतिः
अग्निहोत्रपरीद्धाग्निर्ब्राह्मणः कामचारतः ।
चान्द्रायणं चरेन्मासं वीरवध्वासनं हितं ॥०२३॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
महान्ति पातकान्याहुः संयोगश् चैव तैः सह ॥०२४॥

अनृते च समुत्कर्षो राजगामि च पैशुनं ।
गुरोश्चालीकनिर्बन्धः समानं ब्रह्महत्यया1 ॥०२५॥

ब्रह्मोज्झ्यवेदनिन्दा च कौटसाक्ष्यं सुहृद्बधः ।
गर्हितान्नाज्ययोर्जग्धिः2 सुरापानसमानि षट् ॥०२६॥

निक्षेपस्यापहरणं नराश्वरजतस्य च ।
भूमिवज्रमणीनाञ्च रुक्मस्तेयसमं स्मृतं ॥०२७॥

रेतःसेकः स्वयोन्याषु कुमारीष्वन्त्यजासु च ।
सख्युः पुत्रस्य च3 स्त्रीषु गुरुतल्पसमं विदुः ॥०२८॥

गोबधो ऽयाज्य संयाज्यं पारदार्यात्मविक्रियः ।
गुरुमातृपितृत्यागः स्वाध्ययाग्न्योः सुतस्य च ॥०२९॥

परिवित्तितानुजेन परिवेदनमेव च ।
तयोर्दानञ्च कन्यायास्तयोरेव च याजनं ॥०३०॥

कन्याया दूषणञ्चैव वार्धुष्यं व्रतलोपनं ।
तडागारामदाराणामपत्यस्य च विक्रियः ॥०३१॥

व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ।
भृताच्चाध्ययनादानमविक्रेयस्य विक्रयः ॥०३२॥

[[१६९]]
विश्वास-प्रस्तुतिः
सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनं ।
हिंसौषधीनां स्त्र्याजीवः क्रियालङ्गनमेव च ॥०३३॥

इन्धनार्थमशुष्काणां दुमाणाञ्चैव पातनं ।
योषितां ग्रहणञ्चैव स्त्रीनिन्दकसमागमः ॥०३४॥

आत्मार्थञ्च क्रियारम्भो निन्दितान्नदनन्तथा ।
अनाहिताग्नितास्तेयमृणानाञ्चानपक्रिया ॥०३५॥

असच्छास्त्राधिगमनं दौःशील्यं व्यसनक्रिया ।
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणं ॥०३६॥

स्त्रीशूद्रविट्क्षत्रबधो नास्तिक्यञ्चोपपातकं ।
ब्राह्मणस्य रुजः कृत्यं घ्रातिरघ्रेयमद्ययोः ॥०३७॥

जैम्भं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतं ।
श्वखरोष्ट्रमृगेन्द्राणामजाव्योश् चैव मारणं1 ॥०३८॥

सङ्कीर्णकरणं ज्ञेयं मीनाहिनकुलस्य च ।
निन्दितेभ्यो धनादानं बाणिज्यं शूद्रसेवनं ॥०३९॥

अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणं ।
कृमिकीटवयोहत्या मद्यानुगतभोजनं ॥०४०॥
मूलम्
अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणं ।
कृमिकीटवयोहत्या मद्यानुगतभोजनं ॥०४०॥
विश्वास-प्रस्तुतिः
फलैधःकुसुमस्तेयमधैर् यञ्च मलावहं ॥४१॥
मूलम्
फलैधःकुसुमस्तेयमधैर् यञ्च मलावहं ॥४१॥
{इत्य् आग्नेये महापुराणे महापातकादिकथनं नामाष्टषष्ट्यधिकशततमो ऽध्यायः ॥ }
:न्
[[१७०]]